मोक्षोपाय · अध्याय 5.23
अस्ति पुत्रातिविततो देशो विपुलकोटरः ।
त्रैलोक्यानां सहस्राणि यत्र मान्ति बहून्य् अपि ॥
यत्र नाम्भोधरा नापि सागरा वा न चाद्रयः ।
न वनानि न तीर्थानि न नद्यो न सरांसि च ॥
न मही नापि चाकाशो न द्यौर् नो पवनादयः ।
न चन्द्रार्कौ न लोकेशा न देवा न च दानवाः ॥
न भूतयक्षरक्षांसि न गुल्मा न वनश्रियः ।
न काष्ठतृणभूतानि स्थावराणि चराणि वा ॥
नापो न ज्वलनं नाशा नोर्ध्वं नाधो न विष्टपम् ।
नालोको न तमो नाहं न हरीन्द्रहरादयः ॥
एक एवास्ति सुमहांस् तत्र राजा महाद्युतिः ।
सर्वकृत् सर्वगस् सर्वस् स च तूष्णीं व्यवस्थितः ॥
तेन सङ्कल्पितो मन्त्री सर्वसम्मन्त्रणोन्मुखः ।
अघटं घटयत्य् आशु घटं विघटयत्य् अलम् ॥
भोक्तुं किञ्चिन् न शक्नोति न च जानाति किञ्चन ।
राजार्थं केवलं सर्वं करोत्य् अज्ञो ऽपि सन् सदा ॥
स एव सर्वकार्यैककर्ता तस्य महीपतेः ।
राजा केवलम् एकान्ते स्वस्थ एवावतिष्ठते ॥
आधिव्याधिविनिर्मुक्तः कस् स देशो महाद्युतिः ।
कथम् आसाद्यते वापि केन वाधिगतः प्रभो ॥
कस् स तादृग्विधो मन्त्री राजा वापि महाबलः ।
हेलालूनजगज्जालैर् यो ऽस्माभिर् अपि नो जितः ॥
अपूर्वम् एतद् आख्यानं ममामरभयप्रद ।
कथयापनयास्मान् मे हृद्व्योम्नस् संशयाम्बुदम् ॥
स तत्र मन्त्री भगवान् देवासुरगणैस् सुत ।
समेतैर् लक्षगुणितैर् अपि नाक्रम्यते मनाक् ॥
नासौ सहस्रनयनो न यमो न धनेश्वरः ।
नामरो नासुरो वापि यदि पुत्रक जीयते ॥
तत्रासिमुसुलप्रासवज्रचक्रगदादयः ।
हेतयः कुण्ठतां यान्ति दृषदीवोत्पलाहतिः ॥
गम्यो ऽसौ नास्त्रशस्त्राणां न भटोत्कटकर्मणाम् ।
तेन देवासुरास् सर्वे सर्वदैव वशीकृताः ॥
अविष्णुनापि तेनैव हिरण्याक्षादयो ऽसुराः ।
पातिताः कल्पवातेन मेरुकल्पद्रुमा इव ॥
नारायणादयो देवा अपि सर्वावबोधिनः ।
तेनाक्रम्य यथाकामम् अवटेषु निवेशिताः ॥
तत्प्रसादेन साटोपं पञ्चमात्रशरस् स्मरः ।
त्रैलोक्यम् इदम् आक्रम्य सम्राड् इव विवल्गति ॥
सुरासुरौघगर्ह्यो ऽपि गुणहीनो ऽपि दुर्मतिः ।
दुराकृतिर् अपि क्रोधस् तत्प्रसादेन जृम्भते ॥
देवासुरसमूहानां सङ्गरो यत् पुनः पुनः ।
तद् एतत् क्रीडनं तस्य मन्त्रिणो मन्त्रशालिनः ॥
स मन्त्री केवलं पुत्र तेनैव प्रभुणा यदि ।
जीयते तत् सुजेयो ऽसाव् अन्यथा त्व् अचलाचलः ॥
तस्यैव तत्प्रभोः काले जेतुं तं मन्त्रिणं निजम् ।
इच्छा सञ्जायते तेन जीयते ऽसाव् अयत्नतः ॥
त्रैलोक्यवलनामल्लम् उल्लासितजगत्त्रयम् ।
जेतुं चेद् अस्ति ते शक्तिस् तत् पराक्रमवान् असि ॥
तस्मिन्न् अभ्युदिते सूर्ये त्रैलोक्यकमलाकराः ।
इमे विकासम् आयान्ति विलीयन्ते लयं गते ॥
तम् एकम् एकया बुद्ध्या व्यामोहपरिहीनया ।
यदि जेतुं समर्थो ऽसि धीरस् तद् असि सुव्रत ॥
तस्मिञ् जिते जिता लोका भवन्त्य् अविजिता अपि ।
अजिते त्व् अजिता एते चिरकालजिता अपि ॥
तस्माद् अनन्तसिद्ध्यर्थं शाश्वताय सुखाय च ।
तज्जये यत्नम् आतिष्ठ कष्टयापि हि चेष्टया ॥
ससुरम् असुरनागयक्षयुक्तं सनरमहोरगकिन्नरं समेतम् ।
त्रिजगद् अपि वशीकृतं समन्ताद् अतिबलिना ननु हेलयैव तेन ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0