मोक्षोपाय · अध्याय 4.44
धीरो विचारवाञ् जन्तुर् आदाव् एव महाधिया ।
शास्त्रार्थविदुषा ज्ञेन सुजनेन समं वसेत् ॥
या या दुःखविनाशिन्यो वरविज्ञानदृष्टयः ।
तास् ता मधाव् इव लता जायन्ते सुजने सति ॥
सुजनेन विरक्तेन हृद्येन महता सह ।
प्रविचार्य महाबाहो पदम् आसाद्यते परम् ॥
शास्त्रार्थसुजनासङ्गवैराग्याभ्याससत्कृतः ।
पुरुषस् त्वम् इवाभाति राम विज्ञानभाजनम् ॥
त्वं तूदारनिजाचारो धीरो गुणगणार्णवः ।
अधितिष्ठसि निर्दुःखां जातिं राजससात्त्विकीम् ॥
भूयो ऽस्मिन् दग्धसंसारे नासि दुःखस्य भाजनम् ।
पाश्चात्यजन्मासि मुने स्वभावम् अनुधावसि ॥
स्वयैवामलया दृष्ट्या तव प्रकटतां गतम् ।
यथाभूतं जगद्वस्तु रुचा दिनपतेर् इव ॥
इदानीं मद्वचोराशिवह्निदग्धमलो ऽमलः ।
नूनम् उत्सारिताभ्रेण शरद्व्योम्ना समो भव ॥
भवभावनया मुक्तं युक्तम् उत्तमसंविदा ।
चित्तमुक्ताकलापं त्वम् अच्छाच्छं हृदये कुरु ॥
ममेदम् इदम् अन्यस्येत्य् एवंकलनयोज्झितम् ।
मनो मुक्तविभागं ते मुक्तम् एव न संशयः ॥
तवोत्तमानुभावस्य य इदानीं नरा भुवि ।
चेष्टाम् अनुसरिष्यन्ति ते ऽपि यास्यन्त्य् अशोकताम् ॥
राघवव्यवहारेण विहरिष्यन्ति ये नराः ।
भवार्णवात् तरिष्यन्ति स्वमनःपोतकेन ते ॥
भवत्तुल्यमतिर् यस् स्यात् सुजनस् समदर्शनः ।
योग्यो ऽसौ ज्ञानदृष्टीनां पूर्णेन्दुस् सुरुचाम् इव ॥
त्वम् अशोकां दशां प्राप्तो यथाप्राप्तानुवृत्तिमान् ।
यावद्देहं धिया तिष्ठ रागद्वेषविहीनया ॥
बहिर् लोकोचिताचारस् त्व् अन्तस् त्यक्ताखिलैषणः ।
परां शीतलताम् एत्य तिष्ठ पूर्णेन्दुबिम्बवत् ॥
इतरासु तु ये जाता जातिष्व् अगुणशालिनः ।
अविचार्यास् त एते हि गोमायुशिशुधर्मकाः ॥
ये स्वभावा महाबाहो नृणां सात्त्विकजन्मनाम् ।
तान् भजन् पुरुषो याति पाश्चात्योदारजन्मताम् ॥
यान् एव सेवते जन्तुर् इह जातिगुणान् सदा ।
अप्य् अन्यजातिजातो ऽपि याति तज्जातितां क्षणात् ॥
प्राक्तना अखिला भावा जातिकर्मवशानुगाः ।
पौरुषेणावजीयन्ते धीरैर् धीरा इवारयः ॥
प्राक्तनाशुभजातिस्थकर्मदोषाकुलाम् अपि ।
धैर्येणाभ्युद्धरेद् बुद्धिं पङ्कान् मुग्धमृगीम् इव ॥
तामसीं राजसीं चैव जातिम् अन्याम् अपि श्रिताः ।
स्वविवेकवशाद् यान्ति सन्तस् सात्त्विकजातिताम् ॥
अन्तश् चित्तमणौ स्वच्छे यद् राघव नियोज्यते ।
तन्मयो हि भवत्य् एष तस्माज् जयति पौरुषम् ॥
पौरुषेण प्रयत्नेन महार्हगुणशालिना ।
मुमुक्षवो भवन्तीह पाश्चात्यशुभजातयः ॥
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
पौरुषेण प्रयत्नेन यन् नाप्नोति गुणान्वितः ॥
त्वम् अजर्येण धैर्येण वरवैराग्यरंहसा ।
युक्तः प्रज्ञाप्ररूढेन किं नाप्नोषि तदीहितम् ॥
हितं महासत्त्वतयात्मनस् त्वं विधाय बुद्ध्या भव वीतशोकः ।
भवत्क्रमेणैव ततो जनो ऽयम् उर्व्यां भविष्यत्य् अतिवीतशोकः ॥
पाश्चात्यजन्मनि विवेकमहामहिम्ना युक्ते त्वयि प्रसृतसत्त्वगुणाभिरामे ।
सत्त्वस्थकर्मणि पदं ननु राम रामे मैषा करोतु भवबन्धविमोहचिन्ता ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0