मोक्षोपाय · अध्याय 5.16
अतिगम्भीरम् एतत् तु भगवन् वचनं तव ।
यद् अहङ्कारतृष्णे त्वं मा गृहाणेति वक्षि माम् ॥
यद्य् अहङ्कारसन्त्यागं करोमि तद् इमं प्रभो ।
त्यजामि देहनामानं सन्निवेशम् अशेषतः ॥
जानुस्तम्भेन महता धार्यते सुतरुर् यथा ।
अहङ्कारेण देहो ऽयं तथैव किल धार्यते ॥
अहङ्कारक्षये देहः किलावश्यं विनश्यति ।
मूले क्रकचसंलूने सुमहान् इव पादपः ॥
तत् कथं सन्त्यजाम्य् एनं जीवामि च कथं मुने ।
एकम् अर्थं विनिश्चित्य वद मे वदतां वर ॥
सर्वत्र वासनात्यागो राम राजीवलोचन ।
द्विविधः कथ्यते तज्ज्ञैर् ध्येयो नेयश् च नामतः ॥
अहम् एषां पदार्थानाम् एते च मम जीवितम् ।
नाहम् एभिर् विना कश्चिन् न मयैते विना किल ॥
इत्य् अन्तर् निश्चयं त्यक्त्वा विचार्य मनसा सह ।
नाहं पदार्थस्य न मे पदार्थ इति भाविते ॥
अन्तश्शीतलया बुद्ध्या कुर्वन्त्या लीलया क्रियाः ।
यो नूनं वासनात्यागो ध्येयो नाम स कीर्तितः ॥
सर्वं सर्विकया बुद्ध्या यं कृत्वा वासनाक्षयम् ।
जहाति निर्मना देहं स नेयो वासनाक्षयः ॥
अहङ्कारमयीं त्यक्त्वा वासनां लीलयैव यः ।
तिष्ठति ध्येयसन्त्यागी स जीवन्मुक्त उच्यते ॥
निर्मूलकलनां कृत्वा वासनां यः क्षयं गतः ।
नेयत्यागमयं विद्धि मुक्तं तं रघुनन्दन ॥
ध्येयं तं वासनात्यागं कृत्वा तिष्ठन्ति लीलया ।
जीवन्मुक्ता महात्मानस् सुजना जनका इव ॥
नेयं तु वासनात्यागं कृत्वोपशमम् आगताः ।
विदेहमुक्तास् तिष्ठन्ति ब्रह्मण्य् एव परापरे ॥
द्वाव् एतौ राघव त्यागौ समौ मुक्तपदस्थितौ ।
द्वाव् एव ब्रह्मतां यातौ द्वाव् एव विगतज्वरौ ॥
मुक्ताव् उत्तमविश्वासे केवलं विमले ऽनघ ।
एकस् स्थितस् स्फुरद्देहश् शान्तदेहस् स्थितो ऽपरः ॥
एकस् सदेहो निर्मुक्तस् तिष्ठत्य् अपगतज्वरः ।
त्यक्तदेहो विमुक्तो ऽन्यो वर्तते ऽनेयवासनः ॥
आपतत्सु यथाकालं सुखदुःखेष्व् अनारतम् ।
न हृष्यति ग्लायति वा यस् स मुक्त इहोच्यते ॥
ईप्सितानीप्सिते न स्तो यस्यान्तर् वस्तुदृष्टिषु ।
सुषुप्तवद् यश् चलति स मुक्त इति कथ्यते ॥
हेयोपादेयकलने ममेत्य् अहम् इहेति च ।
यस्यान्तस् सम्परिक्षीणे स जीवन्मुक्त उच्यते ॥
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।
न परामृश्यते यो ऽन्तस् स जीवन्मुक्त उच्यते ॥
सुषुप्तवत् प्रशमितभाववृत्तिना स्थितं सदा जाग्रति येन चेतसा ।
कलान्वितो विधुर् इव यस् सदा मुदा निषेव्यते मुक्त इतीह स स्मृतः ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0