भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.3

5.3.1

तस्यैवम्प्रायया तत्र ततयोदारचिन्तया ।
सा व्यतीयाय रजनी पद्मस्येवार्ककाङ्क्षिणः ॥

5.3.2

किञ्चित् तमःकडारासु किञ्चिद् अप्य् अरुणासु च ।
ततो विरलतारासु दिक्षु रामसितास्व् इव ॥

5.3.3

प्रभाततूर्यघोषेण समम् इन्दुसमाननः ।
उत्तस्थौ राघवश् श्रीमान् पद्मः पद्माकराद् इव ॥

5.3.4

प्रातस्तनं विधिं सर्वं सम्पाद्य भ्रातृसंयुतः ।
प्रमितात्मपरीवारो वसिष्ठसदनं ययौ ॥

5.3.5

समाधिसंस्थम् एकान्ते मुनिम् आत्मपरायणम् ।
दूराद् एव ननामासौ रामो विनतकन्धरः ॥

5.3.6

तं प्रणम्याङ्गने तस्थुस् तस्मिंस् ते विनयान्विताः ।
यावत् तमस् समालूनं ध्वस्तं दिङ्मुखमण्डलात् ॥

5.3.7

राजानो राजपुत्राश् च ऋषयो ब्राह्मणास् तथा ।
आययुस् सदनं मौनं ब्रह्मलोकम् इवामराः ॥

5.3.8

तद् वसिष्ठस्य सदनं बभूव जनसङ्कुलम् ।
हस्त्यश्वरथसम्बाधं पार्थिवागारशोभनम् ॥

5.3.9

क्षणाद् वसिष्ठो भगवान् विरराम समाधितः ।
आचारेणोपपन्नेन जग्राह प्रणतं जनम् ॥

5.3.10

अथानुयातो मुनिभिर् विश्वामित्रान्वितो मुनिः ।
आरुरोह रथं श्रीमान् सहसाब्जम् इवाब्जजः ॥

5.3.11

ययौ गृहं दाशरथं सैन्येन महता वृतः ।
ब्रह्मेव शक्रनगरं समस्तसुरमालितः ॥

5.3.12

विवेश विततां तत्र रम्यां दाशरथीं सभाम् ।
हंसयूथानुवलितो राजहंस इवाब्जिनीम् ॥

5.3.13

त्रीणि तस्य पदान्य् आशु तदा दशरथो नृपः ।
निर्जगाम महावीर्यस् सिंहासनसमुत्थितः ॥

5.3.14

विविशुस् तत्र ते सर्वे नृपा दशरथादयः ।
वसिष्ठाद्याश् च मुनय ऋषयो ब्राह्मणास् तथा ॥

5.3.15

मन्त्रिणश् च सुमन्त्राद्या धौम्याद्याश् च विपश्चितः ।
राजपुत्राश् च रामाद्या मन्त्रिपुत्रास् सुहादयः ॥

5.3.16

सामन्ताद्याः प्रकृतयस् सुहोत्राद्याश् च नागराः ।
मालवाद्यास् तथा भृत्याः पौराद्याश् चैव लालकाः ॥

5.3.17

स्वोचितेषु प्रदेशेषु स्वोचितेष्व् आसनेषु च ।
सर्वेष्व् एवोपविष्टेषु वसिष्ठोन्मुखदृष्टिषु ॥

5.3.18

सभाकलकले शान्ते मौनसंस्थेषु वन्दिषु ।
पृष्टासु स्थितिवार्त्तासु सोम्ये तस्मिन् सभान्तरे ॥

5.3.19

सिन्दूरधूलिपुञ्जाभे बाले दिनकरातपे ।
वितानतलविश्रान्ते कचत्य् आदर्शमण्डले ॥

5.3.20

स्फुरत्य् अञ्चलमालासु विशत्य् अम्भोजकोटरं ।
पद्मरागेष्व् अपिहिते मुक्तादामसु चञ्चले ॥

5.3.21

बृहत्कुसुमदोलाभ्यः प्रसृताभ्यस् समन्ततः ।
वाति मांसलम् आमोदम् आदाय मधुरानिले ॥

5.3.22

वातायनेषु मृदुषु कुसुमाकीर्णभूमिषु ।
पर्यङ्केषूपविष्टासु पश्यन्तीषु पुरन्ध्रिषु ॥

5.3.23

जालागतार्ककरलोलविलोचनासु रत्नप्रभाप्रकरपिङ्गलचामरासु ।
सन्त्यक्तचापललवं चपलाबलासु मौनस्थितासु सितचामरधारिणीषु ॥

5.3.24

मुक्ताफलप्रतिफलत्प्रतिमार्करश्मिशारोदरास्व् अजिरभूमिषु चण्पकौघम् ।
नास्वादयत्य् अभिनवातपबिन्दुबुद्ध्या भ्रान्त्या भ्रमिण्य् अलिबले नभसीव मेघे ॥

5.3.25

पुण्यो वसिष्ठवचनप्रसरश् श्रुतो यस् तं शंसति प्रसृतविस्मयम् आर्यलोके ।
संसद्गते मृदुपदाक्षरमुग्धवाक्यम् अन्योऽन्यम् उत्स्मितम् अनल्पगुणाभिरामम् ॥

5.3.26

दिग्भ्यः पुराच् च गगनाच् च नृपर्षिसिद्धविद्याधरार्यमुनिविप्रगणे विशिष्टे ।
मौनप्रणामम् अभितः प्रविशत्य् अशब्दं सोपांशु गौरववता सह जातवाक्ये ॥

5.3.27

उन्निद्रकोकनदकोमलकोशकृष्टमत्तालिजालमकरन्दसुवर्णरागैः ।
आपिङ्गले मरुति वाति विलोलघण्टाटाङ्कारगीतवति पीतनिशाम्बुशीते ॥

5.3.28

अगुरुतगरधूमे चन्दनामोदमिश्रे सरसकुसुमदामोद्दामगन्धाङ्किताभ्रे ।
सरति सितवितानाम्भोरुहावर्तलेशैश् चलकुसुमरजोऽङ्कैश् शब्दविज्ञातभृङ्गम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc