मोक्षोपाय · अध्याय 5.17
विदेहमुक्ता ये राम ते गिराम् इह गोचरे ।
नैव तिष्ठन्ति तस्मात् त्वं जीवन्मुक्तान् इमाञ् शृणु ॥
प्रकृतान्य् एव कार्याणि ययारञ्जितयाच्छया ।
क्रियन्ते तृष्णयेमानि तां जीवन्मुक्ततां विदुः ॥
या स्थितिस् तृष्णया जन्तोर् बाह्यार्थे बद्धभावया ।
तं बन्धम् आहुर् आचार्यास् संसारनिगडं दृढम् ॥
नूनम् उज्झितसङ्कल्पा हृदि बाह्ये विहारिणी ।
वासना योदिता सेह जीवन्मुक्तशरीरिणी ॥
बाह्यार्थव्यसनोच्छूना तृष्णा बद्धेति राघव ।
सर्वार्थव्यसनोन्मुक्ता तृष्णा मुक्तेति कथ्यते ॥
पूर्वं यस्यास् तु तृष्णाया वर्तमाने च शाश्वती ।
निर्दुःखता निष्कलता सा मुक्तैव बुधैस् स्मृता ॥
इदम् अस्तु ममेत्य् अन्तर् यैषा राघव भावना ।
तां तृष्णां शृङ्खलां विद्धि कलनां च महामते ॥
ताम् एतां सर्वभावेषु सत्स्व् असत्सु च सर्वदा ।
सन्त्यज्य परमोदारं पदम् एति महामनाः ॥
बन्धाशाम् अथ मोक्षाशां सुखदुःखदशाम् अपि ।
त्यक्त्वा सदसदाशां च तिष्ठाक्षुब्धमहाब्धिवत् ॥
अजरामरम् आत्मानं बुद्ध्वा बुद्धिमतां वर ।
जरामरणशङ्काभिर् मा मनः कलुषं कृथाः ॥
पदार्थजातं नेदं ते नायम् अप्य् असि राघव ।
किञ्चित् तदन्यद् एवेदम् अन्य एवासि शाश्वतः ॥
असदभ्युत्थिते विश्वे सत्ये वा सततं स्थिते ।
त्वयि तत्ताम् उपगते तृष्णायास् सङ्गमः कुतः ॥
अन्यश् च राम मनसि पुरुषस्य विचारिणः ।
जायते निश्चयस् साधो स्फाराकारश् चतुर्विधः ॥
आपादमस्तकम् अहं मातापितृविनिर्मितः ।
इत्य् एको निश्चयो राम बन्धायासद्विलोकनात् ॥
अतीतस् सर्वभावेभ्यो वालाग्राद् अप्य् अहं तनुः ।
इति द्वितीयो मोक्षाय निश्चयो जायते सताम् ॥
जगज्जालपदार्थात्मा सर्वदैवाहम् अक्षतः ।
तृतीयो निश्चयश् चेत्थं मोक्षायैव रघूद्वह ॥
अहं जगच् चासद् इदं शून्यं व्योमसमं सदा ।
एवम् एष चतुर्थो ऽपि निश्चयो मोक्षसिद्धये ॥
निश्चयेषु चतुर्ष्व् एवं बन्धाय प्रथमस् स्मृतः ।
त्रयो मोक्षाय कथिताश् शुद्धभावनयोम्भिताः ॥
एतेषां प्रथमः प्रोतस् तृष्णया बन्धयोग्यया ।
शुद्धतृष्णास् त्रयस् स्वच्छा जीवन्मुक्ता विलासिनः ॥
सर्वम् आत्माहम् एवेति निश्चयो यो महामते ।
तम् आदाय विषादाय न भूयो याति ते मतिः ॥
तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमात्मनः ।
सर्वम् आत्मेति तेनान्तर् निश्चयेन न बध्यसे ॥
शून्यं प्रकृतिमाये च ब्रह्म विज्ञानम् इत्य् अपि ।
शिवः पुरुष ईशेति नित्यम् आत्मैव कथ्यते ॥
सदा सर्वं सद् एवेदं नेह द्वित्वान्यते क्वचित् ।
विद्यते विद्यया व्याप्तं जगन् नेतरयान्धया ॥
आपातालम् अनन्तात्मा पूरितो ऽम्बुभिर् अम्बुधिः ।
आब्रह्मस्तम्बपर्यन्तं जगद् आपूर्णम् आत्मना ॥
ऋतं सर्वम् इदं नित्यं नानृतं विद्यते क्वचित् ।
वार्य् एव सकलो ऽम्भोधिर् न तरङ्गादयः पृथक् ॥
पृथक् कटककेयूरनूपुरादि न काञ्चनात् ।
भिन्नास् तरुतृणाकारकोटयश् चैव नात्मनः ॥
द्वैताद्वैतसमुद्भेदैर् जगन्निर्माणलीलया ।
परमात्ममयी शक्तिर् अद्वैतैव विजृम्भते ॥
आत्मीये परकीये च सर्वस्मिन्न् एव सर्वदा ।
नष्टे वोपचिते कार्ये सुखदुःखे गृहाण मा ॥
भावाद्वैतम् उपाश्रित्य सत्ताद्वैतमयात्मकः ।
कर्माद्वैतम् अनादृत्य द्वैताद्वैतमयो भव ॥
भवभूमिषु भीमासु भवभावनयानया ।
मा पतोत्पातपूर्णासु नदीष्व् अन्धः करी यथा ॥
द्वित्वं न सम्भवति सर्वगते महात्मन्य् आत्मन्य् अथैक्यम् अपि च द्वितयोदितात्म ।
अद्वैतम् ऐक्यरहितं सततोदितं च सर्वं न किञ्चिद् अपि चाहुर् अतस् स्वरूपम् ॥
नैवाहम् अस्मि न च नाम जगन्ति सन्ति सर्वं च विद्यत इदं ननु निर्विकारम् ।
विज्ञानमात्रम् अवभासत एव शान्तं नासन् न सज् जगद् अहं च सदेति विद्धि ॥
परमम् अमृतम् आद्यं भासनं सर्वभासाम् अजम् अजरम् अचिन्त्यं निष्क्रमं निर्विकारम् ।
विगतकरणजालम् जीवनं जीवशक्तेस् सकलकलनहीनं कारणं कारणानाम् ॥
सततम् उदितम् ईशं व्यातते चित्प्रकाशे स्थितम् अनुभवबीजं स्वात्मभावोपदेश्यम् ।
स्वदनम् अनु चितो ऽन्तर् ब्रह्म सर्वं सदैतत् त्वम् अहम् अपि जगच् चेत्य् अस्तु ते निश्चयो ऽन्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0