भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.5

4.5.1

स उत्तमपदालम्बी चक्रभ्रमवद् आस्थितः ।
शरीरनगरीराज्यं कुर्वन्न् अपि न लिप्यते ॥

4.5.2

तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा ।
सुखायैव न दुःखाय स्वशरीरमहापुरी ॥

4.5.3

नगरीत्वं शरीरस्य कथं नाम महामुने ।
एनां चाधिवसन् योगी कथं राज्यसुखैकभाक् ॥

4.5.4

रम्येयं देहनगरी राम सर्वगुणान्विता ।
ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता ॥

4.5.5

नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा ।
करप्रतोलीविस्तारप्राप्तपादोपजङ्गला ॥

4.5.6

रोमराजिलतागुल्मा त्वगट्टालकमालिता ।
गुल्फगुल्गुलुविश्रान्तजङ्घोरुस्तम्भमण्डला ॥

4.5.7

रेखाविभक्तपादोग्रशिलाप्रथमनिर्मिता ।
चर्ममर्मसिरासारसन्धिसीमामनोरमा ॥

4.5.8

ऊरुद्वयकवाटाग्रनिर्मितोपस्थनिर्गमा ।
कचत्कचावलीकाचदलप्रच्छादनावृता ॥

4.5.9

भ्रूललाटास्यसच्छायवदनोद्यानशोभिता ।
दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थला ॥

4.5.10

वक्षस्स्थलसरस्स्यूतकुचपङ्कजकोरका ।
घनरोमावलिच्छन्नस्कन्धक्रीडाशिलोच्चया ॥

4.5.11

उदरश्वभ्रनिक्षिप्तस्वन्नेष्टभक्षकर्परा ।
दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता ॥

4.5.12

हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता ।
अनारतं नवद्वारप्रवहत्प्राणनागरा ॥

4.5.13

आस्यस्फारखदादृष्टदन्तास्थिशकलाकुला ।
मुखस्खदाभ्रमज्जिह्वाचिल्लाचर्वितभोजना ॥

4.5.14

रोमशष्पभरच्छन्नकर्णकोटरकूपका ।
स्फिक्कृङ्खलाञ्चितोपान्तपृष्ठविस्तीर्णजङ्गला ॥

4.5.15

गुदोच्छिन्नारघट्टान्तरुद्धृतानन्तकर्दमा ।
चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना ॥

4.5.16

धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा ।
वदनोद्यानहसनपुष्पोद्गममनोरमा ॥

4.5.17

स्वशरीरपुरी ज्ञस्य सर्वसौभाग्यसुन्दरी ।
सुखायैव न दुःखाय परमाय हिताय च ॥

4.5.18

अज्ञस्येयम् अनन्तानां दुःखानां कोशपालिका ।
ज्ञस्य त्व् इयम् अनन्तानां सुखानां कोशपालिका ॥

4.5.19

न किञ्चिद् अस्यां नष्टायां ज्ञस्य नष्टम् अरिन्दम ।
स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा ॥

4.5.20

यद् एनां ज्ञस् समारुह्य संसारे विहरत्य् अलम् ।
अशेषभोगमोक्षार्थं तेनेयं ज्ञरथस् स्मृतः ॥

4.5.21

शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः ।
अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा ॥

4.5.22

सुखदुःखक्रियाजालं यदैषोद्वहति स्वयम् ।
तदैषा राम सर्वत्र सर्ववस्तुभरक्षमा ॥

4.5.23

तस्यां शरीरपुर्यां हि राज्यं कुर्वन् गतभ्रमः ।
ज्ञस् तिष्ठति गतव्यग्रं स्वपुर्याम् इव वासवः ॥

4.5.24

न क्षिपत्य् अवटाटोपे मनोमत्ततुरङ्गमम् ।
न लोभद्वन्द्वरूपाय प्रज्ञापुत्रीं प्रयच्छति ॥

4.5.25

अज्ञानपरराष्ट्रं च न रन्ध्रं त्व् अस्य पश्यति ।
संसारारिभयस्यान्तर् मूलान्य् एष निकृन्तति ॥

4.5.26

तृष्णासारपरावर्ते कामसङ्क्षोभदुर्ग्रहे ।
न निमज्जति पर्यस्तसुखदुःखाक्षदेवने ॥

4.5.27

करोत्य् अविरतं स्नानं बहिर् अन्तर् अपि क्षणात् ।
सरित्सङ्गमतीर्थेषु मनोरथगतिः क्रमात् ॥

4.5.28

सकलाक्षिजनादृश्यः पुरप्रेक्षापराङ्मुखः ।
ध्याननाम्नि सुखं नित्यं तिष्ठत्य् अन्तःपुरान्तरे ॥

4.5.29

सुखावहैषा नगरी नित्यं प्रमुदितात्मनः ।
भोगमोक्षप्रदा दिव्या शक्रस्येवामरावती ॥

4.5.30

स्थितया संस्थितं सर्वं किञ्चिन् नष्टं न नष्टया ।
यया पुर्या महीपस्य सा कथं न सुखावहा ॥

4.5.31

विनष्टे देहनगरे ज्ञस्य नष्टं न किञ्चन ।
आक्रान्तकुम्भकोशस्य खस्य कुम्भक्षये यथा ॥

4.5.32

विद्यमानं घटं वायुः किल स्पृशति नास्थितम् ।
यथा तथैव देही स्वां शरीरनगरीम् इमाम् ॥

4.5.33

अत्रस्थ एष भगवान् आत्मा सर्वगतो ऽपि सन् ।
स्वविकल्पकृतां भुक्त्वा पुंस्ताम् अधिगतात्मदृक् ॥

4.5.34

कुर्वन्न् अपि न कुर्वाणस् सम्यक्सर्वक्रियोन्मुखः ।
कदाचित् प्रकृतान् सर्वान् कार्यार्थान् अधितिष्ठति ॥

4.5.35

कदाचिल् लीलया लोलं विमानम् अधिरोहति ।
अनाहतगतिं कान्तं विहर्तुम् अमलं मनः ॥

4.5.36

तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया ।
रमते रामया मैत्र्या नित्यं हृदयसंस्थया ॥

4.5.37

द्वे कान्ते तिष्ठतस् तस्य पार्श्वयोस् सत्यतैकते ।
इन्दोर् इव विशाखे द्वे समाह्लादितचेतसे ॥

4.5.38

ज्ञ इमान् अखिलांल् लोकान् दुःखक्रकचदारितान् ।
वाल्मीकान् इव पीठस्थः पृष्ठाद् अर्क इवेक्षते ॥

4.5.39

चिरं पूरितसर्वाशस् सर्वसम्पत्तिसुन्दरः ।
अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते ॥

4.5.40

सेव्यमानो ऽपि भोगौघो न खेदायास्य जायते ।
कालकूटः किलेशस्य कण्ठे प्रत्युत राजते ॥

4.5.41

परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये ।
विज्ञायाश्वासितो मैत्रीम् एति चौरो न शत्रुताम् ॥

4.5.42

नरनारीनटौघानां कलहे दूरगामिना ।
ज्ञेन यात्रेव सुभगा भोगश्रीर् अवलोक्यते ॥

4.5.43

अशङ्कितोपसम्प्राप्ता ग्रामयात्रा यथाध्वगैः ।
प्रेक्ष्यते तद्वद् एव ज्ञैर् व्यवहारमयी क्रिया ॥

4.5.44

अयत्नोपनतेष्व् अक्षि दिग्द्रव्येषु यथा पुरः ।
नीरागम् एव पतति तद्वत् कार्येषु धीरधीः ॥

4.5.45

इन्द्रियाणां न हरति प्राप्तम् अर्थं कदाचन ।
न ददाति तथा प्राप्तं सम्पूर्णो ज्ञो ऽवतिष्ठते ॥

4.5.46

अप्राप्तचिन्तास् सम्प्राप्तसमुपेक्षाश् च सन्मतिम् ।
नाकम्पयन्ति तरलाः पिञ्छघाता इवाचलम् ॥

4.5.47

संशान्तसर्वसन्देहो गलिताखिलकौतुकः ।
सङ्क्षीणवासनाजालो ज्ञस् सम्राड् इव शोभते ॥

4.5.48

आत्मन्य् एव न मात्य् अन्तस् स्वात्मनात्मनि जृम्भते ।
सम्पूर्णापारपर्यन्तः क्षीरार्णव इवात्मवान् ॥

4.5.49

भोगेच्छाकृपणाञ् जन्तून् दीनान् दीनेन्द्रियाणि च ।
अनुन्मत्तमनाश् शान्तो हसत्य् उन्मत्तकान् इव ॥

4.5.50

इच्छतो ऽन्यनिजां जायां यथैवान्येन हस्यते ।
इन्द्रियस्येच्छतो भोगं तथैव ज्ञेन हस्यते ॥

4.5.51

त्यजन्तं सुसुखं साम्यं मनो विषयविद्रुतम् ।
अङ्कुशेनेव नागेन्द्रं विचारेण शमं नयेत् ॥

4.5.52

भोगेषु प्रसरो यस्या मनोवृत्तेः प्रदीयते ।
साप्य् आदाव् एव हन्तव्या विषस्येवाङ्कुरोद्गतिः ॥

4.5.53

ताडितस्य हि यः पश्चात् सम्मानस् सो ऽप्य् अनन्तकः ।
शालेर् ग्रीष्मोपतप्तस्य कुसेको ऽप्य् अमृतायते ॥

4.5.54

अनार्तेन हि सम्मानो बहुमानो न बुध्यते ।
पूर्णानां सरितां प्रावृट्पूरस् स्वल्पं विराजते ॥

4.5.55

पूर्णस् तूपकृतो ऽप्य् अन्यत् पुनर् अप्य् अभिवाञ्छति ।
जगत्पूरणयाप्य् अम्बु गृह्णात्य् एकार्णवो ऽखिलम् ॥

4.5.56

मनसो निगृहीतस्य या पश्चाद् भागमण्डना ।
ताम् एवालब्धविस्तारलब्धत्वाद् बहु मन्यते ॥

4.5.57

बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति ।
परैर् अबद्धो नाक्रान्तो न राज्यं बहु मन्यते ॥

4.5.58

हस्तं हस्तेन सम्पीड्य दन्तैर् दन्तान् विचूर्ण्य च ।
अङ्गान्य् अङ्गैर् इवाक्रम्य जय स्वेन्द्रियशात्रवान् ॥

4.5.59

जेतुम् अन्यं कृतोत्साहैः पुरुषैर् उद्बुभूषुभिः ।
पूर्वं हृदयशत्रुत्वाज् जेतव्यानीन्द्रियाण्य् अलम् ॥

4.5.60

एतावति धरणितले सुभगास् ते साधुचेतनाः पुरुषाः ।
पुरुषकथासु च गण्या न जिता ये चेतसा स्वेन ॥

4.5.61

हृदयबिले कृतकुण्डल उल्बणकलनाविषो मनोभुजगः ।
यस्योपशान्तिम् आगत उदितं तम् अरिन्दमं वन्दे ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc