मोक्षोपाय · अध्याय 5.13
एवं जनकवद् राम विचार्यात्मानम् आत्मना ।
पदं विदितवेद्यानाम् अचिरेणाधिगच्छसि ॥
ये हि पाश्चात्यजन्मानः प्राज्ञा राजसजातयः ।
प्राप्नुवन्ति स्वयं प्राप्यं ते जना जनको यथा ॥
तावत् तावद् विजित्यारीन् इन्द्रियाख्यान् यतेत ह ।
यावद् आत्मात्मनैवायम् आत्मन्य् एव प्रसीदति ॥
प्रसन्ने सर्वगे देवे देवेशे परमात्मनि ।
स्वयम् आलोकिते सर्वाः क्षीयन्ते दुःखदृष्टयः ॥
मुष्टयो मोहबीजानां वृष्टयो विविधापदाम् ।
कुदृष्टयः क्षयं यान्ति तस्मिन् दृष्टे परावरे ॥
सदा जनकवद् राम सर्वारम्भवतात्मना ।
प्रज्ञयात्मानम् आलक्ष्य लक्ष्मीवान् उत्तमो भव ॥
नित्यम् आत्तविचारस्य पश्यतश् चञ्चलं जनम् ।
जनकस्येव कालेन स्वयम् आत्मा प्रसीदति ॥
न दैवं न च कर्माणि न धनानि न बन्धवः ।
शरणं भवभीतानां स्वप्रयत्नाद् ऋते नृणाम् ॥
ये दैवनिष्ठाः कर्मादिकुविकल्पपरायणाः ।
तेषां मन्दा मतिस् तात नानुगम्या विनाशिनी ॥
विवेकं परम् आश्रित्य विलोक्यात्मानम् आत्मना ।
धिया विरागोद्धुरया संसारजलधिं तरेत् ॥
एषा सा कथिता राम नभःफलनिपातवत् ।
सुखदा ज्ञानसम्प्राप्तिर् अज्ञानतरुशातनी ॥
जनकस्येव सद्बुद्धेस् स्वयम् एव विवेकिनः ।
विकासम् एत्य् अयं देही देवः प्रातर् इवाम्बुजम् ॥
संशान्तमननं चित्तं विचारेण विलीयते ।
गलद्वर्णाकृतिस्पर्शम् आतपेन हिमं यथा ॥
अयम् एवाहम् इत्य् अस्यां निशायाम् उदिते क्षये ।
स्वयं सर्वगतस् स्फारस् स्वालोकस् सम्प्रवर्तते ॥
अयम् एवाहम् इत्य् अस्मिन् सङ्कोचे विलयं गते ।
अनन्तभुवनव्यापी विस्तारस् सम्प्रजायते ॥
जनकेन परित्यक्ता यथाहङ्कारवासना ।
तथा त्वम् अपि सद्बुद्धे विचार्यान्तः परित्यज ॥
अहङ्काराम्बुदे क्षीणे चिद्व्योम्नि विमले ऽमलः ।
नूनं प्रकटताम् एति स्वालोको भास्करः परः ॥
एतावद् एवातितमो यद् अहम्भावभावनम् ।
तस्मिञ् शमम् उपायाते प्रकाश उपजायते ॥
नाहम् अस्मि न चान्यो ऽस्ति न च नास्तीति भावितम् ।
मनः प्रशान्तिम् आयातं नोपादेयेषु मज्जति ॥
उपादेयानुपतनं हेयैकान्तविवर्जनम् ।
यद् एतन् मनसो राम तं बन्धं विद्धि नेतरत् ॥
मा खेदं भज हेयेषु मोपादेयपरो भव ।
हेयादेयदृशौ त्यक्त्वा शेषस्थस् स्वस्थतां व्रज ॥
येषाम् इदम् उपादेयम् इदं हेयम् इति स्थितिः ।
विलीना ते न वाञ्छन्ति न त्यजन्तीह नेतरे ॥
हेयोपादेयकलने क्षीणे यावन् न चेतसि ।
न तावत् समता भाति साभ्रे व्योम्नीव चन्द्रिका ॥
अवस्त्व् इदम् इदं वस्तु यस्येति लुलितं मनः ।
तस्मिन् नोदेति समता शाहोट इव मञ्जरी ॥
युक्तायुक्तैषणा यत्र लाभालाभविलासिनी ।
समतास्वच्छता तत्र कुतो नैराश्यहासिनी ॥
एकस्मिन् ब्रह्मतत्त्वे ऽस्मिन् विद्यमाने निरामये ।
नानानानातया नित्यं किम् अयुक्तिः क्व युक्तता ॥
ईप्सितानीप्सिताशङ्के मर्कट्यौ चित्तपादपे ।
चञ्चले स्फुरतो यस्मिन् कुतस् तस्येह सोम्यता ॥
निराशता निर्भयता नित्यता समता ज्ञता ।
निरीहता निष्क्रियता सोम्यता निर्विकल्पता ॥
धृतिर् मैत्री स्मृतिस् तुष्टिर् मुदिता मृदुभाषिता ।
हेयोपादेयनिर्मुक्तं ज्ञं यान्ति वनिता रताः ॥
धावमानम् अधो भोगांश् चित्तं प्रत्याहरेद् बलात् ।
प्रत्याहारेण पतितम् अधो वारीव सेतुना ॥
बाह्यान् अर्थान् इमांस् त्यक्त्वा तिष्ठन् गच्छन् स्वपञ् श्वसन् ।
सर्वथा सर्वदा सर्वान् आन्तरांश् च निवारयेत् ॥
गृहीततृष्णाशफरि वासनाजालम् आबिलम् ।
संसारवारि प्रसृतं चिन्तातन्तुभिर् आततम् ॥
अनया तीक्ष्णया तात च्छिन्द्धि बुद्धिशलाकया ।
वात्ययेवाम्बुदं कालो वहन्त्या वितते पदे ॥
अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् ।
धुर्यधीरेण धैर्येण प्रोद्धरोद्धुरया धिया ॥
मनसैव मनश् छित्त्वा विस्मृत्य चरमं मनः ।
वर्तमानम् अपि च्छित्त्वा च्छिन्नसंसारतां व्रज ॥
मोहो विस्मृत्य संसारं न भूयः परिरोहति ॥
तिष्ठन् गच्छञ् श्वसन् राम निवसन्न् उत्पतन् पतन् ।
असद् एवेदम् इत्य् अन्तर् निश्चित्यास्थां परित्यज ॥
समताम् अलम् आश्रित्य सम्प्राप्तं कार्यम् आहरन् ।
अचिन्तयंस् तथाप्राप्तं विहरेह हि राघव ॥
यथा सर्वर्तुलिङ्गानि न बिभर्ति बिभर्ति च ।
खम् एवम् इह कार्याणि कुरु मा कुरु वानघ ॥
त्वम् एव वेत्ता त्वम् अजस् त्वम् आत्मा त्वं महेश्वरः ।
आत्मनो ऽव्यतिरिक्तं सत् त्वयेदम् आततं ततम् ॥
येनास्माद् दृश्यसम्भाराद् अभितो भावनोज्झिता ।
स न सङ्गृह्यते दोषैर् हर्षामर्षविषादजैः ॥
रागद्वेषविनिर्मुक्तस् समलोष्टाश्मकाञ्चनः ।
मुक्त इत्य् उच्यते योगी त्यक्तसंसारवासनः ॥
स यत् करोति यद् भुङ्क्ते यद् ददाति निहन्ति यत् ।
तत्र मुक्तधियस् तस्य समता सुखदुःखयोः ॥
प्राप्तं कर्तव्यम् एवेति त्यक्त्वेष्टानिष्टभावनम् ।
प्रवर्तते यः कार्येषु न स मज्जति कुत्रचित् ॥
चित्सत्तामात्रम् एवेदम् इति निश्चयवन् मनः ।
त्यक्तभोगाभिमननं शमम् एति महामते ॥
मनः प्रकृत्यैव जडं चित्तत्त्वम् अनुधावति ।
मांसगर्धेन मार्जारो वने मृगपतिं यथा ॥
सिंहवीर्यवशाल् लब्धं मांसं भुङ्क्ते हि जम्बुकः ।
चिद्वीर्यवशतः प्राप्तं दृश्यम् आश्रयते मनः ॥
मन एवम् असत्कल्पं चित्प्रसादेन जीवति ।
भावयंश् चितम् एवैकां चित्ताम् एत्य चिद् अप्य् अतः ॥
जडं यत् किल निर्हीनं चिता दीपिकयोज्झितम् ।
तन् मनश् शवसङ्काशम् अचिद् उत्तिष्ठते कथम् ॥
चित्स्वभावपरामृष्टा स्पन्दशक्तिर् मरुन्मयी ।
कलना चित्तम् इत्य् उक्त्या कथ्यते शास्त्रदर्शिभिः ॥
यश् चितः क्षुब्ध आकारस् सैवेयं कलनोच्यते ।
चिद् एवाहम् इति ज्ञात्वा सा चित्ताम् एव गच्छति ॥
चेत्येन रहिता यैषा चित् तद् ब्रह्म सनातनम् ।
चेत्येन सहिता यैषा चित् सेयं कलनोच्यते ॥
किञ्चिदस्पष्टरूपं यद् ब्रह्म तत् संस्थितं मनः ।
कलनाम् असद् एवैत्य सद् इवोपस्थितं हृदि ॥
चित्तम् इत्य् एव रूढेह यदैव कलना चितः ।
तदैव चित्त्वं विस्मृत्य सा जडेव व्यवस्थिता ॥
सम्पन्ना कलनानाम्नी सङ्कल्पानुविधायिनी ।
व्यवच्छेदवती जाता हेयोपादेयधर्मिणी ॥
सैषा चिद् एव जडताम् आगतेव स्वशक्तितः ।
न सम्प्रबोधिता यावद् रूपं तावन् न बुध्यते ॥
अतश् शास्त्रविचारेण वैराग्येण परेण च ।
निग्रहेणेन्द्रियाणां च बोधयेत् कलनां स्वयम् ॥
कलना सर्वजन्तूनां विज्ञानेन शमेन च ।
प्रबुद्धा ब्रह्मताम् एति भ्रमतीतरथा जगत् ॥
व्यामोहमदिरामत्तां लुठितां विषयावटे ।
आत्मावबोधे संसुप्तां कलनाम् अवबोधयेत् ॥
अप्रबुद्धा जडा ह्य् एषा न किञ्चिद् अवबुध्यते ।
सङ्कल्पललनेवान्तर् दृश्यमानाप्य् असन्मयी ॥
तया परमया दृष्ट्या कलनैषान्तरस्थया ।
मञ्जरी गन्धशक्त्येव पदार्थेषु विराजते ॥
न तु सङ्कल्पिता यैषा कलनेति जगत्त्रये ।
सा हि किञ्चिद् विजानाति नित्यजाड्यैकधर्मिणी ॥
चेतति क्व जडा नाम कलनोपलरूपिणी ।
पद्मिनीवातपेनासौ परेणैवावबोध्यते ॥
यथा शिलामयी कन्या चोदितापि न नृत्यति ।
तथेयं कलना देहे न किञ्चिद् अवबुध्यते ॥
लिपिकर्मनृपैर् युद्धं क्व कृतं घर्घरारवम् ।
क्व चित्रचन्द्रकिरणैर् ओषध्यः प्रविबोधिताः ॥
अभूताविष्टगात्रैर् वा शवैः क्व परिवल्गितम् ।
क्व गीतं मधुरध्वानं वनपाषाणमण्डलैः ॥
क्व पुस्तविहितैर् अर्कैः क्षपितं यामिनीतमः ।
क्व सङ्कल्पमयैश् छायाः क्रियन्ते व्योमकाननैः ॥
क्व जडैर् उपलाकारैर् मिथ्याभ्रमभरोत्थितैः ।
मृगतृष्णामयैर् एभिर् मनोभिः क्रियते क्रिया ॥
यथातपे स्थिते स्फारे मृगतृष्णातरङ्गिणी ।
कलना तद्वद् एवेयं स्फुरत्य् आत्मनि सत्य् अलम् ॥
यद् एतत् स्पन्दनं राम मनसो ऽधिगतं शनैः ।
मरुतां विद्धि तां शक्तिम् अन्तःप्राणशरीरिणाम् ॥
यैषा संविद् अनाक्रान्ता सङ्कल्पलवनिश्चयैः ।
अनाक्षिप्तरसाकारा प्रभैषा पारमात्मिकी ॥
अयं सो ऽहम् इदं तन् मे इति या कलना स्थिता ।
प्राणात्मतत्त्वयोस् तस्यास् सञ्ज्ञा जीवेति कथ्यते ॥
धीश् चित्तं जीव इत्य् एतास् सङ्कल्पस्यासतस् सतः ।
सञ्ज्ञास् सङ्कल्पितास् तज्ज्ञैर् न राम परमार्थतः ॥
न मनो नो मतिर् नापि जीवो न च शरीरकम् ।
अस्तीह परमार्थेन स्वात्मैवेहास्ति सर्वदा ॥
आत्मैवेदं जगत् सर्वम् आत्मा कालक्रमस् तथा ।
सदाकाशाद् अच्छतरो नास्तीवास्त्य् एव वामलः ॥
अच्छत्वाद् असदाभासस् संविद्रूपतया तु सत् ।
आत्मा सर्वपदातीतस् स्वानुभूत्यानुभूयते ॥
मनस् तत्र परिक्षीणं यत्र संवित् परात्मनः ।
अन्धकारक्षयो यत्र तत्रालोकः प्रवर्तते ॥
यत्रात्मसंविदो ऽच्छायास् सङ्कल्पोन्मुखता मनाक् ।
तत्रात्मनो विस्मरणं स्मरणं चित्तजन्मनः ॥
परस्य पुंसस् सङ्कल्पमयत्वं चित्तम् उच्यते ।
अचित्तत्वम् असङ्कल्पान् मोक्षनामाभिजायते ॥
एतावच् चेतसो जन्म बीजं संसारभूरुहः ।
सङ्कल्पोन्मुखतास्यान्तस् संविदो यत् किलात्मनः ॥
निर्विकल्पचितस् सत्ता सङ्कल्पाङ्ककलङ्किता ।
कलनेत्य् उच्यते नेह घटवद् विद्यते मनः ॥
प्राणशक्तौ निरुद्धायां मनो नाम विलीयते ।
द्रव्यस्थायां तु तद् द्रव्यं प्राणरूपं हि मानसम् ॥
देशान्तरानुभवनं प्राणो वेत्ति हृदि स्थितम् ।
स्पन्दवेदनतो यत् तन् मन इत्य् अभिधीयते ॥
वैराग्यात् करणाभ्यासाद् युक्तितो वासनाक्षयात् ।
परमार्थावबोधाच् च रोध्यन्ते प्राणशक्तयः ॥
दृषदो विद्यते शक्तिः कदाचित् स्वादने ऽन्धसाम् ।
न पुनर् मनसाम् अस्ति शक्तिस् स्पन्दावबोधने ॥
स्पन्दः प्राणमरुच्छक्तिश् चलरूपैव सा जडा ।
चिच् चितस् स्वात्मनस् स्वस्था सर्वदा सर्वगैव सा ॥
चिच्छक्तेस् स्पन्दशक्तेश् च सम्बन्धः कल्प्यते मनः ।
मिथ्यैव तत् समुत्पन्नं मिथ्याज्ञानं तद् उच्यते ॥
एषा ह्य् अविद्या कथिता मायैषा सा निगद्यते ।
परम् एतत् तद् अज्ञानं संसाराधिविषप्रदम् ॥
चिच्छक्तेस् स्पन्दशक्तेश् च सङ्गे सङ्कल्पकल्पनम् ।
न कृतं चेत् परिक्षीणास् तद् इमा भवभीतयः ॥
वायुतस् स्पन्दशक्तिर् या सा चिता चेत्यते यदा ।
सचेत्यचित् तदैवान्तस् सङ्कल्पाद् याति चित्तताम् ॥
चित्ततैषा चितो मिथ्या कल्पिता बालयक्षवत् ।
अखण्डमण्डलाकारा स्पन्दसत्ता चिद् एव यत् ॥
सर्वगत्वाच् चिद् अन्येन केन सम्बध्यते किल ।
अखण्डशक्तेर् इन्द्रस्य केन स्यात् सह सङ्गरः ॥
अतस् सम्बन्धिनो ऽभावात् सम्बन्धो ऽत्र न विद्यते ।
सम्बन्धेन विना कस्य सिद्धं तत् कीदृशं मनः ॥
चित्स्पन्दयोर् एकतायां किं नाम मन उच्यते ।
का सेना हयमातङ्गसङ्घसङ्घट्टनं विना ॥
तस्मान् नास्त्य् एव दुष्टात्म चित्तं नाम जगत्त्रये ।
एषा सम्यक्परिज्ञानाच् चेतसो जायते क्षतिः ॥
मा मुधैवम् अनर्थाय मनस् सङ्कल्पयानघ ।
मनो मिथ्या समुदितं नास्त्य् एव परमार्थतः ॥
मा त्वम् अन्तः क्वचित् किञ्चित् सङ्कल्पय महामते ।
मनस् सङ्कल्पकं नाम यस्मान् नास्तीह कुत्रचित् ॥
असम्यग्ज्ञानसम्भूता कलनामृगतृष्णिका ।
हृन्मरौ तव संशान्ता सम्यगालोकनान् मुने ॥
जडत्वान् निस्स्वरूपत्वात् सर्वदैव मृतं मनः ।
मृतेन मार्यते लोकश् चित्रेयं मौर्ख्यचक्रिका ॥
यस्य नात्मा न देहो ऽस्ति नाधारो नापि चाकरः ।
तेनेदं भक्ष्यते सर्वं चित्रेयं मौर्ख्यवागुरा ॥
सर्वसामग्र्यहीनेन हन्यते मनसापि यः ।
तस्योत्पलदलाघातैर् मन्ये दलति मस्तकम् ॥
जडेन मूकेनान्धेन निहतो मनसापि यः ।
मन्ये स दह्यते मूढः पूर्णचन्द्रमरीचिभिः ॥
विद्यमानो हि यश् शूरो लोकस् तेनाभिभूयते ।
अविद्यमानम् एवेदं हन्त्य् अतो मुग्धतोदिता ॥
मिथ्यासङ्कल्पकलितं मिथ्यैव स्थितिम् आगतम् ।
अन्विष्टम् अपि नो दृष्टं का तस्य किल शक्तता ॥
अहो नु खलु चित्रेयं मायामयविधायिनी ।
चेतसाप्य् अतिलोलेन लोको यद् अभिभूयते ॥
मौर्ख्यं सर्वापदां निष्ठा का हि नापद् अजानतः ।
पश्य मौर्ख्याद् इयं सृष्टिर् अजातेनैव जन्यते ॥
हा कष्टम् अतिमुग्धेयं सृष्टिर् मौर्ख्यवशं गता ।
असतैव यद् एतेन जीवेनाप्य् उपताप्यते ॥
मन्ये मूर्खमयी सृष्टिर् इयम् अत्यन्तपेलवा ।
तरङ्गासिप्रहारेण कणशः परिशीर्यते ॥
नीलाब्जनालपातेन यन्त्रेणेव विदीर्यते ।
इन्दोर् आभोगपूर्णस्य करस्पर्शेन मुह्यते ॥
रिपुभिर् नयनोन्मुक्तैर् दृष्टिसूत्रैर् निबध्यते ।
सङ्कल्पकृतया शूरसेनया परिभूयते ॥
यस्मात् किलेयं मनसा न स्थितेनैव कुत्रचित् ।
कल्पितेन मुधान्येन कृपणेन विहन्यते ॥
मूर्खलोकमयी सृष्टिर् मन एवासदुत्थितम् ।
या शक्ता न वशीकर्तुं न सा रामोपदिश्यते ॥
अभिजातस्वरूपैषा प्रज्ञाक्षोदेषु न क्षमा ।
नोपदेशगिरां योग्या परिपूर्णेव संस्थिता ॥
बिभेत्य् एषा हि वीणायास् तन्त्रीगुणतनुध्वनेः ।
बन्धोर् अपि सनिद्रस्य बिभेति वदनद्युतेः ॥
हसतो ऽपि जनाद् उच्चैर्भीतभीता पलायते ।
स्वेनैव मनसाप्य् अज्ञा किलैषा विवशीकृता ॥
सुखलवविवशा द्विषेव तप्ता हृदयगतेन निजेन चेतसैव ।
विधुरितधिषणा न वेत्ति सत्यं तद् अवितथं परिमोहिता मुधैव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0