भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.6

4.6.1

महानरकसंराजो मत्तदुष्कृतवारणाः ।
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ॥

4.6.2

स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये ।
ते कुकार्यमहाकोशा दुर्जयास् स्वेन्द्रियारयः ॥

4.6.3

कलेवराश्रयं प्राप्य विषयामिषगर्धतः ।
अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः ॥

4.6.4

विवेकतन्तुजालेन गृहीता येन ते शठाः ।
तस्याङ्गानि न लुम्पन्ति पाषाणकवलं यथा ॥

4.6.5

आपातरमणीयेषु रमन्ति विषयेषु ये ।
अत्यन्तविरसान्तेषु पतन्ति नरकेषु ते ॥

4.6.6

विवेकधनवान् अस्मिन् कुकलेवरपत्तने ।
इन्द्रियारिभिर् अन्तस्स्थैर् अवशो नाभिभूयते ॥

4.6.7

तथा न सुखिता भूपा मृण्मयोग्रपुरीजुषः ।
यथा स्वाधीनमनसस् स्वशरीरपुरीश्वराः ॥

4.6.8

स्वाक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः ।
वसन्त इव मञ्जर्यो वर्धन्ते बुद्धबुद्धयः ॥

4.6.9

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥

4.6.10

तावन् निशीव वेताल्यो वल्गन्ते हृदि वासनाः ।
एकतत्त्वदृढाभ्यासाद् यावन् न विजितं मनः ॥

4.6.11

भृत्यो ऽभिमतकर्तृत्वान् मन्त्री सत्कार्यकारणात् ।
सामन्तस् स्वेन्द्रियाक्रान्तेर् मनो मन्ये विवेकिनः ॥

4.6.12

लालनात् स्निग्धललना पालनात् पावनः पिता ।
सुहृद् उत्तमविश्वासान् मनो मन्ये मनीषिणाम् ॥

4.6.13

स्वालोकितं शास्त्रदृशा सुध्यातं स्वनुनाथितम् ।
प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ॥

4.6.14

सुघृष्टस् सुपरामृष्टस् सुधृतस् स्वनुबोधितः ।
सुगुणायोजितो भाति हृदि हृद्यो मनोमणिः ॥

4.6.15

जन्मवृक्षकुठाराणि तथोदर्कोदयानि च ।
दिशत्य् एष मनोमन्त्री कर्माणि शुभकर्मणः ॥

4.6.16

एवं मनोमणिं राम बहुपङ्ककलङ्कितम् ।
विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान् भव ॥

4.6.17

भवभूमिषु भीमासु विवेकविततो ऽपि सन् ।
मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा ॥

4.6.18

संसारमायाम् उदिताम् अनर्थशतसङ्कुलाम् ।
मा महामोहमिहिकाम् इमां त्वम् अवधीरय ॥

4.6.19

विवेकं परम् आश्रित्य बुद्ध्या सत्यम् अवेक्ष्य च ।
इन्द्रियारीन् अलं जित्वा तीर्णो भव भवार्णवात् ॥

4.6.20

असत्य् एव शरीरे ऽस्मिन् सुखदुःखेष्व् असत्सु च ।
दामव्यालकटन्यायो मा ते भवतु राघव ॥

4.6.21

अयम् अहम् इति निश्चयो वृथा यस् तम् अलम् अपास्य महामते सुबुद्ध्या ।
यद् इतरद् अवलम्ब्य तत् पदं त्वं व्रज पिब भुङ्क्ष्व न बध्यसे ऽमनस्कः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc