भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.21

5.21.1

एवं प्रबोधितस् तेन तदा पुण्येन पावनः ।
प्रबोधम् आप प्राकाश्यं प्रभात इव भूतलम् ॥

5.21.2

उभाव् अपि ततस् सिद्धौ ज्ञानविज्ञानपारगौ ।
विचेरतुर् वने तस्मिन् यावदिच्छम् अनिन्दितौ ॥

5.21.3

ततः कदाचित् कालेन निर्वाणपदम् आगतौ ।
तौ विदेहौ गतस्नेहौ दीपाव् इव शमं गतौ ॥

5.21.4

एवं प्राग्भुक्तदेहानाम् अनन्ता धनबन्धुजाः ।
आशाः किं गृह्यते ताभ्यः किं वा सन्त्यज्यते ऽनघ ॥

5.21.5

तस्माद् आसाम् अनन्तानां तृष्णानां रघुनन्दन ।
उपायस् त्याग एवैको न नाम परिपालनम् ॥

5.21.6

चिन्तनेनैधते चिन्ता स्विन्धनेनेव पावकः ।
नश्यत्य् अचिन्तनेनैव विनेन्धनम् इवानलः ॥

5.21.7

ध्येयत्यागरथारूढः करुणोदारया दृशा ।
लोकम् आलोकयन् दीनं मा तिष्ठोत्तिष्ठ राघव ॥

5.21.8

एषा ब्राह्मी स्थितिस् स्वच्छा निष्कामा विगतामया ।
एनां प्राप्य महाबाहो विमूढो ऽपि न मुह्यति ॥

5.21.9

एकं विवेकं सुहृदम् एकां प्रौढसखीं धियम् ।
आदाय विहरन्न् एवं सङ्कटे ऽपि न मुह्यसि ॥

5.21.10

विनिवारितसर्वार्थाद् अपहस्तितबान्धवात् ।
न स्वधैर्याद् ऋते कश्चिद् अभ्युद्धरति सङ्कटात् ॥

5.21.11

वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैर् अपि ।
यत्नेनापद्विघातार्थं स्वम् एवोन्नमयेन् मनः ॥

5.21.12

न तत् त्रिभुवनैश्वर्यान् न कोशाद् रत्नधारिणः ।
फलम् आसाद्यते चित्ताद् यन् महत्त्वोपबृंहितात् ॥

5.21.13

तावद् अस्मिञ् जगत्कुक्षौ पातोत्पातावदोलनैः ।
पतन्ति पुरुषा यावन् मनस् तेषां न विज्वरम् ॥

5.21.14

पूर्णे मनसि सम्पूर्णं जगत् सर्वं सुधाद्रवैः ।
उपानद्गूढपादस्य किल चर्मावृतैव भूः ॥

5.21.15

नैराश्यात् पूर्णताम् एति मनो ऽनाशावशानुगम् ।
आशया रिक्तताम् एति शरदीव सरो मनः ॥

5.21.16

हृदयं शून्यताम् एति प्रकटीकृतकोटरम् ।
अगस्त्यपीतार्णववद् आशाविवशचेतसाम् ॥

5.21.17

यस्य चित्ततरौ स्फारे तृष्णाचपलमर्कटी ।
न वल्गति महत् तस्य राजते हृद्वनान्तरम् ॥

5.21.18

पद्माक्षकोशस् त्रिजगद् गोष्पदं योजनव्रजः ।
निमेषार्धं महाकल्पस् तृष्णारहितचेतसाम् ॥

5.21.19

शीतता सा न शीतांशौ न हिमाचलकन्दरे ।
न रम्भाचन्दनावल्यां निस्स्पृहेषु मनस्सु या ॥

5.21.20

न तथा भाति पूर्णेन्दुर् न पूर्णः क्षीरसागरः ।
न लक्ष्मीवदनं कान्तं स्पृहाहीनं यथा मनः ॥

5.21.21

यथाभ्रलेखा शशिनं सुधालेपं मषी यथा ।
दूषयत्य् एवम् एषान्तर् नरम् आशापिशाचिका ॥

5.21.22

आशाख्याश् चित्तवृक्षस्य शाखास् स्थगितदिक्तटाः ।
तासु च्छिन्नास्व् अरूपत्वं याति चित्तमहाद्रुमः ॥

5.21.23

छिन्नतृष्णामहाशाखे चित्तस्थाणौ स्थितिं गते ।
एकरूपतया धैर्यं प्रयाति शतशाखताम् ॥

5.21.24

अनुत्तमेन धैर्येण तेन चित्ते क्षयं गते ।
तत् पदं प्राप्यते राम यत्र नाशो न विद्यते ॥

5.21.25

एतासां चित्तवृत्तीनाम् आशानाम् उत्तमाशये ।
न ददासि प्ररोहं चेत् तद् भवान् अस्ति राघव ॥

5.21.26

चित्तं वृत्तिविहीनं ते यदा यातम् अचित्तताम् ।
तदा मोक्षमयीम् अन्तस् सत्ताम् आप्नोषि तां तताम् ॥

5.21.27

चित्तकौशिकपक्षत्या तृष्णया क्षुब्धयान्तरे ।
अमङ्गलानि विस्तारम् अलम् आयान्ति राघव ॥

5.21.28

वर्तनं वृत्तिर् इत्य् उक्तं वर्तते चित्तम् आशया ।
चित्तवृत्तिम् अतो ह्य् आशां त्यक्त्वा निश्चित्ततां व्रज ॥

5.21.29

यो यया वर्तते वृत्त्या स तयैव विना क्षयी ।
अतश् चित्तोपशान्त्यर्थं तद्वृत्तिं प्रक्षयं नयेत् ॥

5.21.30

प्रशमितसकलैषणो महात्मन् भव भवबन्धम् अपास्य मुक्तचित्तः ।
मनसि निगडरज्जवः कदाशाः परिगलितासु च तासु को न मुक्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc