मोक्षोपाय · अध्याय 4.42
अस्मिन् भगवति ब्रह्मण्य् अमलं पदम् आस्थिते ।
पितामहे महाबाहो कृतसर्गव्यवस्थितौ ॥
जगज्जीर्णारघट्टे ऽस्मिन् वहति स्वव्यवस्थया ।
विप्रोतभूतघटया रज्ज्वा जीविततृष्णया ॥
ब्रह्मोत्थेषु च जीवेषु विशत्सु भवपञ्जरम् ।
वासनालूनशीर्णेषु पयोराशिं पयस्स्व् इव ॥
आगतेष्व् ईश्वराद् व्योमवातमध्यविवर्तिषु ।
मनस्स्व् अन्येषु वातान्ताल् लोलालातात् कणेष्व् इव ॥
अनारतं विनिर्यान्ति विशन्त्य् अन्ये तथाभितः ।
राम ब्रह्मणि जीवौघास् तरङ्गा इव वारिधौ ॥
अनाद्यन्तपदोत्पन्नाः कलनापदम् आगताः ।
भूताकाशं विशन्त्य् अन्ये धूमश्रिय इवाम्बुदम् ॥
एकतां तत्र गच्छन्ति भूततन्मात्रमण्डलैः ।
मन्दारकुसुमामोदा यथा मधुरमारुतैः ॥
ते तु तन्मात्रवातेन तत्प्राणत्वम् उपेयुषा ।
आक्रम्यन्ते प्रचण्डेन दैत्यौघेनामरा इव ॥
भूतप्राणानिलोत्थेन तेन गन्धवहेन ते ।
निवेश्यन्ते शरीरेषु गन्धा घ्राणव्रणेष्व् इव ॥
तेषु भूतशरीरेषु जीवा गच्छन्ति वीर्यताम् ।
ततो जगति जायन्ते भवन्ति प्राणिनस् स्फुटाः ॥
अन्ये धूमादिमार्गेण गर्भताम् एत्य देहिनाम् ।
प्राणिताम् उपगच्छन्ति चिरं स्थावरतां च वा ॥
केचित् पवनमार्गेण शालिकोटरशायिनः ।
वीर्यताम् एत्य जायन्ते विविधाः प्राणधर्मिणः ॥
काचिद् उत्पन्नमात्रैव राम जीवपरम्परा ।
तन्मात्रवलिता तावत् तिष्ठत्य् अम्बरकोटरे ॥
उदेति यावद् भगवान् इन्दुर् उद्दाममण्डलः ।
क्षीराम्बुभिर् इवालोलैः प्लावयन् रश्मिभिर् जगत् ॥
ततस् तेष्व् अतिरम्येषु चन्द्ररश्मिषु सा पदम् ।
करोति विहगी लोला वृक्षाद् वृक्षान्तरेष्व् इव ॥
तेभ्यो ऽपि चन्द्ररश्मिभ्यो विशत्य् ओषधिपल्लवान् ।
नवं कुमुदिनीषण्डं पद्मिनीभ्य इवालिनी ॥
तयौषधिफलान्य् अन्तस् स्वादवन्ति भवन्त्य् अलम् ।
इक्षुनाल्यो रसेनेव यान्ति पीवरताम् अपि ॥
फलेषु तेषु बध्नाति पदम् इन्दुकरच्युता ।
जीवाली क्षीरपूर्णेषु मातृस्तनभरेष्व् इव ॥
ताः फलावलयः पक्वा भक्ष्यन्ते यैश् शरीरिभिः ।
तेष्व् एव वीर्यम् आगत्य तिष्ठन्त्य् अप्रविबोधिताः ॥
प्रसुप्तवासनाजाला जीवश्रीर् गर्भपञ्जरम् ।
अधितिष्ठति बीजश्रीस् सुप्तपत्त्रा यथा घटम् ॥
यथा काष्ठे स्थितो वह्निर् यथा मृदि घटस् स्थितः ।
यथा क्षीरे स्थितं सर्पिर् वीर्ये जीवस् तथा स्थितः ॥
अनेन क्रमयोगेन परागत्य महेश्वरात् ।
अदृष्टान्यशरीरश्रीर् जायते यो नरो भुवि ॥
स हि सात्त्विकजातिस् स्याद् उदारव्यवहारवान् ।
तेनैव मोक्षभागी चेज् जन्मना तत् स सात्त्विकः ॥
अथेत्थं योनिम् आसाद्य भुक्त्वा जन्मपरम्पराम् ।
मोक्षार्थं प्राप्तजन्मा चेत् तत् स राजससात्त्विकः ॥
पाश्चात्यजन्मनः पुंसः क्रमं वक्ष्यामि ते ऽधुना ।
राम राजससत्त्वस्य मोक्षम् आयात्य् असौ यथा ॥
प्राथम्येन य आयातस् संसारम् अतिसात्त्विकः ।
स कदाचित् क्वचित् कश्चित् सम्भवत्य् अनघाकृते ॥
सम्भवन्तीह पुरुषा राम राजससात्त्विकाः ।
प्रविचार्यास् त एवातो गन्तव्यं चेह तद्दृशा ॥
प्राथम्येन समायाता ये पदात् परमात्मनः ।
दुर्लभाः पुरुषा राम ते महागुणशालिनः ॥
ये चान्ये विविधा मूका मूढास् तामसजातयः ।
तेषां स्थावरतुल्यानां किं तद् राम विचार्यते ॥
कतिपयाधिगतात्मभवान्तरः प्रकृतजन्मनि लभ्यमहापदः ।
अयम् इह प्रविचारणयोग्यताम् अनुगतो ननु राजससात्त्विकः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0