मोक्षोपाय · अध्याय 4.43
ये हि राजससत्त्वस्था एता भुवि महागुणाः ।
ते नित्यम् एव मुदिता उदिताः ख इवेन्दवः ॥
न खेदम् अधिगच्छन्ति व्योमभागा मलं यथा ।
नापदि म्लानिम् आयान्ति निशि हेमाम्बुजा यथा ॥
नेहन्ते प्राकृताद् अन्यद् दिनान्यद् भास्करो यथा ।
रमन्ते स्वे सदाचारे स्वार्तवे पादपा यथा ॥
नित्यम् आपूर्णताम् अन्तर् अक्षुब्धाम् इन्दुसुन्दरीम् ।
आपद्य् अपि न मुञ्चन्ति शशिनश् शीतताम् इव ॥
आकृत्यैव विराजन्ते मैत्र्यादिगुणकान्तया ।
नवस्तबकहासिन्या लतयेव महाद्रुमाः ॥
समास् समरसास् सोम्यास् सततं साधुसाधवः ।
अब्धिवद् धृतमर्यादा भवन्ति वितताशयाः ॥
अतस् तेषां महाबाहो पदम् आपदपासनम् ।
सर्वदैवानुगन्तव्यं मङ्क्तव्यं नापदर्णवे ॥
तथा तथेह जगति विहर्तव्यम् अखेदिना ।
आत्मोदयाय वर्तन्ते यथा राजससात्त्विकाः ॥
अधिगम्यार्य सच्छास्त्रं विचार्य च पुनः पुनः ।
अनित्यतां स्वमनसा विविक्तेनाशु भावयेत् ॥
आदाव् अन्ते च यन् नित्यं रूपं त्रैलोक्यवर्तिनाम् ।
पदार्थानां तद् एवाशु भावयेन् नेतरन् मुधा ॥
असम्यग्दर्शनं त्यक्त्वा व्यर्थसन्तानम् अन्तवत् ।
स्मर्तव्यं सम्यग् एवेदं ज्ञानसार्थम् अनन्तकम् ॥
को ऽहं कथम् इदं वेति संसारम् इदम् आततम् ।
प्रविचार्यं प्रयत्नेन प्राज्ञेन सह साधुना ॥
नाकर्मसु निमङ्क्तव्यं नानार्येण सहावसेत् ।
द्रष्टव्यस् सर्वविच्छेत्ता न मृत्युर् अवहेलया ॥
उच्चैःपदस्थस् तज्ज्ञेन सुमहाञ् शीतलाशयः ।
साधुर् एवानुगन्तव्यो मयूरेणाम्बुदो यथा ॥
अहङ्कारस्य देहस्य संसारस्योद्भवस्य च ।
विचारम् अमलं कृत्वा सत्यम् एवाश्रयेन् नरः ॥
शरीरम् अस्थिमांसं च त्यक्त्वा रक्ताद्य् अशोभनम् ।
भूतमुक्तावलीतन्तुं चिन्मात्रम् अवलोकयेत् ॥
सत्ये नित्ये तते शुद्धे सर्वगे सर्वभावने ।
शिवे सर्वम् इदं प्रोतं सूत्रे मणिगणो यथा ॥
यैव चिद् भुवनाभोगभूषणे व्योम्नि भास्करे ।
धराविवरकोशस्थे सैव चित् कीटकोदरे ॥
कुम्भव्योम्नां न भेदो ऽस्ति यथेह परमार्थतः ।
चितां शरीरसंस्थानां न भेदो ऽस्ति तथानघ ॥
सर्वेषाम् एव भूतानां तिक्तं कटु च नान्यथा ।
एकत्वाद् अनुभूतेर् हि कुतश् चिन्मात्रभिन्नता ॥
एकस्मिन्न् एव सततं स्थिते चिन्मात्रवस्तुनि ।
जातो ऽयम् अयम् उन्नष्ट इति कैषाज्ञतेह वः ॥
नेह तन् नाम वस्त्व् अस्ति यद् अभूत्वा प्रजायते ।
न च तन् नाम वस्त्व् अस्ति यद् भूत्वा प्रविलीयते ॥
आभासमात्रम् एवेदं न सन् नासच् च राघव ।
उत्प्लुतेनाप्रशान्तेन चेतसा सद् इव स्थितम् ॥
मेह मोहो ऽस्तु वो मौर्ख्यान् नेदं सद् यत् प्रणश्यति ।
न चासद् इत्य् एव दृढं निर्णीयाशोकितास्तु वः ॥
असति जगति किं किलेह मोहस् सति च किम् अङ्ग विमोहकारणं तत् ।
जननमरणसंस्थितिष्व् अतस् त्वं भव खम् इवातिसमस् सदोपशान्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0