मोक्षोपाय · अध्याय 5.12
एवं विचारयंस् तत्र स्वराज्ये जनको नृपः ।
चकाराखिलकार्याणि न मुमोह च धीरधीः ॥
न मनः प्रोल्ललासास्य क्वचिद् आनन्दवृत्तिषु ।
केवलं सुसमं स्वच्छं स सदैव व्यतिष्ठत ॥
ततः प्रभृत्य् असौ दृश्यं नाजहार न चात्यजत् ।
केवलं विगताशङ्कं वर्तमाने व्यवस्थितः ॥
अनारतविवेकेन तेन तन्मनसा ततः ।
पुनः कलङ्कं नैवात्तम् अम्बरेणेव राजसम् ॥
स्वविवेकानुसन्धानाद् इति तस्य महीपतेः ।
सम्यग्ज्ञानम् अनन्ताभं मनो निर्मलतां ययौ ॥
अनामृष्टविकल्पांशश् चिदात्मा विगतामयः ।
उदियाय हृदाकाशे तस्य व्योम्नीव भास्करः ॥
स ददर्शाखिलान् भावांश् चित्तन्तौ मणिवत् ततान् ।
आत्मभूतान् अनन्तात्मा सर्वभूतात्मकोविदः ॥
प्रहृष्टो न बभूवासौ कदाचिन् न च दुःखितः ।
प्रकृतव्यवहारित्वात् सदैव सममानसः ॥
जीवन्मुक्तो बभूवासौ ततः प्रभृति मानद ।
जनको जरढज्ञानो ज्ञातलोकपरावरः ॥
राज्यं कुर्वन् विदेहानां जनको जनजीवितम् ।
नैव हर्षविषादाभ्यां सो ऽवशः पर्यतप्यत ॥
नास्तम् एति न चोदेति गुणदोषविवर्जितः ।
अर्थानर्थैस् स्वराज्योत्थैर् न ग्लायति न हृष्यति ॥
कुर्वन्न् अपि करोत्य् एष न किञ्चिद् अपि कुत्रचित् ।
सन्तिष्ठत्य् एव सततं जीवन्मुक्तवपुर् यतः ॥
सुषुप्तावस्थितस्येव जनकस्य महीपतेः ।
भावनास् सर्वभावेभ्यस् सर्वथैवास्तम् आगताः ॥
भविष्यन् नानुसन्धत्ते नातीतं चिन्तयत्य् असौ ।
वर्तमानं निमेषं तु हसन्न् एवावतिष्ठते ॥
स्वविचारवशेनैव तेन तामरसेक्षण ।
प्राप्तं प्राप्यम् अशेषेण राम नेतरयेच्छया ॥
तावत् तावत् स्वकेनैव चेतसा प्रविचार्यते ।
यावद् यावद् विचाराणां सीमान्तस् समवाप्यते ॥
न तद् गुरोर् न शास्त्रार्थान् न पुण्यात् प्राप्यते पदम् ।
यत् सत्प्रसङ्गाद् उदितविचारविशदाद् धृदः ॥
स्निग्धया निजया ऋज्व्या प्रज्ञयैव वयस्यया ।
पदम् आसाद्यते राम न नाम क्रिययान्यया ॥
यस्य ज्वलति तीक्ष्णाग्रा पूर्वापरविचारिणी ।
प्रज्ञादीपशिखा जातु तम् आन्ध्यं नानुधावति ॥
दुरुत्तरा या विपदो दुःखकल्लोलसङ्कुलाः ।
तीर्यते प्रज्ञया ताभ्यो नावेवाद्भ्यो महामते ॥
प्रज्ञाविरहितं मूढम् आपद् अल्पैव बाधते ।
पेलवैवानिलकला सारहीनम् इवोलपम् ॥
प्रज्ञावान् असहायो ऽपि विशास्त्रो ऽपि विसज्जनः ।
उत्तरत्य् एव संसारसागराद् राम पोतवत् ॥
प्रज्ञावान् असहायो ऽपि कार्यान्तम् अधिगच्छति ।
दुष्प्रज्ञः कार्यम् आसाद्य प्रधानम् अपि नश्यति ॥
शास्त्रसज्जनसंसर्गैः प्रज्ञां पूर्वं विवर्धयेत् ।
सेकसंरक्षणारम्भैः फलप्राप्त्यै लताम् इव ॥
प्रज्ञाबलबृहन्मूलः काले सत्कार्यपादपः ।
फलं फलत्य् अतिस्वादु मासो बिम्बम् इवैन्दवम् ॥
य एव यत्नः क्रियते बाह्यार्थोपार्जने नरैः ।
स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवर्धने ॥
सीमान्तं सर्वदुःखानाम् आपदां कोशम् उत्तमम् ।
बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विवर्जयेत् ॥
यत् स्वर्गाद् यच् च पातालाद् यद् राज्यात् समवाप्यते ।
तत् समासाद्यते सर्वं प्रज्ञाकोशान् महामते ॥
प्रज्ञयोत्तीर्यते घोराद् अस्मात् संसारसागरात् ।
नाचारैर् न च वा तीर्थैस् तपसा च न राघव ॥
यत् प्राप्तास् सम्पदं दैवीम् अपि भूमिचरा नराः ।
प्रज्ञापुष्पलतायास् तत् फलं स्वादु समुत्थितम् ॥
प्रज्ञया नखरालूनवनवारणरक्तपाः ।
जम्बुकैर् विजितास् सिंहास् सिंहैर् हरिणका इव ॥
पामरैर् अपि भूपत्वं प्राप्तं प्रज्ञावशान् नरैः ।
स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते ॥
प्रज्ञया वादिनस् सर्वे स्वविकल्पविलासिनः ।
जयन्ति सुगतप्रख्या रवान् अब्धिरवा इव ॥
चिन्तामणिर् इयं प्रज्ञा हृत्कोशस्था विवेकिनः ।
फलं कल्पलतेवैषा चिन्तितं सम्प्रयच्छति ॥
भव्यस् तरति संसारं प्रज्ञया प्रोह्यते ऽधमः ।
शिक्षितः पारम् आप्नोति नावा नश्यत्य् अशिक्षितः ॥
धीस् सम्यग्योजिता पारम् असम्यग्योजितापदम् ।
नरं नयति संसारे वहन्ती नौर् इवार्णवे ॥
विवेकिनम् असम्मूढं प्राज्ञम् आशागणोत्थिताः ।
दोषा न परिबाधन्ते सन्नद्धम् इव सायकाः ॥
प्रज्ञयेदं जगत् सर्वं सम्यग् एवाङ्ग दृश्यते ।
सम्यग्दर्शिनम् आयान्ति नापदो न च सम्पदः ॥
पिधानं परमार्कस्य जडात्मा विततो ऽसितः ।
अहङ्काराम्बुदो मत्तः प्रज्ञावातेन पाट्यते ॥
पदम् अतुलम् उपैतुम् इच्छता स्वं प्रथमम् इयं मतिर् एव लालनीया ।
फलम् अभिपतता कृषीवलेन प्रथमतरं ननु कृष्यते धरैव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0