भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.19

5.19.1

अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
भ्रात्रोस् त्रिपथगातीरे संवादो मुनिपुत्रयोः ॥

5.19.2

अयं बन्धुर् अयं नेति कथाप्रस्तावतस् स्मृतम् ।
इतिहासम् इमं पुण्यं साश्चर्यं शृणु राघव ॥

5.19.3

अस्त्य् अस्य जम्बुद्वीपस्य कस्मिंश्चिद् दिङ्निकुञ्जके ।
वनव्यूहमहोत्तंसो महेन्द्रो नाम पर्वतः ॥

5.19.4

कल्पद्रुमवनच्छायाविश्रान्तसुरकिन्नरः ।
शृङ्गैर् आततम् आकाशं जितवान् यस् समुन्नतैः ॥

5.19.5

ब्रह्मलोकान्तरप्राप्तैश् शृङ्गकन्दरचारिभिः ।
सामवेदं प्रतिध्वानघुङ्घुमैर् गायतीव यः ॥

5.19.6

यः पयोमेदुरैर् मेघैर् लुलितैश् शृङ्गकोटिषु ।
लताकुसुमसम्प्रोतैः कुन्तलैर् इव राजते ॥

5.19.7

यस् तटोड्डयनोत्कानां शरभाणां विजृम्भितैः ।
विस्फूर्जति गुहावक्त्रैः कल्पाभ्राणि हसन्न् इव ॥

5.19.8

येन निर्झरनिर्ह्रादैः कन्दरान्तरचारिभिः ।
समुद्रजलकल्लोलविलासो विजितो ऽभितः ॥

5.19.9

तस्यैकदेशे वितते रत्नसानौ मनोरमे ।
मुनिभिस् स्नानपानार्थं व्योमगङ्गावतारिता ॥

5.19.10

तस्यास् त्रिपथगायास् तु तीरे विकसितद्रुमे ।
रत्नाद्रितटविद्योतकचत्कनकपङ्कजे ॥

5.19.11

आसीद् अभ्युदितज्ञानस् तपोराशिर् उदारधीः ।
मुनिर् दीर्घतपा नाम तपोमूर्तिम् इवास्थितः ॥

5.19.12

मुनेर् बभूवतुस् तस्य द्वौ पुत्राव् इन्दुसुन्दरौ ।
पुण्यपावननामानौ द्वौ कचाव् इव वाक्पतेः ॥

5.19.13

स ताभ्यां सह पुत्राभ्यां भार्यया सह चैकया ।
उवास सरितस् तीरे तस्मिन् सफलपादपे ॥

5.19.14

अथ काले तयोस् तस्य पुत्रयोर् ज्ञानवान् अभूत् ।
पुण्यनामा वयोज्येष्ठो गुणज्येष्ठश् च राघव ॥

5.19.15

पावनो ऽर्धप्रबुद्धो ऽभूत् पूर्वसन्ध्याम्बुजं यथा ।
मौर्ख्याद् अतिगतो नान्तः पदं लोलम् इवास्थितः ॥

5.19.16

ततो वहत्य् अकलिते काले कलितकारणे ।
संवत्सरगणे क्षीणे दीने देहे गतायुषि ॥

5.19.17

अस्माद् भङ्गुरभूताढ्याद् वृत्तान्तभरभीषणात् ।
रतिम् उत्सृज्य संसाराज् जराजर्जरजीवितः ॥

5.19.18

कलनापक्षिणीनीडं देहं दीर्घतपा मुनिः ।
जहौ गिरिगुहागेहे भारं वैवधिको यथा ॥

5.19.19

प्रशान्तकलनारम्भं चेत्यरिक्तचिदास्पदम् ।
पदं जगाम नीरागं पुष्पगन्ध इवाम्बरम् ॥

5.19.20

अथ भार्या मुनेर् देहं प्राणापानविवर्जितम् ।
दृष्ट्वाविलुठितं भूमौ विनालम् इव पङ्कजम् ॥

5.19.21

चिरम् अभ्यस्तया योगयुक्त्या पतिवितीर्णया ।
तत्याज तनुम् अम्लानां षट्पदी पद्मिनीम् इव ॥

5.19.22

भर्तारम् एवानुययौ जनस्यादृश्यतां गतम् ।
प्रभागगनकोशस्थम् अस्तं यातम् इवोडुपम् ॥

5.19.23

मातापित्रोस् तु गतयोर् और्ध्वदैहिककर्मणि ।
पुण्य एव स्थिते ऽव्यग्रे पावनो दुःखम् आययौ ॥

5.19.24

शोकोपहतचित्तो ऽसौ भ्रमन् काननवीथिषु ।
ज्यायांसम् अनवेक्ष्यैव पावनो विललाप ह ॥

5.19.25

अथौर्ध्वदैहिकं कृत्वा मातापित्रोर् उदारधीः ।
आययौ विपिने पुण्यः पावनं शोकलालसम् ॥

5.19.26

किं पुत्र घनतां शोकं नयस्य् आन्ध्यैककारणम् ।
बाष्पधाराकरं घोरं प्रावृट्काल इवाम्बुदम् ॥

5.19.27

पिता तव महाप्राज्ञ गतस् सार्धं त्वदम्बया ।
स्वाम् एव परमां आत्मपदवीं मोक्षनामिकाम् ॥

5.19.28

तत् स्थानं सर्वजन्तूनां तद् रूपं विदितात्मनाम् ।
स्वं भावम् अभिसम्पन्ने किं पितर्य् अभिशोचसि ॥

5.19.29

किम् ईदृशी त्वया बद्धा भावनेह विमोहजा ।
संसारे यद् अशोच्यो ऽपि त्वया तातो ऽनुशोच्यते ॥

5.19.30

न सैव भवतो माता नासाव् एव पिता तव ।
न भवान् एव तनयस् तयोर् निस्सङ्ख्यपुत्रयोः ॥

5.19.31

मातापितृसहस्राणि समतीतानि ते सुत ।
बहून्य् अम्बुप्रवाहस्य निम्नानीव वने वने ॥

5.19.32

असङ्ख्यपुत्रयोर् नैव भवान् एव सुतस् तयोः ।
सरित्तरङ्गवत् पुत्र गताः पुत्रगणा नृणाम् ॥

5.19.33

अस्मत्पित्रोर् अतीतानि पुत्रलक्षाण्य् अनेकशः ।
पत्त्रकोरकवृन्दानि लतापादपयोर् इव ॥

5.19.34

मित्रबान्धववृन्दानि जन्तोर् जन्मनि जन्मनि ।
ऋताव् ऋताव् अतीतानि फलानीव महातरोः ॥

5.19.35

शोचनीया यदि स्नेहान् मातापितृसुतास् सुत ।
तद् अतीता न शोच्यन्ते किम् अजस्रं सहस्रशः ॥

5.19.36

प्रपञ्चो ऽयं महाभाग दृश्यते जागतो भ्रमः ।
परमार्थेन तु प्राज्ञ नास्ति मित्रं न बान्धवः ॥

5.19.37

मनाग् अपीह हि भ्रातः परमार्थे न विद्यते ।
महत्य् अपि चिरात् तप्ते मराव् इव पयोलवः ॥

5.19.38

एता याः प्रेक्षसे लक्ष्मीश् छत्त्रचामरचञ्चलाः ।
स्वप्न एव महाबुद्धे दिनानि त्रीणि पञ्च वा ॥

5.19.39

दृष्ट्या तु पारमार्थिक्या पुत्र सत्यं विचारय ।
नेह त्वं नैव चेदं ते भ्रान्तिम् अन्तः परित्यज ॥

5.19.40

अयं मृतो गतश् चाहम् इतीमा दृष्टयः पुनः ।
स्वसङ्कल्पोपतापोत्था दृश्यन्ते न तु सत्यतः ॥

5.19.41

अज्ञानविस्तीर्णमरौ विलोलैश् शुभाशुभस्पन्दमयैस् तरङ्गैः ।
स्ववासनातापमरीचिवारि परिस्फुरत्य् एतद् अनन्तरूपम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc