भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.41

4.41.1

अन्नपानाङ्गनासङ्गाद् ऋते नास्तीह किञ्चन ।
शुभं वस्त्व् अविसंवादि महान् किम् अभिवाञ्छतु ॥

4.41.2

तिर्यञ्चः पशवो मूढा येन तुष्यन्त्य् असाधवः ।
भोगादिना कथं तेन रतिम् आयान्ति साधवः ॥

4.41.3

भोगैः कृपणसर्वस्वैर् आदिमध्यान्तपेलवैः ।
विश्वासं यान्ति ये लोके तैर् अलं नरगर्दभैः ॥

4.41.4

इतः केशा इतो रक्तम् इतीयं प्रमदातनुः ।
एतया तोषम् आयान्ति सारमेया न मानवाः ॥

4.41.5

मृन् मही दारु तरवो देहो मांसं दृषद् गिरिः ।
अधो भूर् अम्बरं पृष्ठे किम् अपूर्वं सुखाय यत् ॥

4.41.6

मात्रास्पर्शानुसारिण्यो विवेकपदभङ्गुराः ।
मोहायैव परामृष्टास् सकला लोकसंविदः ॥

4.41.7

सर्वस्या एव पर्यन्ते शुभाया अपि संस्थितेः ।
मलिनं दुःखम् अस्त्य् एव ज्वालाया इव कज्जलम् ॥

4.41.8

आगमापायतो ऽनित्या मनष्षष्ठेन्द्रियक्रियाः ।
लता नागेन्द्रम् इव ता धारयन्ति न सत्पदम् ॥

4.41.9

पुत्रिका रक्तमांसस्य कान्तेयम् इति सादरम् ।
स्वदेहनाम्न्य् अस्थिचये श्लिष्यते सेति कः क्रमः ॥

4.41.10

सर्वं सत्यम् इदम् राम स्थिरम् अज्ञस्य तुष्टये ।
ज्ञस्यास्थिरम् असत्यं च जगद् राम न तुष्टये ॥

4.41.11

अभुक्ते ऽपि विषे यैषा विषमूर्छां प्रयच्छति ।
तां परित्यज्य भावास्थाम् आत्मैकत्वाज् ज्ञतां व्रज ॥

4.41.12

अनात्मन्य् आत्मभावेन चित्तं स्थितिम् उपागतम् ।
यदा तदेदम् आयातं जगज्जालम् असन्मयम् ॥

4.41.13

वासनावशतो ब्रह्ममनसा कल्पितं वपुः ।
तेजसाश्रितकुड्येन हेमाभत्वम् इवात्मनः ॥

4.41.14

वैरिञ्चपदम् आसाद्य मनो ब्रह्मन् महामते ।
इदं जगत् सुघनतां कथम् आनयति क्रमात् ॥

4.41.15

गर्भतल्पात् समुत्थाय पद्मजः प्रथमं शिशुः ।
ब्रह्मेति शब्दम् अकरोद् ब्रह्मा तेन स उच्यते ॥

4.41.16

सङ्कल्पजालरूपस्य मनसः कल्पिताकृतेः ।
अकरोत् तस्य सङ्कल्पलक्ष्मीः पदम् अथान्तरे ॥

4.41.17

ततस् सङ्कल्पयाम् आस पूर्वं तेजो महाप्रभम् ।
लसदग्निलताचक्रवक्रीकृतदिगन्तरम् ॥

4.41.18

ऋक्षप्रतिमनिष्ठ्यूतकर्कशाग्निकणोत्करम् ।
मुञ्जपिञ्जरपर्यन्तहेमकाननिताम्बरम् ॥

4.41.19

ज्वालाहेमलताजालजटालनिजमण्डलम् ।
कचत्प्रसरदुद्दामकरकुण्डलमण्डितम् ॥

4.41.20

तच्छरीरि मनस् तस्मिंस् ततस् तेजसि भास्वरे ।
आत्माकारसमाकारं भास्करं समकल्पयत् ॥

4.41.21

स ततस् तेजसस् तस्माद् अभ्युदेति दिवाकरः ।
ज्वालामण्डलमध्यस्थो ज्वलत्कनककुण्डलः ॥

4.41.22

ज्वालाजटाभारधरो वान्तविस्फारपावकः ।
ज्वालाविलासावयवः पूरिताकाशमण्डलः ॥

4.41.23

अथ ब्रह्मा महाबुद्धिर् अन्यांस् तांस् तेजसः कणान् ।
अकस्मात् प्रतिभातेन विमानत्वेन चारुणा ॥

4.41.24

क्षणात् सङ्कल्पयाम् आस ददर्श च तथैव तान् ।
सङ्कल्पान् अन्तरं जातान् विद्वाञ् शब्दगणान् इव ॥

4.41.25

स्थितिर् एषा महाबाहो प्रतिसर्गं स्वयम्भुवः ।
प्रत्यहं च प्रतिजगत् सङ्कल्पितसुरासुरा ॥

4.41.26

कालं कालविभक्तीश् च नक्षत्राणि ग्रहांस् तथा ।
सरितस् सागरान् द्वीपान् दिशश् शैलांस् तथावनिम् ॥

4.41.27

देवान् दैत्यान् नरान् नागान् गन्धर्वान् यक्षराक्षसान् ।
अकल्पयद् अयं ब्रह्मा तरङ्गान् इव सागरः ॥

4.41.28

तेषां देशान् गिरींश् चैव विमानान्य् उत्तमानि च ।
कर्माणि प्रविभक्तानि पद्मजस् समकल्पयत् ॥

4.41.29

ते ऽपि सङ्कल्पसम्प्राप्तसिद्धयस् सर्वशक्तयः ।
यथासङ्कल्पितं वस्तु क्षणाद् ददृशुर् अग्रतः ॥

4.41.30

सङ्कल्पयन्त्य् अथान्यांस् ते नानाभूतगणान् बहून् ।
ते ऽप्य् अन्यांस् तत्र ते ऽप्य् अन्यांस् ते ऽप्य् अन्यान् विविधान् अपि ॥

4.41.31

संस्मृत्य वेदांस् तदनु यज्ञक्रमगुणान्वितान् ।
जगद्गृहवधूं ब्रह्मा मर्यादां समकल्पयत् ॥

4.41.32

ब्राह्मं रूपम् उपादाय मनो मायि महद्वपुः ।
तनोतीत्थम् इमां सृष्टिं भूतसन्ततिसङ्कुलाम् ॥

4.41.33

समुद्राचलवृक्षाढ्यां कृतलोकान्तरक्रमाम् ।
मेरुभूपीठदिक्कुञ्जजटालोदरमण्डलाम् ॥

4.41.34

सुखदुःखजराजन्ममरणव्याधिवेधिताम् ।
रागद्वेषभयाविद्धां गुणत्रयमयात्मिकाम् ॥

4.41.35

मनोभिस् तैर् विरिञ्चोत्थैर् यद् यथा कल्पितं पुरा ।
तत् तथैवाखिलं दृष्टं दृश्यते ऽद्यापि मायया ॥

4.41.36

इत्थं सर्वेषु सर्गेषु केषुचित् त्व् अथ वाप्य् अजः ।
सङ्कल्पयति संसारं परिपश्यति च स्थिरम् ॥

4.41.37

मोह एवम् अयं मिथ्या जागतस् स्थिरतां गतः ।
सङ्कल्पनेन मनसा कल्पितो ऽविरतं स्वयम् ॥

4.41.38

सङ्कल्पवशतस् सर्वाः प्रसरन्ति जगत्क्रियाः ।
सङ्कल्पवशतो देवी नियतिर् नियता स्थिता ॥

4.41.39

रोपितायां प्रजानाथैस् सृष्टौ स कमलोद्भवः ।
ब्रह्मा सञ्चिन्तयत्य् एष पद्मासनगतः प्रभुः ॥

4.41.40

मनस्स्पन्दनमात्रेण चित्रं चित्रेयम् उत्थिता ।
सृष्टिर् आभोगिनी स्फारव्यवहारविकारिणी ॥

4.41.41

इन्द्रोपेन्द्रनरेन्द्राढ्या शैलसागरसङ्कुला ।
पातालरोदोदिग्वर्गमार्गसङ्कटकोटरा ॥

4.41.42

सङ्कल्पजालम् अखिलं मयेदम् अहितं ततम् ।
अधुना विरमाम्य् अस्मात् सङ्कल्पोल्लासनक्रमात् ॥

4.41.43

इति निश्चित्य विरतस् कल्पनानर्थसङ्कटात् ।
अनादिमत् परं ब्रह्म स्मरत्य् आत्मानम् आत्मना ॥

4.41.44

तम् आसाद्य तदाभासे पदे गलितमानसः ।
सुखं तिष्ठति शान्तात्मा तल्पे ऽध्वश्रमवान् इव ॥

4.41.45

निर्ममो निरहङ्कारः परां शान्तिम् उपागतः ।
अविक्षुब्ध इवाम्भोधिर् आत्मनात्मनि तिष्ठति ॥

4.41.46

ध्यानात् कदाचिद् भगवान् स्वयं विरमति प्रभुः ।
चिद्वशात् सलिलस्पन्दात् सोम्यत्वाद् इव वारिधिः ॥

4.41.47

विचारयति संसारं सुखदुःखसमन्वितम् ।
आशापाशशतैर् बद्धं रागद्वेषभयातुरम् ॥

4.41.48

ततस् स करुणाक्रान्तमना भूतविभूतये ।
करोतीह महार्थानि शास्त्राणि विविधानि च ॥

4.41.49

अध्यात्मज्ञानगर्भाणि वेदवेदान्तवन्ति च ।
पुराणादीनि चान्यानि मुक्तये सर्वदेहिनाम् ॥

4.41.50

पुनस् तत् परम् आलम्ब्य पदम् आपद्विवर्जितम् ।
स्वस्थस् तिष्ठति शान्तात्मा निर्मन्दर इवार्णवः ॥

4.41.51

अवलोक्य जगच्चेष्टां मर्यादायां नियोज्य च ।
ब्रह्मा कमलपीठस्थः पुनस् स्वात्मनि तिष्ठति ॥

4.41.52

केवलं जन्मसंस्कारवशतस् तस्य तद् वपुः ।
अपुनर्जननायैव चक्रभ्रमवद् आस्थितम् ॥

4.41.53

न रोचते ऽस्य सन्त्यागो वपुषो न च सङ्ग्रहः ।
नात्मा न चेतरन् नेहा न स्थितिर् नास्थितिस् तथा ॥

4.41.54

सर्वभावसमारम्भस् समस् सर्वासु वृत्तिषु ।
परिपूर्णार्णवाकारो मुक्त एवावतिष्ठते ॥

4.41.55

कदाचित् केवलं सर्वसङ्कल्पपरिहीनया ।
यदृच्छयानुग्रहार्थं लोकानां प्रविबुध्यते ॥

4.41.56

एषा ब्राह्मी स्थितिः पुण्या या मयोक्ता महामते ।
जातिं विद्धि सुरानीके ताम् एतां सात्त्विकीम् इति ॥

4.41.57

विसर्गे परमाकाशे ब्रह्मणो या मनःकला ।
उदेति प्रथमं सैषा ब्रह्मत्वं समुपाश्नुते ॥

4.41.58

सर्गे स्थितिं गते त्व् अन्या योदेति कलना परा ।
सा व्योमानिलम् आश्रित्य प्रविष्यौषधिपल्लवान् ॥

4.41.59

काचित् सुरत्वम् आयाति पुरुषत्वम् अथापरा ।
काचित् तिर्यक्त्वम् आयाति काचिद् आयाति यक्षताम् ॥

4.41.60

चन्द्ररश्मिप्रणालेन गृहीतौषधिपल्लवा ।
या यत् सत्त्वं समभ्येति सा तद् एवाशु जायते ॥

4.41.61

जाता संसर्गवशतस् तस्मिन्न् एव हि जन्मनि ।
बध्यते मुच्यते वासौ स्वचमत्कारभेदतः ॥

4.41.62

इत्थं गता स्थितिम् इयं किल रामभद्र सृष्टिस् स्फुटं प्रकटसङ्कटकर्मबन्धा ।
आविर्भवद्विविधवेषविहारभारसंरम्भगर्भविधुरा कलनापदेन ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc