मोक्षोपाय · अध्याय 4.4
जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ।
मननं त्यजतो ज्ञत्वात् किञ्चित् परिगतात्मनः ॥
दृश्यं सन्त्यजतो हेयम् उपादेयम् उपेयुषः ।
द्रष्टारं पश्यतो दृश्यम् अद्रष्टारम् अपश्यतः ॥
असुप्तस्य परे तत्त्वे जागरूकस्य जीवतः ।
सुप्तस्य घनसम्मोहमये संसारवर्त्मनि ॥
पर्यन्तात्यन्तवैरस्याद् अरसस्य रसेष्व् अपि ।
भोगेष्व् आभोगरम्येषु नीरसस्य निराशिषः ॥
व्रजत्य् आत्माम्भसैकत्वं जीर्णजाड्ये मनस्य् अलम् ।
गलत्य् अपगतासङ्गे हिमापूर इवातपे ॥
तरङ्गितासु कल्लोलजाललोलान्तरासु च ।
शाम्यन्तीष्व् अथ तृष्णासु नदीष्व् इव घनात्यये ॥
संसारवासनाजाले खगजाल इवाखुना ।
त्रोटिते चादृढग्रन्थिश्लथे वैरस्यरंहसा ॥
कतकं फलम् आसाद्य यथा वारि प्रसीदति ।
तथा विज्ञानवशतस् स्वभावस् सम्प्रसीदति ॥
नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।
विनिर्याति मनो मोहाद् विहगः पञ्जराद् इव ॥
शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् ।
परिपूर्णान्तरं चेतः पूर्णेन्दुर् इव राजते ॥
जनितोत्तमसौन्दर्या दूरोदस्तनतोन्नता ।
समतोदेति सर्वत्र शान्तवात इवार्णवे ॥
अन्धकारमयी मूढा जाड्यजर्जरितान्तरा ।
तनुताम् एति संसारवासनेव प्रगे क्षपा ॥
दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा ।
विकसत्य् अमलोद्द्योता प्रातर् द्यौर् इव रूपिणी ॥
प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः ।
सत्त्वलक्ष्म्यः प्रवर्तन्ते सकलेन्दोर् इवांशवः ॥
बहुनात्र किम् उक्तेन ज्ञातज्ञेयो महामतिः ।
नोदेति नैव यात्य् अस्तम् अभूताकाशकोशवत् ॥
विचारणापरिज्ञातस्वभावस्योदितात्मनः ।
अनुकम्प्या भवन्त्य् एते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥
प्रकटाकारम् अप्य् अन्तर् निरहङ्कारचेतसम् ।
नाप्नुवन्ति विकल्पास् तं मृगतृष्णाम्ब्व् इवैणकाः ॥
तरङ्गवद् अमी लोकाः प्रयान्त्य् आयान्ति चाभितः ।
क्रोडीकुरुत आत्मोत्थे न ज्ञं मरणजन्मनी ॥
आविर्भावतिरोभावौ संसारो नेतरः क्रमः ।
इति ताभ्यां समालोके रमते न स खिद्यते ॥
न जायते न म्रियते कुम्भे कुम्भनभो यथा ।
भूषिते दूषिते वापि देहे तद्वद् इहात्मवान् ॥
विवेक उदिते शीते मिथ्याभ्रमभरोदिता ।
क्षीयते वासना साभ्रे मृगतृष्णा मराव् इव ॥
को ऽहं कथम् इदं वेति यावन् न प्रविचारितम् ।
संसाराडम्बरं तावद् अन्धकारोपमं स्थितम् ॥
मिथ्याभ्रमभरोद्भूतं शरीरं पदम् आपदाम् ।
आत्मभावनया नेदं यः पश्यति स पश्यति ॥
देशकालवशोत्थानि न ममेति गतभ्रमम् ।
शरीरसुखदुःखानि यः पश्यति स पश्यति ॥
आत्मानम् इतरच् चैव दृशा नित्याविभिन्नया ।
सर्वं चिज्ज्योतिर् एवेति यः पश्यति स पश्यति ॥
अपारपर्यन्तनभो दिक्कालादिक्रियान्वितम् ।
अहम् एवेति सर्वत्र यः पश्यति स पश्यति ॥
वालाग्रलक्षभागात् तु कोटिशः परिकल्पितः ।
अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति ॥
सर्वशक्तिर् अनन्तात्मा सर्वभावान्तरस्थितः ।
अद्वितीयश् चिद् इत्य् अन्तर् यः पश्यति स पश्यति ॥
आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् ।
देहो ऽहम् इति न प्राज्ञो यः पश्यति स पश्यति ॥
तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा मम ।
न द्वितीयो ममास्तीति यः पश्यति स पश्यति ॥
मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ।
चित्तन्तुर् अहम् एवेति यः पश्यति स पश्यति ॥
नाहं न चान्यद् अस्तीह ब्रह्मैवास्ति न चास्ति तत् ।
इत्थं सदसतोर् मध्यं यः पश्यति स पश्यति ॥
यन् नाम किञ्चित् त्रैलोक्ये स एको ऽवयवो मम ।
तरङ्गो ऽब्धाव् इवेत्य् अन्तर् यः पश्यति स पश्यति ॥
आत्मतापरते त्वत्तामत्ते यस्य महात्मनः ।
भावाद् उपरते स्यातां स पश्यति सुलोचनः ॥
शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी ।
त्रिलोकी पेलवेत्य् उच्चैर् यः पश्यति स पश्यति ॥
चेत्यानुपातरहितं चिद्भैरवमयं वपुः ।
आपूरितजगज्जालं यः पश्यति स पश्यति ॥
सुखं दुःखं भवो ऽभावो ऽविवेककलनाश् च याः ।
अहं न वेति वा नूनं पश्यन् न परिहीयते ॥
स्वात्मसत्तापरापूर्णे जगत्य् अन्येन वर्जिते ।
किं मे हेयं किम् आदेयम् इति पश्यन् सदृङ् नरः ॥
अप्रतर्क्यम् अनाभासं सन्मात्रम् इदम् इत्य् अलम् ।
हेयोपादेयकलना यस्य क्षीणा नमामि तम् ॥
य आकाशवद् एकात्मा सर्वभावगतो ऽपि सन् ।
न भावरञ्जनाम् एति स महात्मा महेश्वरः ॥
तमःप्रकाशकलनामुक्तः कालात्मतां गतः ।
यस् सोम्यस् सुसमस् स्वस्थस् तं नौमि पदम् आगतम् ॥
यस्योदयास्तमयसङ्कलनाकलासु चित्रासु चारुविभवासु जगद्गतासु ।
वृत्तिस् समैव सकलैकगतेर् अनन्ता तस्मै नमः परमबोधवते शिवाय ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0