मोक्षोपाय · अध्याय 5.1
अथ स्थितिप्रकरणाद् अनन्तरम् इदं शृणु ।
उपशान्तिप्रकरणं ज्ञातं निर्वाणकारि यत् ॥
शरत्तारकिताकाशस्तिमितायां सुसंसदि ।
कथयत्य् एवम् आह्लादि वसिष्ठे पावनं वचः ॥
श्रवणार्थं च मौनस्थपार्थिवे संसदन्तरे ।
निवात इव निस्स्पन्दकमले कमलाकरे ॥
विलासिनीषु संशान्तमदमोहबलासु च ।
शमम् अन्तः प्रयान्तीषु चिरप्रव्राजितास्व् इव ॥
कराम्भोरुहहंसेषु लीनेषु श्रवणाद् इव ।
मूकघुर्घुरघण्टेषु चामरेषु लिपाव् इव ॥
नासाग्रपरिविश्रान्ततर्जन्यङ्गुलिकोटिषु ।
विचारयत्सु विज्ञानकलां तज्ज्ञेषु राजसु ॥
रामे विकासम् आयाते प्रभात इव पङ्कजे ।
परित्यक्ततमःपीठे सूर्योदय इवाम्बरे ॥
आकर्णयति वासिष्ठीर् गिरो दशरथे रसात् ।
कलापिनीव जीमूतनिर्ह्रादम् उरुवर्षणम् ॥
आहृत्य सर्वभोगेभ्यो मनो मर्कटचञ्चलम् ।
श्रवणं प्रति यत्नेन भरते मन्त्रिणि स्थिते ॥
वसिष्ठोक्त्या परिज्ञाते स्वात्मनीन्दुकलामले ।
लक्ष्मणे विलसल्लक्ष्ये शिक्षाबलविलक्षणे ॥
शत्रुघ्ने शत्रुदलने चेतसा पूर्णतां गते ।
अलम् आनन्दम् आयाते राकाचन्द्रोपमे स्थिते ॥
सुमन्त्रे मित्रतां याते मनसीन्द्वंशुशीतले ।
विकासिहृदये जाते तत्काल इव पङ्कजे ॥
तत्रस्थेषु तथान्येषु तदा मुनिषु राजसु ।
आधौतचित्तरत्नेषु प्रोच्छ्वसत्स्व् इव चेतसा ॥
उदभूत् पूरयन्न् आशाः कल्पाभ्ररवमांसलः ।
अथ मध्याह्नशङ्खानाम् अब्धिघोषसमस् स्वनः ॥
महता तेन शब्देन तिरोधानं मुनेर् गिरः ।
ययुर् जलदनादेन कोकिलध्वनयो यथा ॥
मुनिर् अन्तरयां चक्रे स्वां वाचम् अथ संसदि ।
जितसारो गुणः केन महता समुदीर्यते ॥
मुहूर्तमात्रम् अथ तं श्रुत्वा मध्याह्ननिस्स्वनम् ।
घने कोलाहले शान्ते रामं मुनिर् उवाच ह ॥
रामाद्यतनम् एतावद् आह्निकं कथितं मया ।
प्रातर् अन्यत् प्रवक्ष्यामि वक्तव्यम् अरिमर्दन ॥
इदं नियतितः प्राप्तं कर्तव्यं यद् द्विजन्मनाम् ।
मध्याह्नसवनं तन् नः कार्यम् आर्यावसीदति ॥
त्वम् अप्य् उत्तिष्ठ सुभग समस्तां सवनक्रियाम् ।
आचराचारचतुर स्नानदानार्चनादिकाम् ॥
इत्य् उक्त्वा मुनिर् उत्तस्थौ समं दशरथेन सः ।
संसदस् सेन्दुर् आदित्य उदयाद्रितटाद् इव ॥
तयोर् उत्थितयोस् सर्वा सभोत्थातुम् अकम्पत ।
मन्दवातपरामृष्टा नलिनीवालिलोचना ॥
उत्तस्थौ सावतंसोत्थभृङ्गमण्डलमण्डिता ।
करिसेनेव विन्ध्याद्राव् आलोलकरपुष्करा ॥
परस्परांससङ्घट्टचूर्णिताङ्गदमण्डला ।
रत्नचूर्णारुणाम्भोदसन्ध्यासमयसूचिनी ॥
पतदुत्तंसविभ्रान्तभृङ्गोपाहितघुङ्घुमा ।
मुकुटोद्दामविद्योतशक्रचापीकृताम्बरा ॥
कान्तालताहस्तदलचलच्चामरमञ्जरी ।
वनलेखेव विक्षुब्धवरवारणमण्डला ॥
कचत्कटकरत्नाश्रिकृष्टान्योऽन्यातताम्बरा ।
वातव्याधूतपुष्पेव मन्दारवनमालिका ॥
कस्तूरीकणनीहाररचितामलवारिदा ।
शरद्दिक्तटमालेव प्रसृताशेषभूमिपा ॥
लोलमौलिमणिव्रातपाटलाम्बरकोटरा ।
सन्ध्येवाकुललोलाब्जकार्यसंहारकारिणी ॥
रत्नांशुसलिलापूरा मुखपद्मनिरन्तरा ।
पद्मिनीवालिवलिता नूपुरारावसारसा ॥
सन्तता सा सभोत्तस्थौ भूभृच्छतसमाकुला ।
भूतसन्ततिसम्पूर्णा सृष्टिर् नवम् इवोदिता ॥
प्रणम्याथ नृपं भूपा निर्ययुर् नृपमन्दिरात् ।
शक्रचापीकृता रत्नैर् अम्भोधेर् इव वीचयः ॥
सामन्ता मन्त्रिणश् चैव वसिष्ठम् अथ भूमिपम् ।
प्रणम्य जग्मुस् स्नानाय नयविज्ञानकोविदाः ॥
वामदेवादयश् चान्ये विश्वामित्रादयस् तथा ।
वसिष्ठं पुरतः कृत्वा तस्थुर् आमज्जनोन्मुखाः ॥
राजा दशरथस् तत्र पूजयित्वा मुनिव्रजम् ।
तद्विसृष्टो जगामाथ स्वकार्यार्थम् अरिन्दमः ॥
वनं वनास्पदा जग्मुर् व्योम व्योमनिवासिनः ।
नगरं नागराश् चैव प्रातर् आगमनाय ते ॥
महीपतिवसिष्ठाभ्यां प्रणयात् प्रार्थितः प्रभुः ।
वसिष्ठसद्मनि निशां विश्वामित्रो ऽत्यवाहयत् ॥
वसिष्ठस् सह विप्रेन्द्रैः पार्थिवैर् मुनिभिस् तथा ।
उपास्यमानो रामाद्यैस् सर्वैर् दशरथात्मजैः ॥
जगाम स्वाश्रमं श्रीमान् सर्वलोकनमस्कृतः ।
अनुयातस् सुरौघेन ब्रह्मलोकम् इवाब्जजः ॥
तस्मात् प्रदेशाद् रामादीन् मुनिर् दशरथात्मजान् ।
सर्वान् विसर्जयाम् आस पादोपान्ते नतान् असौ ॥
नभश्चरान् अवनिचराञ् जलेचरान् विसर्ज्य स स्तुतगुणगोचरांश् चरान् ।
यथाक्रमं स्वगृह उदारसन्मुनौ चकार ता द्विजजनवासरक्रियाः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0