भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.22

5.22.1

अथ वा रघुवंशाख्यनभःपूर्णनिशाकर ।
बडिवद् बुद्धिभेदेन ज्ञानम् आसादयामलम् ॥

5.22.2

भगवन् सर्वधर्मज्ञ त्वत्प्रसादान् मया हृदि ।
प्राप्तं प्राप्तव्यम् अखिलं विश्रान्तो ऽस्म्य् अमले पदे ॥

5.22.3

शरदीवाम्बराद् अभ्रम् अदभ्रं मम चेतसः ।
विभो व्यपगतं सर्वं कृष्णं मोहमहातमः ॥

5.22.4

अमृतापूरितस् स्वच्छश् शीतलात्मा महाद्युतिः ।
तिष्ठाम्य् आनन्दवान् अन्तस् सायं पूर्ण इवोडुराट् ॥

5.22.5

अशेषसंशयाम्भोदशरत्समय किं त्व् अहम् ।
तृप्तिम् एषां न गच्छामि वचसां वदतस् तव ॥

5.22.6

बडिविज्ञानसम्प्राप्तिं पुनर् मद्बोधवृद्धये ।
विभो कथय खिद्यन्ते सन्तो नावनतं प्रति ॥

5.22.7

शृणु राघव ते वक्ष्ये बडिवृत्तान्तम् उत्तमम् ।
श्रुतेन येन तेन त्वं बोधम् आप्स्यसि शाश्वतम् ॥

5.22.8

अस्त्य् अस्मिञ् जगतः कोशे कस्मिंश्चिद् दिक्तटान्तरे ।
पातालम् इति विख्यातो लोको भूमेर् अधस् स्थितः ॥

5.22.9

क्षीरोदार्णवजाताभिर् दिग्धाभिर् अमृताम्बुभिः ।
क्वचिद् दानवकन्याभिर् भाति निर्विवरान्तरः ॥

5.22.10

जिह्वाचरोद्दामरवैर् विषभारभरायुधैः ।
क्वचिद् भोगिभिर् आपूर्णस् सहस्रशतमस्तकैः ॥

5.22.11

हेलाविवलिताशेषविश्वोद्धरणघस्मरैः ।
क्वचिद् दनुसुतैर् व्याप्तश् चलद्भिर् इव मेरुभिः ॥

5.22.12

कटकुड्याग्रविश्रान्तवसुधामण्डलोद्धुरैः ।
क्वचिद् दिग्दन्तिभिर् दन्तद्रुमाद्रिभिर् उपाश्रितः ॥

5.22.13

महाकटकटाशब्ददग्धभूतपरम्परैः ।
क्वचिद् दुर्गन्धिदिग्भागो ध्वनन् नरकमण्डलैः ॥

5.22.14

आभूतलम् अभिप्रोतसप्तपातालमण्डलैः ।
क्वचिद् रत्नाकरैर् व्याप्तः पातालैर् इतरैर् इव ॥

5.22.15

सुरासुरशिरस्सुप्तपादाम्भोरुहपांसुना ।
क्वचिद् भगवता तेन कपिलेन पवित्रितः ॥

5.22.16

असुरीसम्भृतानन्तपूजनक्रीडनैषिणा ।
क्वचिद् भगवता तेन हाटकेशेन पालितः ॥

5.22.17

तस्मिन्न् असुरदोस्स्तम्भधार्यमाणमहाभरे ।
बभूव दानवो राजा विरोचनसुतो बडिः ॥

5.22.18

स्वाक्रान्तेन समं सर्वैस् सुरविद्याधरोरगैः ।
पादसंवाहनं यस्य सुरराजेन वाञ्छितम् ॥

5.22.19

कोशस् त्रैलोक्यरत्नानां पाता सर्वशरीरिणाम् ।
धर्ता भुवनधर्माणां यस्य प्रणतवान् हरिः ॥

5.22.20

ऐरावणस्य संशोषं यन्नाम्ना कटभित्तयः ।
केकयेवाहिहृन्नाड्यो जग्मुर् आजग्मुर् आर्तताम् ॥

5.22.21

प्रतापोग्रोष्मभिर् यस्य कल्पकाल इवाब्धयः ।
ययुश् शोषोन्मुखास् सप्त तप्ततां कुपिताकृतेः ॥

5.22.22

यदध्वराज्यधूमाभ्रराजयो वलिताद्रयः ।
ब्रह्माण्डकोटरस्यास्य सदा कवचतां ययुः ॥

5.22.23

यस्य दृष्टिदृढापाताद् अनुपातकुलाचलाः ।
विनमन्ति दिशस् सर्वा लताः फलनता इव ॥

5.22.24

लीलाविजितनिश्शेषभुवनाभोगभूषणः ।
दशकोटीस् स वर्षाणां दैत्यो राज्यं चकार ह ॥

5.22.25

अथ गच्छत्स्व् अनल्पेषु युगेष्व् आवर्तवृत्तिषु ।
सुरासुरमहौघेषु प्रोत्पतत्सु पतत्सु च ॥

5.22.26

अजस्रम् उपभुक्तेषु त्रैलोक्योदरवर्तिषु ।
भोगेष्व् अभजद् उद्वेगं बडिर् दानवनायकः ॥

5.22.27

मेरुशृङ्गशिखादन्तदिग्धवातायने स्थितः ।
एकदा चिन्तयाम् आस स्वयं संसारसंस्थितिम् ॥

5.22.28

किमन्तम् इदम् अक्षुण्णशक्तिनैव मयाधुना ।
साम्राज्यम् इह कर्तव्यं विहर्तव्यं जगत्त्रये ॥

5.22.29

महता मम राज्येन त्रैलोक्याद्भुतकारिणा ।
किं वा भवति भुक्तेन भूरिभोगातिभारिणा ॥

5.22.30

आपातमात्रमधुरम् आवश्यकपरिक्षयम् ।
भोगोपभोगमात्रं मे किं नामेदं सुखावहम् ॥

5.22.31

पुनर् दिनैककलना शार्वरीसंस्थितिः पुनः ।
पुनस् तान्य् एव कर्माणि लज्जायै न तु तुष्टये ॥

5.22.32

पुनर् आलिङ्ग्यते कान्ता पुनर् एव च भुज्यते ।
सेयं शिशुजनक्रीडा लज्जायै महताम् इह ॥

5.22.33

तम् एव शुक्तविरसं व्यापारौघं पुनः पुनः ।
दिवसे दिवसे कुर्वन् प्राज्ञः कस्मान् न लज्जते ॥

5.22.34

पुनर् दिनं पुना रात्रिः पुनः कार्यपरम्परा ।
पुनः पुनर् अहं मन्ये प्राज्ञस्येयं विडम्बना ॥

5.22.35

ऊर्मितां पुनर् आसाद्य पुनर् एति निरूर्मिताम् ।
यथा जलं तथैवायं तां ताम् एति क्रियां जनः ॥

5.22.36

उन्मत्तचेष्टिताकारा पुनः पुनर् इयं क्रिया ।
जनं हासयति प्राज्ञं बाललीलोपमा मुहुः ॥

5.22.37

कृतयाप्य् अनया नित्यं क्रियया कृतकार्यया ।
को ऽर्थस् स्यात् तादृशो येन पुनः कर्म न गच्छति ॥

5.22.38

कियन्तम् अथ वा कालम् इदम् आडम्बरं महत् ।
इहास्माभिर् अनुष्ठेयं किं यावत् समवाप्यते ॥

5.22.39

अनन्तेयं शिशुक्रीडा वस्तुशून्यैव वस्तुतः ।
आवृत्त्या क्रियते व्यर्थम् अनर्थप्रसवार्थिभिः ॥

5.22.40

फलम् एकं महोदारं नेह पश्यामि किञ्चन ।
कार्यम् अस्तीतरत् प्राप्ते यस्मिन् नाम न किञ्चन ॥

5.22.41

भोगाद् ऋते किम् अत्यन्तं स्याद् रम्यम् अविनाशि च ।
एतत् सञ्चिन्तयाम्य् आशु दध्यौ मत्वेत्य् असौ बडिः ॥

5.22.42

अथाभ्युवाचासुरराड् आ संस्मृतम् इति क्षणात् ।
आत्मन्य् एव मनस्य् अर्थं सभ्रूभङ्गं विमर्शयन् ॥

5.22.43

पुरा किलेह भगवान् पृष्टो ऽभूत् स विरोचनः ।
पिता मयात्मतत्त्वज्ञो दृष्टलोकपरावरः ॥

5.22.44

यथा सकलदुःखानां सुखानां च महामते ।
यत्र सर्वे भ्रमाश् शान्ताः को ऽसौ सीमान्त उच्यताम् ॥

5.22.45

क्वोपशान्तो मनोमोहः क्वातीतास् सकलैषणाः ।
विरामरहितं कुत्र तात विश्रमणं चिरम् ॥

5.22.46

किं प्राप्येह समस्तेभ्यः प्राप्तेभ्यस् तृप्तिमान् पुमान् ।
किं दृष्ट्वा दर्शनं भूयो न तातोपकरोत्य् अलम् ॥

5.22.47

अत्यन्तबहवो ऽप्य् एते भोगा हि न सुखावहाः ।
क्षोभयन्ति मनो मोहे पातयन्ति सताम् अपि ॥

5.22.48

तत् तात विततानन्दसुन्दरं किञ्चिद् एव मे ।
तादृक् कथय यत्रस्थश् चिरं विश्रान्तिम् एम्य् अहम् ॥

5.22.49

इत्य् आकर्ण्य पुरा निशाकरकरस्पर्धापरार्ध्योल्लसत्पुष्पापूरकृतावगुण्ठनपटस्योक्तं तले तेन मे ।
पित्रा स्वर्गहृतस्य सागरतरोस् संरोपितस्याजिरे स्फाराकाररसायनासवसमं मोहोपशान्त्यै वचः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc