भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.14

5.14.1

संसारसागरासारकल्लोलेषूह्यमानया ।
मन एव न मूकं स्वं यया जनतया जितम् ॥

5.14.2

आत्मलाभमयोदारफलाभिर् इह सा मया ।
विचारोक्तिभिर् एताभिश् शास्त्रे ऽस्मिन् नोपदिश्यते ॥

5.14.3

न पश्यत्य् एव यो ह्य् अन्धस् तस्य कः खलु दुर्मतिः ।
विचित्रमञ्जरीचित्रं सन्दर्शयति काननम् ॥

5.14.4

कः कुष्ठघर्घरघ्राणं नानामोदविचारणे ।
मूर्खम् आत्मोपदेशे च प्रमाणं कुरुते ऽमतिः ॥

5.14.5

विपर्यस्तेन्द्रियं मत्तं मदिराघूर्णितेक्षणम् ।
धर्मनिर्णयसाक्षित्वे कः प्रमाणीकरोत्य् अधीः ॥

5.14.6

कश् शवं वा श्मशानस्थं समुपायकथां शठः ।
परिपृच्छति सन्देहे कश् च मूर्खं प्रशास्ति वै ॥

5.14.7

येनाशयबिलस्थो हि मूको ऽन्धो ऽपि न निर्जितः ।
मनोव्यालस् स दुर्बुद्धिः कथं नामोपदिश्यते ॥

5.14.8

जितम् एव मनो विद्धि वस्तुतो यन् न विद्यते ।
निकटात् सा चिरास्तैव या शिला नैव विद्यते ॥

5.14.9

मनो न विजितं राम येनासद् अपि दुर्धिया ।
तेनाग्रस्तविषेणैव म्रियते विषमूर्छया ॥

5.14.10

ज्ञः पश्यति सदैवात्मा स्पन्दन्ते ज्ञानशक्तयः ।
इन्द्रियाणि स्वधर्मेषु मनो नाम किम् उच्यते ॥

5.14.11

प्राणानां स्पन्दिनी शक्तिर् ज्ञा शक्तिः परमात्मनः ।
इन्द्रियाणां निजा शक्तिर् एवं को ऽत्र निबध्यते ॥

5.14.12

सर्वाश् च शक्तयस् तस्य सर्वशक्तेः किलात्मनः ।
पृथक्ता चान्यता चेयं कुतो नामेतरोत्थिता ॥

5.14.13

किं नाम जीव इत्य् उक्तं येनेहान्धीकृतं जगत् ।
चित्तं चैवासद् एव त्वं विद्धि कास्त्य् अस्य शक्तता ॥

5.14.14

मनोनिर्दग्धदृष्टीनां दृष्ट्वा दुःखपरम्पराः ।
मतिर् मे करुणाक्रान्ता राम मुग्धेव तप्यते ॥

5.14.15

कः किलात्र कुतः खेदो यन् मूर्खः परितप्यते ।
दुःखायैव हि जायन्ते करभाः प्राकृतास् तथा ॥

5.14.16

विनाशायैव जायन्ते जडदेहेष्व् अबुद्धयः ।
अनारतोदयापाया बुद्बुदा जलधिष्व् इव ॥

5.14.17

कियन्तः पश्य पशवः प्रत्यहं प्रतिमण्डलम् ।
सूनावद्भिर् निहन्यन्ते केवात्र परिदेवना ॥

5.14.18

अर्बुदान्य् अनिलो हन्ति क्षुपाजालेषु चान्वहम् ।
दंशानां मषकानां च केवात्र परिदेवना ॥

5.14.19

दिशं प्रति गिरीन्द्रेषु पुलिन्दौघा वने वने ।
निघ्नन्ति प्राणिलक्षाणि केवात्र परिदेवना ॥

5.14.20

जले जलचरव्यूहात् तनुं स्थूलो निकृन्तति ।
ग्रासाय प्रत्यहं मत्स्यः केवात्र परिदेवना ॥

5.14.21

गृध्रश्येनादयो व्योम्नि पक्षिपूगं विहङ्गमाः ।
अनारतं विलुम्पन्ति केवात्र परिदेवना ॥

5.14.22

लिक्षाम् अणुकणक्षामां क्षुधा खादति मक्षिका ।
तां कोशकारः क्षुधितो दंशस् तम् अपि चञ्चलः ॥

5.14.23

तं दंशं दर्दुरो भुङ्क्ते व्यालस् तम् अपि दर्दुरम् ।
सर्पम् उग्रखरो हन्ति बभ्रुश् चैनं निकृन्तति ॥

5.14.24

बभ्रुं हिनस्ति मार्जारो मार्जारं श्वा निकृन्तति ।
ऋक्षः कौलेयकं हन्ति ऋक्षं व्याघ्रो निकृन्तति ॥

5.14.25

सिंहो ऽभिभवति व्याघ्रं शरभस् सिंहम् अत्ति च ।
शरभो नाशम् आयाति मत्तमेघविलङ्घने ॥

5.14.26

मेघा वातैर् विधूयन्ते वायवो गिरिभिर् जिताः ।
गिरयो वज्रनिष्पिष्टाश् शक्रस्य वशगः पविः ॥

5.14.27

विष्णुना ध्रियते शक्रो विष्णुर् गच्छति जन्तुताम् ।
सुखदुःखदशावेशजरामरणमालिताम् ॥

5.14.28

जन्तवो ऽपि महाकाया अपि विद्यायुधान्विताः ।
लिक्षाभिर् अङ्गलग्नाभिर् उपजीव्यन्त एव हि ॥

5.14.29

अजस्रम् एवम् आलूनविशीर्णं भूतजङ्गलम् ।
परस्परम् अलं मोहाद् भक्ष्यते रक्ष्यते ऽपि च ॥

5.14.30

अनारतं विनश्यन्ति विविधा भूतजातयः ।
अनारतं च जायन्ते विचित्राः ककुभं प्रति ॥

5.14.31

जलकोशेषु जायन्ते मत्स्येभमकरादयः ।
भूमाव् अन्तः प्रजायन्ते कीटौघा वृश्चिकादयः ॥

5.14.32

अन्तरिक्षे ऽपि जायन्ते आकाशे विहगादयः ।
वनवीथीषु जायन्ते सिंहव्याघ्रमृगादयः ॥

5.14.33

प्राण्यङ्गेष्व् अपि जायन्ते लिक्षायूकापिपीलकाः ।
स्थावरेषु च जायन्ते घुणाजगरजातयः ॥

5.14.34

शिलान्तरेषु जायन्ते कीटभेकघुणादयः ।
विष्ठायाम् अपि जायन्ते नानाकीटगणास् तथा ॥

5.14.35

एवम् अन्येष्व् असङ्ख्येषु जन्मस्व् अपचयेषु च ।
अजस्रं करुणावन्तो नन्दन्तूपरुदन्तु वा ॥

5.14.36

अनारतमृताव् अस्मिन्न् अनारतसमुद्भवे ।
संसारसम्भ्रमे युक्ता न तुष्टिर् न च दुःखिता ॥

5.14.37

पङ्क्तयस् त्व् एवम् एवेमा वृक्षपर्णगणैस् सह ।
उत्पत्योत्पत्य लीयन्ते भूतानां भूरिसम्भवाः ॥

5.14.38

यः प्रवृत्तः कुबुद्धीनां दयावान् दुःखमार्जने ।
स हस्तच्छत्त्रनिर्मृष्टसूर्यांशुः खेदम् एत्य् अलम् ॥

5.14.39

न तिर्यक्समधर्माण उपदेश्या नरा भुवि ।
कथाप्रकथनेनार्थः कस् स्थाणुविकटे वने ॥

5.14.40

किं किलोत्फालमनसां पशूनां च विशेषणम् ।
कृष्यन्ते पशवो रज्ज्वा मनसा मूढचेतसः ॥

5.14.41

स्वचित्तपङ्कमग्नानां स्वाशांशरचितात्मनाम् ।
मूर्खाणाम् आपदम् दृष्ट्वा प्ररुदन्त्य् उपला अपि ॥

5.14.42

अनिर्जितात्मचित्तानाम् अनन्ता दुःखराशयः ।
तन्मार्जने कृतप्रज्ञो नातस् सम्प्रतिपद्यते ॥

5.14.43

विनिर्जितात्मचित्तानां दुःखानि रघुनन्दन ।
सुनिवार्याणि तेनात्र ज्ञातज्ञेयः प्रवर्तताम् ॥

5.14.44

मनो नास्ति महाबाहो मा मुधैतत् प्रकल्पय ।
अनेन कल्पितेन त्वं वेतालेनेव हन्यसे ॥

5.14.45

यावद् विस्मृतवान् आत्मतत्त्वं मूढो ऽभवद् भवान् ।
तावत् तव मनोव्यालो बभूवाभ्युदितस् ततः ॥

5.14.46

इदानीं भवता ज्ञातं यथाभूतम् अरिन्दम ।
सङ्कल्पाद् वर्धते चित्तं तद् एवाशु परित्यज ॥

5.14.47

दृश्यम् आश्रयसीदं चेत् तत् सचित्तो ऽसि बन्धवान् ।
दृश्यं सन्त्यजसीदं चेत् तद् अचित्तो ऽसि मोक्षवान् ॥

5.14.48

अयं गुणसमाहारो बन्धायैव समाश्रितः ।
सन्त्यक्त एव मोक्षाय यथेच्छसि तथा कुरु ॥

5.14.49

नाहं नेदम् इति ध्यायंस् तिष्ठ त्वम् अचलाचलः ।
अनन्ताकाशसङ्काशहृदयो हृदयेश्वरः ॥

5.14.50

आत्मनो जगतश् चान्तर् विभागकलनामलम् ।
राम द्वित्वमयं त्यक्त्वा शेषस्थस् सुस्थिरो भव ॥

5.14.51

आत्मनो जगतश् चान्तर् द्रष्टृदृश्यदशान्तरे ।
दर्शनाख्ये स्वम् आत्मानं सर्वदा भावयन् भव ॥

5.14.52

स्वाद्यस्वादकसन्त्यक्तं स्वाद्यस्वादकमध्यगम् ।
स्वदनान्तस्स्थितं ध्यायन् नित्यम् आत्ममयो भव ॥

5.14.53

रामानुभवनीयस्य तथानुभवितुस् स्वयम् ।
अवलम्ब्य निरालम्बं मध्यम् अद्य स्थिरो भव ॥

5.14.54

भवभावनया हीनं भावाभावदशोज्झितम् ।
भावयित्वैवम् आत्मानम् आत्मसंस्थस् स्वयं भव ॥

5.14.55

आत्मसत्तां त्यजन्न् एनां चेत्यं भावयसि स्वयम् ।
यदा राम तदा यासि चित्तताम् अतिदुःखदाम् ॥

5.14.56

चित्तताशृङ्खलाम् एनां स्वरूपज्ञानयुक्तिभिः ।
बलाच् छित्त्वा महाबाहो स्वात्मसिंहं विमोचय ॥

5.14.57

परमात्मदशां त्यक्त्वा चेत्यं परिपतन् मलम् ।
यदा गच्छसि सङ्कल्पं चेत्यं सम्पद्यसे तदा ॥

5.14.58

आत्मनो व्यतिरिक्तं सच् चेत्यम् इत्य् अङ्गसंविदा ।
मनस् सम्पद्यते दुःखि क्षीयते त्यक्तया तया ॥

5.14.59

आत्मैवेदं जगत् सर्वम् इत्य् अन्तस् संविदोदये ।
क्व चेत्ता क्व च वा चित्तं किं चेत्यं चिन्तनं च किम् ॥

5.14.60

अहम् आत्मेति जीवो ऽस्मीत्य् एतावच् चित्तकं विदुः ।
अनेनेदम् अनाद्यन्तं दुःखं राघव तन्यते ॥

5.14.61

अहम् आत्मा न जीवाख्यास् सत्तास् सन्तीतराः क्वचित् ।
इत्य् एव चित्तोपशमः परमं सुखम् उच्यते ॥

5.14.62

आत्मैवेदं जगद् इति जाते राघव निश्चये ।
असत्ता चेतसो जाता भवत्य् एव न संशयः ॥

5.14.63

एवं सत्यावबोधेन स्वात्मैवेदम् इति स्थिते ।
मनस् सुगलितं विद्धि सूर्यभासा तमो यथा ॥

5.14.64

मनस्सर्पश् शरीरस्थो यावत् तावन् महद् भयम् ।
तस्मिन्न् उत्सारिते योगाद् भयस्यावसरः कुतः ॥

5.14.65

भ्रान्तिमात्रोत्थितश् चित्तवेतालो भवतानघ ।
सम्यग्ज्ञानेन मन्त्रेण प्रसभं विनिपात्यताम् ॥

5.14.66

देहगेहाद् गते चित्तयक्षे बलवतां वर ।
निराधिर् विगतोद्वेगं तिष्ठ नास्ति भयं तव ॥

5.14.67

नीराग एव निरुपाञ्जन एव चास्मीत्य् एतावतैव गलिता तव चित्तसत्ता ।
निर्दुःखम् उत्तमपदं परमं गतो ऽसि तिष्ठोपशान्तसकलैषण एवम् अन्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc