भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.2

5.2.1

ते समेत्य गृहं वीरा राजपुत्राश् शशित्विषः ।
चक्रुस् सर्वम् अशेषेण स्वसद्मसु दिनक्रमम् ॥

5.2.2

वसिष्ठो राघवश् चैव राजानो मुनयो द्विजाः ।
इति चक्रुस् स्वकार्याणि तदा स्वगृहवीथिषु ॥

5.2.3

सस्नुः कमलकल्हारकुमुदोत्पलहारिषु ।
जलाशयेषु चक्राह्वहंससारसराविषु ॥

5.2.4

गोभूतिलहिरण्यानि शयनान्य् आसनानि च ।
ददुर् दानानि विप्रेभ्यो भोजनान्य् अंशुकानि च ॥

5.2.5

हेमरत्नविचित्रेषु स्वेषु चामरसद्मसु ।
आनर्चुर् अच्युतेशानहुताशार्कादिकान् सुरान् ॥

5.2.6

पुत्रपौत्रसुहृद्भृत्यबन्धुमित्रगणैस् सह ।
तत आस्वादयाम् आसुर् भोजनान्य् उचितानि ते ॥

5.2.7

एतस्मिन् समये चास्मिन् नगरे दिवसो ऽभवत् ।
तनुर् अष्टांशशेषत्वान् मृद्वातपमनोहरः ॥

5.2.8

सायन्तनविधिं ते ते तत्कालोचितयेच्छया ।
अनयन् बन्धुभिस् सार्धं यावद् अस्तं ययौ रविः ॥

5.2.9

सन्ध्यां ववन्दिरे सुष्ठु जेपुश् चैवाघमर्षणम् ।
पेठुस् स्तोत्राणि पुण्यानि जगुर् गाथा मनोरमाः ॥

5.2.10

ततश् चाभ्युदिते श्यामाकामिनीशोकहारिणि ।
क्षीरोदाद् इव माहेन्द्र्यां चन्द्रे ऽवश्यायदायिनि ॥

5.2.11

शनैर् आस्तीर्णपुष्पेषु कीर्णकर्पूरमुष्टिषु ।
दीर्घेन्दुबिम्बरम्येषु तस्थुस् तल्पेषु राघवाः ॥

5.2.12

अथ रामाद् ऋते ऽन्येषां तत्र तद्व्यवहारिणी ।
व्यतीयाय शनैश् श्यामा मुहूर्त इव सुन्दरी ॥

5.2.13

तस्थौ रामस् तु ताम् एव वासिष्ठीं वचनावलीम् ।
चिन्तयन् मधुरोदारां प्राक्पीतां करभो यथा ॥

5.2.14

किम् इदं नाम संसारभ्रमणं किम् इमे जनाः ।
भूतानीह विचित्राणि किम् आयान्ति प्रयान्ति किम् ॥

5.2.15

मनसः कीदृशं रूपं कथं चैतत् प्रसृज्यते ।
मायेयं सा किमुत्था स्यात् कथं चेयं निवर्तते ॥

5.2.16

निवृत्तया च वा कस् स्याद् गुणो दोषो ऽथ वा भवेत् ।
कथम् आत्मनि चैवायं तते सङ्कोच आगतः ॥

5.2.17

किम् उक्तं स्याद् भगवता मुनिना मनसः क्षये ।
किम् इन्द्रियजये प्रोक्तं किम् उक्तम् अथ चात्मनि ॥

5.2.18

जीवश् चित्तं मनो मायेत्येवमादिभिर् आततैः ।
रूपैर् आत्मैव संसारं तनोतीमम् असन्मयैः ॥

5.2.19

एभिर् एव मनोमात्रतन्तुबद्धैः क्षयं गतैः ।
दुःखोपशान्तिर् एतानि सुचिकित्स्यानि नः कथम् ॥

5.2.20

भोगाभ्रमालावलनाद् धीबलाकाम् इमां कथम् ।
पृथक् करोमि पयसो धारां हंस इवाम्भसः ॥

5.2.21

भोगास् त्यक्तुं न शक्यन्ते तत्त्यागेन विना धियः ।
प्रभवामो न विपदाम् अहो सङ्कटम् आगतम् ॥

5.2.22

मनोमात्रजयप्राप्यं तन्व् एवेदं प्रयोजनम् ।
सम्पन्नं मे गिरिगुरु मौर्ख्याद् यक्षश् शिशोर् इव ॥

5.2.23

कदा स्वशान्तिम् आगत्य गतसंसारसम्भ्रमा ।
बालेव लब्धदयिता सुखम् आप्स्यति नो मतिः ॥

5.2.24

कदोपशान्तसंरम्भं विगताशेषकौतुकम् ।
अपारपदविश्रान्तं मम स्यात् पावनं मनः ॥

5.2.25

कलाकलापसम्पूर्णाच् छशाङ्काद् अपि शीतले ।
पदे सुरूद्ःअं विश्रम्य हसिष्यामि कदा जगत् ॥

5.2.26

कलनापेलवं रूपम् उत्सृज्यालीनम् आत्मनि ।
कदैष्यति मनश् शान्तिं पयसीव तरङ्गकः ॥

5.2.27

तृष्णातरङ्गाकुलितं मायामकरमालितम् ।
कदा संसारजलधिं तीर्त्वा स्याम् अहम् अज्वरः ॥

5.2.28

कदोपशान्तशुद्धासु पदवीषु विचक्षणाः ।
मुमुक्षूणां निवत्स्यामो निश्शोकं समदर्शनाः ॥

5.2.29

सन्तापितसमस्ताङ्गस् सर्वधातुभयङ्करः ।
संसृतिज्वर आदीर्घः कदा नश् चित्त शाम्यति ॥

5.2.30

निवातदीपलेखेव कदोषित्वा गतभ्रमम् ।
शमम् एष्यसि हे बुद्धे स्वप्रकाशाद् अनन्तरम् ॥

5.2.31

कदेन्द्रियाणि दुःखेभ्यस् सन्तरिष्यथ हेलया ।
दुरीहादग्धदेहानि गरुत्मन्त इवाब्धितः ॥

5.2.32

अयं सो ऽहम् इदं तन् मे इति व्यक्तोत्थितो भ्रमः ।
शरदीवासितो मेघः कदा न उपशाम्यति ॥

5.2.33

मन्दारवनलेखासु या रतिस् सा तृणायते ।
यत्र तत् पदम् आत्मीयं सम्प्राप्स्यामः कदा वयम् ॥

5.2.34

वीतरागजनप्रोक्ता निर्मला ज्ञानदृष्टयः ।
कच्चित् पदं त्वयि मनः करिष्यन्तीति मे वद ॥

5.2.35

हा तात मातः पुत्रेति गिरां मा स्याम् अहं पुनः ।
भाजनं चित्त मद्बन्धो भोजनं दुःखभोगिनाम् ॥

5.2.36

हे बुद्धे भगिनि भ्रातुर् अर्थितां पूरयाशु मे ।
आवयोर् दुःखमोक्षाय विचारय मुनेर् गिरः ॥

5.2.37

आपद् आपतति प्रीत्या भवे सति सुतेव ते ।
तेन भव्ये भवच्छेदभूतये सुस्थिरा भव ॥

5.2.38

वसिष्ठमुनिना प्रोक्ता विरक्ताः प्रथमं गिरः ।
ततो मुमुक्षोर् आचार उत्पत्तीनां क्रमस् ततः ॥

5.2.39

ततस् स्थितिप्रकरणं नानादृष्टान्तसुन्दरम् ।
विज्ञानगर्भं सकलं यथावत् स्मर हे मते ॥

5.2.40

कृतम् अपि शतशो विचारितं यद् यदि तद् उपैति न मानवस्य बुद्धिः ।
भवति तद् अफलं शरद्घनाभं सततम् अतो मतिर् एव कार्यसारः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc