भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.18

5.18.1

मुक्ताशयानां महताम् अहतानां कुदृष्टिभिः ।
स्वभावो ऽयं महाबाहो लीलया चरताम् इह ॥

5.18.2

विहरन्न् अपि संसारे जीवन्मुक्तमना मुनिः ।
आदिमध्यान्तविरसा विहसञ् जागतीर् गतीः ॥

5.18.3

सर्वप्रकृतकार्यस्थो मध्यस्थस् सर्ववृत्तिषु ।
ध्येयं तं वासनात्यागम् अवलम्ब्य व्यवस्थितः ॥

5.18.4

सर्वत्र विगतोद्वेगस् सर्वार्थपरिपोषकः ।
विवेकोद्यानतुष्टात्मा प्रबोधोपवने स्थितः ॥

5.18.5

सर्वातीतपदालम्बी पूर्णेन्दुशिशिराशयः ।
नोद्वेगी न च तुष्टात्मा संसारे नावसीदति ॥

5.18.6

सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः ।
प्राप्तक्रमकरो ऽग्र्याणां संसारे नावसीदति ॥

5.18.7

नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति ।
मौनस्थः प्रकृतारम्भी संसारे नावसीदति ॥

5.18.8

पृष्टस् सन् प्रकृतं वक्ता न पृष्टस् स्थाणुवत् स्थितः ।
ईहितानीहितैर् मुक्तस् संसारे नावसीदति ॥

5.18.9

सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् ।
आशयज्ञश् च भूतानां संसारे नावसीदति ॥

5.18.10

युक्तायुक्तदशाग्रस्तम् आशोपहतचेष्टितम् ।
जानाति लोकवृत्तान्तं करकोटरबिल्ववत् ॥

5.18.11

परं पदम् उपारूढो भङ्गुरां जागतीं स्थितिम् ।
अन्तश्शीतलया बुद्ध्या हसन्न् इव निरीक्षते ॥

5.18.12

जितचित्ता महात्मानो ये हि दृष्टपरावराः ।
स्वभाव ईदृशस् तेषां कथितस् तव राघव ॥

5.18.13

वक्तुं वयं तु मूर्खाणाम् अजितात्मीयचेतसाम् ।
भोगकर्दममग्नानां न विद्मो ऽभिमतं मतम् ॥

5.18.14

तेषाम् अभिमता नार्यो हावभावविभूषणाः ।
ज्वाला नरकवह्नीनां यास् ताः कनकरोचिषः ॥

5.18.15

अनर्थगहनाश् चार्था व्यर्थार्थनकदर्थनाः ।
दिशन्तो दुःखसंरम्भसहिता आहितापदः ॥

5.18.16

फलबन्धीनि कर्माणि नानाचारमयानि च ।
सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः ॥

5.18.17

पूर्णां दृष्टिम् अवष्टभ्य ध्येयत्यागविलासिनीम् ।
जीवन्मुक्ततया स्वस्थो लोके विहर राघव ॥

5.18.18

अन्तस् सन्त्यक्तसर्वाशो वीतरागो विवासनः ।
बहिस् सर्वसमाचारो लोके विहर राघव ॥

5.18.19

उदारः पेशलाचारस् सर्वाचारानुवृत्तिमान् ।
अन्तस् सर्वपरित्यागी लोके विहर राघव ॥

5.18.20

प्रविचार्य दशास् सर्वा यद् अतुच्छतरं पदम् ।
तद् एव भावेनालम्ब्य लोके विहर राघव ॥

5.18.21

अन्तर् नैराश्यम् आदाय बहिर् आशोन्मुखेहितः ।
बहिस् तप्तो ऽन्तर् आशीतो लोके विहर राघव ॥

5.18.22

बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः ।
कर्ता बहिर् अकर्तान्तर् लोके विहर राघव ॥

5.18.23

ज्ञातवान् असि सर्वेषां भावानां सत्यम् आन्तरम् ।
यथेच्छसि तया दृष्ट्या लोके विहर राघव ॥

5.18.24

कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगदूषणः ।
कृत्रिमारम्भसंरम्भो लोके विहर राघव ॥

5.18.25

त्यक्ताहङ्कृतिर् आश्वस्तमतिर् आकाशशोभनः ।
अगृहीतकलङ्काङ्को लोके विहर राघव ॥

5.18.26

आशापाशशतोन्मुक्तस् समस् सर्वासु वृत्तिषु ।
बहिः प्रकृतकार्यस्थो लोके विहर राघव ॥

5.18.27

न बन्धो ऽस्ति न मोक्षो ऽस्ति देहिनः परमार्थतः ।
मिथ्येयम् इन्द्रजालश्रीस् संसारपरिवर्तना ॥

5.18.28

भ्रान्तिमात्रम् इदं मोहाज् जगद् राघव दृश्यते ।
जनितप्रत्ययं स्फारे जलं तीव्रातपे यथा ॥

5.18.29

अबद्धस्यैकरूपस्य सर्वगस्यात्मनः कथम् ।
बन्धस् स्यात् तदभावे तु मोक्षः कस्य विधीयते ॥

5.18.30

अतत्त्वज्ञानजातेयं सांसारी भ्रान्तिर् आतता ।
तत्त्वज्ञानात् क्षयं याति रज्ज्वाम् इव भुजङ्गधीः ॥

5.18.31

ज्ञातवान् असि तत्त्वं स्वम् अनया सूक्ष्मया धिया ।
जातो ऽसि निरहङ्कारो व्योमवत् तिष्ठ निर्मलः ॥

5.18.32

नासि चेत् त्वं तद् अखिलास् सुहृद्बान्धवभावनाः ।
सन्त्यजासत्स्वभावस्य का नाम किल भावना ॥

5.18.33

असि चेत् त्वं तद् अत्यन्तसत्त्ववान् अनुमीयसे ।
इदम्प्रथमतां प्राप्तः परमाद् असि कारणात् ॥

5.18.34

भोगबन्धुजगद्भावैः कर्मभिश् च शुभाशूभैः ।
आत्मनो नास्ति सम्बन्धः किम् एनम् अनुशोचसि ॥

5.18.35

आत्मतत्त्वैकसारो ऽहम् इति जातधियो भवैः ।
न ते रामास्ति सम्बन्धः किं बिभेषि जगद्भ्रमात् ॥

5.18.36

अजातस्य सतो बन्धोर् बन्धुदुःखसुखक्रमैः ।
कस् ते राघव सम्बन्धो यद् एतान् अनुशोचसि ॥

5.18.37

त्वं चेद् बभूविथ पुरा तथेदानीं भविष्यसि ।
यद्य् अथेह स्थितो ऽसीति ज्ञातवान् असि निश्चयम् ॥

5.18.38

तद् अनन्ततरान् अन्यान् प्राग्योनिगणसंस्तुतान् ।
बन्धून् अतीतान् सुबहून् कस्मात् त्वं नानुशोचसि ॥

5.18.39

पूर्वम् अद्य तथेदानीं बभूविथ भविष्यसि ।
यदि राम तथापि त्वं सद्रूपः किं विमुह्यसि ॥

5.18.40

पुरा भूत्वाद्य भूत्वा च भूयश् चेन् न भविष्यसि ।
तथापि क्षीणसंसारः किमर्थम् अनुशोचसि ॥

5.18.41

तस्मान् न दुःखिता युक्ता प्रकृते जागते क्रमे ।
न चैव मुदिता युक्ता युक्तं कार्यानुवर्तनम् ॥

5.18.42

मा गच्छ दुःखितां राम सुखिताम् अपि मा व्रज ।
समताम् एहि सर्वत्र परमात्मासि सर्वगः ॥

5.18.43

अनन्तस् स्वच्छरूपस् त्वं खम् इवातिततान्तरः ।
नित्यशुद्धः प्रकाशस् त्वं ज्वालाया इव कोटरम् ॥

5.18.44

जागतानां पदार्थानाम् अदृश्याणुतनुस् तनुः ।
हृत्स्थो ऽसि हारमुक्तानाम् एकस् तन्तुर् इवाततः ॥

5.18.45

संसारस्थितिर् एवेयं यद् भूत्वा भूयते पुनः ।
अज्ञेनैव न तु ज्ञेन ज्ञो ऽसि राम स्थिरो भव ॥

5.18.46

स्वरूपम् इदम् अस्यास् तु संसृतेस् सन्ततं हि यत् ।
अज्ञानात् स्फारताम् एति ज्ञानवान् असि सन्मते ॥

5.18.47

रूपं किम् अन्यद् भवतु भ्रममात्राद् ऋते भ्रमे ।
स्वप्नमात्राद् ऋते स्वप्ने भवत्य् अन्यो हि कः क्रमः ॥

5.18.48

सर्वशक्तेर् इयं शक्तिर् भ्रममात्रमयी मता ।
रूढा संसारमायेति नासत्या नापि सन्मयी ॥

5.18.49

केवलं ज्ञानवैरूप्याद् अपर्यालोचनात् तथा ।
राम दृश्यत एवेदम् आभानम् अतिभास्वरम् ॥

5.18.50

न बन्धुः कस्यचित् कश्चिद् इह नो कश्चिद् अप्य् अरिः ।
सदा सर्वं च सर्वस्य सर्वस् सर्वेश्वरेच्छया ॥

5.18.51

आलूनशीर्णम् अखिलम् इदम् अन्योऽन्यमिश्रितम् ।
अनारतं याति जगत् तरङ्गौघ इवाम्भसः ॥

5.18.52

अध ऊर्ध्वत्वम् आयाति यात्य् ऊर्ध्वत्वम् अधस् तथा ।
संसारस्य चलस्यास्य चक्रनेमिर् इवाभितः ॥

5.18.53

स्वर्गस्था नरकं यान्ति नारका यान्ति विष्टपम् ।
योनेर् योन्यन्तरं यान्ति द्वीपाद् द्वीपान्तरं जनाः ॥

5.18.54

धीराः कार्पण्यम् आयान्ति कृपणा यान्ति धीरताम् ।
परिस्फुरन्ति भूतानि पातोत्पातशतभ्रमैः ॥

5.18.55

एकरूपं स्थिरं स्वस्थं स्वच्छं सन्तापवर्जितम् ।
नेह सम्प्राप्यते किञ्चिद् अग्नौ हिमकणो यथा ॥

5.18.56

ये ये राम महाभागा बहवो ऽबहवो ऽथ वा ।
नष्टा एवेह दृश्यन्ते ते ते कतिपयैर् दिनैः ॥

5.18.57

परतात्मीयतान्यत्वत्वत्त्वमत्त्वादिभावनाः ।
नेह सत्या महाबाहो द्विचन्द्रादिदृशो यथा ॥

5.18.58

अयं बन्धुः परश् चायम् अयं चाहम् अयं भवान् ।
एता मिथ्यादृशो राम विगलन्तु तवाधुना ॥

5.18.59

क्रीडार्थं व्यवहारस्थ एताभिर् हतदृष्टिभिः ।
आमूलम् अन्तश् छिन्नाभिर् बहिर् विहर हेलया ॥

5.18.60

संसारसरणाव् अस्यां तथा विहर सुव्रत ।
न यथैषि श्रमं श्रान्तो वासनाभारवान् यथा ॥

5.18.61

यथा यथैषा कल्याणी वासनाक्षयकारिणी ।
विचारणा तवोदेति संशाम्यसि तथा तथा ॥

5.18.62

अयं बन्धुर् अयं नेति गणना लघुचेतसाम् ।
उदारचरितानां तु विगतावरणैव धीः ॥

5.18.63

न तद् अस्ति न यत्राहं न तद् अस्ति न यन् मम ।
इति निर्णीतसाराणां विगतावरणैव धीः ॥

5.18.64

नास्तम् एति न चोदेति यश् चिदाकाशवन् महान् ।
स सर्वं पश्यति स्वस्थः खस्थो भूमितलं यथा ॥

5.18.65

सर्वा एव हि ते भूतजातयो राम बन्धवः ।
अत्यन्तासंस्तुता एतास् तव नाम न काश्चन ॥

5.18.66

विविधजन्मशताहितसम्भ्रमे जगति बन्धुर् अबन्धुर् इति क्षणम् ।
भ्रमदशैव विवल्गति वस्तुतस् त्रिभुवनं चिरबन्धुर् अबन्ध्व् अपि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc