भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.11

5.11.1

इति सञ्चिन्त्य जनको यथाप्राप्तां क्रियाम् असौ ।
असक्तः कर्तुम् उत्तस्थौ दिनं दिनपतिर् यथा ॥

5.11.2

इष्टानिष्टाः परित्यज्य चेतसा वासनास् स्वयम् ।
यथाप्राप्तं चकारासौ जाग्रद् एव सुषुप्तवत् ॥

5.11.3

सम्पाद्य तद् अहःकार्यम् आर्यावर्जनपूर्वकम् ।
अनयच् छर्वरीम् एकस् तथैव ध्यानलीलया ॥

5.11.4

मनस् समरसं कृत्वा संशान्तविषयभ्रमम् ।
शर्वर्यां क्षीयमाणायाम् इत्थं चित्तम् अबोधयत् ॥

5.11.5

चित्त चञ्चलविस्तार आत्मनो न सुखाय ते ।
शमम् एहि शमात् तात सुखं सारम् अवाप्य ते ॥

5.11.6

यथा यथा विकल्पौघं सङ्कल्पयसि हेलया ।
तथा तथैति स्फारत्वं संसारस् तव चित्तक ॥

5.11.7

शतशाखत्वम् आयाति सेकेन विटपी यथा ।
अनन्ताधित्वम् आयासि शठ भोगेच्छया तथा ॥

5.11.8

चिन्ताजालविलासोत्था इमास् संसारसृष्टयः ।
तस्मात् त्यक्त्वा विचित्रां त्वं चिन्ताम् उपशमं व्रज ॥

5.11.9

संसारसृष्टिं तरलाम् इमां तुलय सुन्दर ।
अस्याश् चेत् सारम् आप्नोषि तद् एनाम् एव संश्रय ॥

5.11.10

आस्थाम् अस्मात् परित्यज्य दृश्याद् दर्शनलालस ।
मैतद् गृहाण मा मुञ्च शुद्धया विहरेच्छया ॥

5.11.11

इदं दृश्यम् असत् सद् वाप्य् उदेत्व् अस्तम् उपैतु वा ।
साधो विवशतां गच्छ मैतदीयैर् गुणागुणैः ॥

5.11.12

मनाग् अपि न सम्बन्धस् तव दृश्येन वस्तुना ।
अविद्यमानरूपेण सम्बन्धः किल कीदृशः ॥

5.11.13

असत् त्वम् एतच् च न सद् द्वयोर् एवासतोस् सतोः ।
सम्बन्ध इति चित्रेयम् अपूर्वैवाक्षरावली ॥

5.11.14

असद् एतद् भवत् सच् चेत् तथापि किल सुन्दर ।
सङ्गस् सदसतोः कीदृग् वद त्वं मृतजीवतोः ॥

5.11.15

चित्त त्वम् अथ दृश्यं च द्वे एव यदि सन्मये ।
सदा स्थिते तत् प्रसरः कुतो हर्षविषादयोः ॥

5.11.16

तस्मान् मा भव मूढं त्वं मा समुल्लासम् आहर ।
अक्षुब्धां बुद्धिम् आतिष्ठ भव्य त्यज भवस्थितिम् ॥

5.11.17

तिन्दुकालातवद् व्यर्थम् आत्मन्य् एव परिज्वलत् ।
मा मोहमलम् आसाद्य मन्दतां गच्छ दुर्मते ॥

5.11.18

न तद् इहास्ति समुन्नतम् उत्तमं व्रजसि येन परां परिपूर्णताम् ।
तद् अवलम्ब्य बलाद् अतिधीरतां जहिहि चञ्चलतां शठ रे मनः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc