भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.20

5.20.1

कः पिता किं च वा मित्रं का माता के च बन्धवः ।
स्वबुद्ध्यैवावधूयन्ते वात्यया जनपांसवः ॥

5.20.2

बन्धुमित्रसुतस्नेहद्वेषमोहदशामयः ।
स्वसञ्ज्ञामात्रकेणैव प्रपञ्चो ऽयं वितन्यते ॥

5.20.3

बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः ।
विषामृतदशेवैषा स्थितिर् भावनिबन्धनी ॥

5.20.4

एकत्वे वर्तमानस्य सर्वगस्य किलात्मनः ।
अयं बन्धुः परश् चायम् इत्य् असत्कलना कुतः ॥

5.20.5

रक्तमांसास्थिसङ्घाताद् देहाद् एवास्थिपञ्जरात् ।
को ऽहं स्याम् इति चित्तेन स्वयं पुत्र विचारय ॥

5.20.6

दृष्ट्या तु पारमार्थिक्या न कश्चित् त्वं न चाप्य् अहम् ।
मिथ्याज्ञानम् इदं पुण्यः पावनश् चेति वल्गति ॥

5.20.7

कस् ते पिता कश् च सुहृत् का माता कश् च वा परः ।
खस्यानन्तविलासस्य किम् अस्वं किं स्वम् उच्यताम् ॥

5.20.8

असि चेत् त्वं तद् अन्येषु यातेषु बहुजन्मसु ।
ये बन्धवो ये विभवाः किं तान् अपि न शोचसि ॥

5.20.9

बभूवुस् ते सुपुष्पासु स्थलीषु मृगयोनिषु ।
बहवो बन्धवो धन्यास् तान् कथं नानुशोचसि ॥

5.20.10

बभूवुस् ते सपद्मासु तटीष्व् अम्बुधियोषिताम् ।
हंसस्य बन्धवो हंसास् तान् कथं नानुशोचसि ॥

5.20.11

बभूवुस् ते लसत्पत्त्राश् चित्रासु वनराजिषु ।
बहवो बन्धवो वृक्षास् तान् कथं नानुशोचसि ॥

5.20.12

बभूवुस् ते महाभ्रेषु शिखरेषु महीभृताम् ।
बहवो बन्धवस् सिंहास् तान् कथं नानुशोचसि ॥

5.20.13

बभूवुस् ते स्रवन्तीषु सरस्स्व् अम्भोजिनीषु च ।
बहवो बन्धवो मत्स्याः किं तान् अपि न शोचसि ॥

5.20.14

बभूविथ दशार्णेषु कपिलो वनवानरः ।
राजपुत्रस् तुखारेषु पुण्ड्रेषु वनवायसः ॥

5.20.15

हेहयेषु च मातङ्गस् त्रिगर्तेषु च गर्दभः ।
साल्वेषु सरमापुत्रः पतत्री शवरद्रुमे ॥

5.20.16

विन्ध्याद्रौ पिप्पलो भूत्वा घुणो भूत्वा महावटे ।
मन्दरे मर्कटो भूत्वा विप्राज् जातो ऽसि कन्दरे ॥

5.20.17

कोसलेषु द्विजो भूत्वा भूत्वा वङ्गेषु तित्तिरिः ।
अश्वो भूत्वा तुखारेषु जातस् त्वं ब्राह्मणाद् वने ॥

5.20.18

यः कीटस् तालकन्दान्तर् दंशको य उदुम्बरे ।
यः प्राजिको विन्ध्यवने स त्वं पुत्र ममानुजः ॥

5.20.19

हिमवत्कन्दराभूर्जतरुत्वग्रन्ध्रकोटरे ।
पिपीलको यष् षण् मासान् सो ऽयं त्वम् अनुजो मम ॥

5.20.20

सुह्मसीमान्तकुग्रामगोमये यश् च वृश्चिकः ।
सार्धं संवत्सरं साधो सो ऽयं त्वम् अनुजो मम ॥

5.20.21

पुलिन्दीस्तनपीठेषु निलीनं येन कानने ।
षट्पदेनेव पद्मेषु सो ऽयं त्वम् अनुजो मम ॥

5.20.22

एतास्व् अन्यासु चान्यासु बह्वीषु जनयोनिषु ।
जातो ऽसि जम्बुद्वीपे ऽस्मिन् पुरा शतसहस्रशः ॥

5.20.23

इत्थं तवात्मनश् चैव प्राक्तनं वासनाक्रमम् ।
पश्यामि सूक्ष्मया बुद्ध्या सम्यग्दर्शनशुद्धया ॥

5.20.24

ममापि बह्व्यो बहुधा योनयो मोहमन्थराः ।
समतीतास् स्मराम्य् अद्य ता ज्ञानोदितया दृशा ॥

5.20.25

त्रिगर्तेषु शुको भूत्वा हंसो भूत्वा सरित्तटे ।
पक्कणे वायसो भूत्वा जातो ऽहम् इह कानने ॥

5.20.26

भुक्त्वा पुलिन्दतां विन्ध्ये कृत्वा वङ्गेषु वृक्षताम् ।
उष्ट्रत्वम् अतिवाह्याद्रौ जातो ऽहम् इह कानने ॥

5.20.27

यश् चातको हिमगिरौ यो राजा पुण्ड्रमण्डले ।
व्याघ्रो यस् सह्यकुञ्जेषु स एवेह तवाग्रजः ॥

5.20.28

यो गृध्रो दशवर्षाणि यो मृगो मासपञ्चकम् ।
यस् समानां शतं सिंहस् स एवेह तवाग्रजः ॥

5.20.29

अन्ध्रग्रामचकोरेण तुखारनृपवाजिना ।
श्रीशैलाचार्यपुत्रेण मयेदं तव कथ्यते ॥

5.20.30

सर्वे विविधसंरम्भा विविधाचारचेष्टिताः ।
विलासा जन्मनां भ्रातस् स्मर्यन्ते प्राक्तना मया ॥

5.20.31

एवं स्थिते जगज्जाताव् आवयोश् शतशो गताः ।
पितरो मातरश् चैव भ्रातरस् सुहृदस् तथा ॥

5.20.32

कांस् तान् समनुशोचावो न शोचावश् च कान् अपि ।
बन्धून् किं वापि शोचाव ईदृश्य् एव जगत्स्थितिः ॥

5.20.33

अनन्ताः पितरो यान्ति यान्त्य् अनन्ताश् च मातरः ।
इह संसारिणां पुंसां वनपादपपर्णवत् ॥

5.20.34

किं प्रमाणम् अतः पुत्र दुःखस्यात्र सुखस्य वा ।
तस्मात् सर्वं परित्यज्य तिष्ठावस् स्वस्थतां गतौ ॥

5.20.35

प्रपञ्चभावनां त्यक्त्वा मनस्य् अहम् इति स्थिताम् ।
तां गतिं गच्छ भद्रं ते यां यान्ति गतिकोविदाः ॥

5.20.36

इहाजवञ्जवीभावं पतनोत्पतनात्मकम् ।
नानुशोचन्ति सुधियश् चिकित्सन्ते च केवलम् ॥

5.20.37

भावाभावविनिर्मुक्तं जरामरणवर्जितम् ।
संस्मरात्मानम् अव्यग्रो मा विमूढमना भव ॥

5.20.38

न ते दुःखं न ते जन्म न ते माता न ते पिता ।
आत्मैवासि न सद्बुद्धे त्वम् अन्यः कश्चिद् एव हि ॥

5.20.39

अस्यां संसारयात्रायां नानाभिनयदायिनः ।
अज्ञा एव नटास् साधो रसभावसमन्विताः ॥

5.20.40

मध्यस्थदृष्टयस् स्वस्था यथाप्राप्तार्थदर्शिनः ।
तज्ज्ञास् तु प्रेक्षका एव साक्षिधर्मे व्यवस्थिताः ॥

5.20.41

कर्तारो ऽपि न कर्तारो यथा दीपा निशागमे ।
आलोककर्मणाम् एवं तज्ज्ञा लोकस्थिताव् इह ॥

5.20.42

प्रतिबिम्बैर् न दूष्यन्ते स्वात्मबिम्बगतैर् अपि ।
यथा दर्पणरत्नाद्यास् तथा कार्यैर् महाधियः ॥

5.20.43

सर्वैषणामयकलङ्कविवर्जितेन स्वच्छात्मभावकलितेन हृदब्जमध्ये ।
पुत्रात्मनात्मनि महामणिनामुनैव सन्त्यज्य सम्भ्रमम् अलं परितोषम् एहि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc