मोक्षोपाय · अध्याय 4.40
अत्रैव वस्तुन्य् उचिते शृणु राघव पूर्वजाः ।
कचेन गाथा या गीता बार्हस्पत्येन पावनीः ॥
कस्मिंश्चिन् मेरुगहने तिष्ठन् सुरगुरोस् सुतः ।
कदाचिद् अभ्यासवशाद् विश्रान्तिं प्रापद् आत्मनि ॥
सम्यग्ज्ञानामृतापूर्णा मतिर् नारमतास्य सा ।
पञ्चभूतमये म्लाने दृश्ये ऽस्मिन् पेलवात्मनि ॥
तेन निर्विण्ण इव स आत्मतत्त्वाद् ऋते परम् ।
अपश्यन् समुवाचेदम् एको गद्गदया गिरा ॥
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा ॥
दुःखम् आत्मा सुखं चैव खम् आशास् त्वम् अहं तथा ।
सर्वम् आत्ममयं जातं कष्टं नष्टो ऽहम् आत्मना ॥
सबाह्याभ्यन्तरं देहेष्व् अध ऊर्ध्वं च दिक्षु च ।
इत आत्मा तथेहात्मा नास्त्य् अनात्ममयं क्वचित् ॥
सर्वत्रैव स्थितो ह्य् आत्मा सर्वम् आत्मनि संस्थितम् ।
सर्वम् एवेदम् आत्मैवम् आत्मन्य् एव नमाम्य् अहम् ॥
न तद् अस्ति न यत्राहं न तद् अस्ति न यन् मयि ।
किम् अन्यद् अभिवाञ्छामि केवलं प्रशमाम्य् अहम् ॥
आत्मनात्मनि येनाहं नमाम्य् आपूरितात्मना ।
उपशाम्यामि तेनान्तः क्वान्यत्राभिपताम्य् अहम् ॥
अहम् अग्निर् अहं वायुर् अहं भूर् अहम् अम्बरम् ।
यन् नाहं नास्ति तत् किञ्चित् सर्वम् एवाहम् आततम् ॥
आपूरितापारनभोमहाभैरवरूपवान् ।
सर्वसंविन्मयः पूर्णस् तिष्ठाम्य् एकार्णवोपमः ॥
इत्य् एवं भावयन् भावं कनकाचलकुञ्जके ।
उच्चारयन्न् अथोङ्कारं घण्टास्वनम् इव क्रमात् ॥
ओङ्कारस्य कलाम् अर्धां पाश्चात्यां वालकोमलाम् ।
नान्तरस्थेन बाह्ये न भावयन् परमे हृदि ॥
व्यपगतकलनाकलङ्कशुद्धो हृदयनिरन्तरलीनवातवृत्तिः ।
गतघनशरदम्बरोपमानः कच उपलाचलमूर्तिमान् अतिष्ठत् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0