भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.15

5.15.1

एनाम् अनुसरन् राम चित्तसत्ताम् अपावनीम् ।
संसारबीजकणिकां जीवबन्धनवागुराम् ॥

5.15.2

आत्मा त्यक्तात्मरूपाभो मलिनाम् आपतन् दशाम् ।
चिन्तां समनुसन्धत्ते धत्ते च कलनामलम् ॥

5.15.3

मूर्छमाना महामोहदायिनी भयकारिणी ।
तृष्णा विषलतारूपा मूर्छाम् एव प्रयच्छति ॥

5.15.4

यदा यदोदेति तदा महामोहप्रदायिनी ।
तृष्णा कृष्णनिशेवेयम् अनन्तान्ध्यविकारिणी ॥

5.15.5

कल्पानलशिखादाहं सोढुं शक्ता हरादयः ।
तृष्णानलशिखादाहं सोढुं शक्ता न केचन ॥

5.15.6

तीक्ष्णा कृष्णा सुदीर्घा च वहत्य् अङ्गे सदा निजे ।
शीतलेवासुखोदर्का घोरा तृष्णाकृपाणिका ॥

5.15.7

यान्य् एतानि दुरन्तानि दुर्धराण्य् उद्धतानि च ।
तृष्णावल्ल्याः फलानीह तानि दुःखानि राघव ॥

5.15.8

अदृश्यैवात्ति मांसास्थिरुधिरादि शरीरकात् ।
मनोबिलविलीनैषा तृष्णावनशुनी नृणाम् ॥

5.15.9

क्षणम् उल्लासम् आयाति क्षणम् आयाति शून्यताम् ।
जडा विदलयत्य् आशु तृष्णाप्रावृट्तरङ्गिणी ॥

5.15.10

दृष्टदैन्यो हतस्वान्तो हतौजा याति नीचताम् ।
मुह्यते रौति पतति तृष्णयाभिहतो जनः ॥

5.15.11

न स्थिता कोटरे यस्य तृष्णाकृष्णभुजङ्गमी ।
तस्य प्राणानिलास् स्वस्थाः पुंसो हृदयरन्ध्रगाः ॥

5.15.12

नूनम् अस्तङ्गतो यत्र तृष्णाकृष्णनिशाक्रमः ।
पुण्यानि तत्र वर्धन्ते शुक्लपक्ष इवेन्दवः ॥

5.15.13

यो न तृष्णाघुणावल्या क्षतः पुरुषपादपः ।
पुण्यप्रसूनेन सदा सो ऽवभाति विकासिना ॥

5.15.14

अनन्ताकुलकल्लोला विवर्तावर्तसङ्कुला ।
प्रवहत्य् आशयारण्ये तृष्णामोहनदी नृणाम् ॥

5.15.15

तृष्णयेमे जनास् सर्वे सूत्रयन्त्रपतत्रिवत् ।
उह्यन्ते प्रविशीर्यन्ते संह्रियन्ते च भूरिशः ॥

5.15.16

मूलान्य् अपि सुसूक्ष्मापि कठिनायसकर्कशा ।
तृष्णा परशुधारेव लगन्ती विनिकृन्तति ॥

5.15.17

निपतत्य् अवटे मूढस् तृष्णाम् अनुसरञ् जनः ।
नीलाम् अनुपतञ् श्वभ्रतृणशाखां यथैणकः ॥

5.15.18

नापन् नापि जरा न क्षुत् तथा जरयति क्षणात् ।
यथा जरयति क्षामं तृष्णा हृदयरूपिका ॥

5.15.19

तृष्णयाशयकौशिक्या हृद्य् अमङ्गलभूतया ।
रूढया भगवान् एष विष्णुर् वामनतां गतः ॥

5.15.20

कयाचिद् एव दैविक्या हृदि ग्रथितयानया ।
तृष्णया भ्राम्यते व्योम्नि रज्ज्वेवार्को ऽन्वहं किल ॥

5.15.21

सर्वदुःखमयाकारां कारां जगति जीवतः ।
तृष्णां परिहर क्रूराम् उरगीम् इव दूरतः ॥

5.15.22

तृष्णया पवना वान्ति शैलास् तिष्ठन्ति तृष्णया ।
तृष्णयैव धरा धात्री त्रैलोक्यं तृष्णया वृतम् ॥

5.15.23

सर्वैव लोकयात्रेयं प्रोता तृष्णावरत्रया ।
रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न केचन ॥

5.15.24

तस्माद् राघव तृष्णां त्वं त्यज सङ्कल्पवर्जनात् ।
मनस् सङ्कल्पकं नास्ति निर्णीतम् इति युक्तितः ॥

5.15.25

अयं नामाहम् इत्य् एव प्रथमं तावद् आशये ।
मा दुराशां महाबाहो सङ्कल्पय तमोमयीम् ॥

5.15.26

एतां दुःखप्रसविनीम् अनात्मन्य् आत्मभावनाम् ।
न भावयसि चेद् राम तद् बहुज्ञेषु गण्यसे ॥

5.15.27

एनाम् अहम्भावमयीम् अपुण्यां छित्त्वा स्वयम्भावशलाकयैव ।
स्वभावनां भव्य भवान्तभूमौ भवाभिभूताखिलभीतिभूतिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc