भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.3

4.3.1

भगवन् सर्वधर्मज्ञ संशयो मे महान् अयम् ।
हृदि व्यावर्तते लोलः कल्लोल इव सागरे ॥

4.3.2

दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये ।
म्लाना संविन् मनोनाम्नी कुतः केयम् उपस्थिता ॥

4.3.3

यस्माद् अन्यन् न नामास्ति न भूतं न भविष्यति ।
कुतः कीदृक् कथं तस्य कलङ्कः कुत्र विद्यते ॥

4.3.4

साधु राम त्वया प्रोक्तं जाता ते मोक्षभागिनी ।
मतिर् उत्तमनिष्ष्यन्दा नन्दनस्येव मञ्जरी ॥

4.3.5

पूर्वापरविचारार्थतत्परेयं मतिस् तव ।
सम्प्राप्स्यति पदं प्रोच्चैर् यत् प्राप्तं शङ्करादिभिः ॥

4.3.6

प्रश्नस्यास्य तु ते राम न कालस् तव सम्प्रति ।
सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते ॥

4.3.7

सिद्धान्तकाले भवता प्रष्टव्यो ऽहम् इदं पदम् ।
करामलकवत् तेन सिद्धान्तस् ते भविष्यति ॥

4.3.8

सिद्धान्तकाले प्रश्नोक्तिर् एषा तव विराजते ।
प्रावृष्य् एव हि केकोक्तिर् युक्ता शरदि हंसगीः ॥

4.3.9

सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये ।
प्रावृषि त्व् अतनूदग्रपयोदपटलोत्थितः ॥

4.3.10

अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः ।
यद्वशाज् जनताजन्म तद् आकर्णय सुव्रत ॥

4.3.11

एवं प्रकृतिर् एवेयं मनोमननधर्मिणी ।
कर्मेति राम निर्णीतं सर्वैर् एव मुमुक्षुभिः ॥

4.3.12

शृणु लक्षणभेदेन तन् नानानामतां कथम् ।
वाग्मिनां वदतां यातं चित्राभिश् शास्त्रदृष्टिभिः ॥

4.3.13

यं यं भावम् उपादत्ते मनो मननचञ्चलम् ।
तं तम् एति घनामोदमध्यस्थः पवनो यथा ॥

4.3.14

ततस् तम् एव निर्णीय तम् एव च विकल्पयन् ।
अन्तस् तया रञ्जनया रञ्जयन् स्वाम् अहङ्कृतिम् ॥

4.3.15

तन्निश्चयम् उपादाय तत्रैव रसम् ऋच्छति ।
तन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेष्व् अपि ॥

4.3.16

यन्मयं हि मनो राम देहस् तदनु तद्वशात् ।
तत्ताम् आयाति गन्धान्तः पवनो गन्धताम् इव ॥

4.3.17

बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस् ततः ।
स्फुरति स्वत एवोर्वीरजो लोल इवानिले ॥

4.3.18

कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रथयत्य् अलम् ।
कर्म निष्पद्यते स्फारं पांसुजालम् इवानिलात् ॥

4.3.19

एवं हि मनसः कर्म कर्मबीजं मनस् स्मृतम् ।
अभिन्नैवैतयोस् सत्ता यथा कुसुमगन्धयोः ॥

4.3.20

यादृशं भावम् आदत्ते दृढाभ्यासवशान् मनः ।
तथा स्पन्दो ऽस्य कर्माख्यस् तथा शाखा विमुञ्चति ॥

4.3.21

तथा क्रियां तत्फलदां निष्पादयति चादरात् ।
ततस् तद् एव चास्वादम् अनुभूयाशु बध्यते ॥

4.3.22

यं यं भावम् उपादत्ते तत् तद् वस्त्व् इति विन्दति ।
तच् छ्रेयो ऽन्यत् तु नास्तीति निश्चयो ऽस्य प्रजायते ॥

4.3.23

धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि ।
मनांसि दृढभावानि प्रतिपत्त्या स्वयैव हि ॥

4.3.24

मनोभिः कापिलानां तु प्रतिपत्तिं निजाम् अलम् ।
उररीकृत्य निर्णीय कल्पिताश् शास्त्रदृष्टयः ॥

4.3.25

मोक्षे तु नान्यथा प्राप्तिर् इति भावितचेतसः ।
स्वां दृष्टिं प्रविवृण्वन्तस् स्थितास् स्वनियमभ्रमैः ॥

4.3.26

वेदान्तवादिनो बुद्ध्या ब्रह्मेदम् इति रूढया ।
युक्तिं शमदमोपेतां निर्णीय परिकल्प्य च ॥

4.3.27

मुक्तौ तु नान्यथा प्राप्तिर् इति भावितचेतसः ।
स्वां दृष्टिं प्रविवृण्वन्तस् स्थितास् स्वनियमभ्रमैः ॥

4.3.28

विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमरूपया ।
स्वां दृष्टिं प्रविवृण्वन्ति स्वैर् एव नियमभ्रमैः ॥

4.3.29

आर्हतादिभिर् अन्यैश् च स्वयाभिमतयेच्छया ।
चित्राश् चित्रसमाचाराः कल्पिताश् शास्त्रदृष्टयः ॥

4.3.30

निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैर् इवोत्थितैः ।
स्वनिश्चयैर् इतिप्रौढैर् नानाकारा हि रीतयः ॥

4.3.31

सर्वासाम् एव चैतासां रीतीनाम् एक आकरः ।
मनो नाम महाबाहो मणीनाम् इव सागरः ॥

4.3.32

न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ ।
यद् यथा मनसाभ्यस्तम् उपलब्धं तथैव तत् ॥

4.3.33

यस् त्व् अकृत्रिम आनन्दस् तदर्थं प्रयतेत वै ।
मनस् तन्मयतां नेयं तेनासौ समवाप्यते ॥

4.3.34

दृश्यं संसारडिम्बस्थं तुच्छं परिजहन् मनः ।
तज्जाभ्यां सुखदुःखाभ्यां नावशः परिकृष्यते ॥

4.3.35

अपवित्रम् असद्रूपं मोहनं भयकारणम् ।
दृश्यम् आभासम् आभोगि बन्धं मा भावयानघ ॥

4.3.36

मायैषा सा ह्य् अविद्यैषा भावनैषा भयावहा ।
संविदस् तन्मयत्वं यत् तत् कर्मेति विदुर् बुधाः ॥

4.3.37

द्रष्टुर् दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः ।
भ्रमायैव च तन् मिथ्या महीमक्कोलकर्मवत् ॥

4.3.38

दृश्यतन्मयता यैषा स्वभावस्यानुभूयते ।
संसारमदिरा सेयम् अविद्येत्य् उच्यते बुधैः ॥

4.3.39

अनयोपहतो लोकः कल्याणं नाधिगच्छति ।
भास्वरं तपनालोकं पटलान्धेक्षणो यथा ॥

4.3.40

स्वयम् उत्पद्यते सा च सङ्कल्पाद् व्योमवृक्षवत् ।
असङ्कल्पनमात्रेण स्वयम् एव विनश्यति ॥

4.3.41

असङ्कल्पनमात्रेण भावनायां महामते ।
क्षीणायां स्वप्रसादेन विमर्शेन विलासिना ॥

4.3.42

असंसङ्गे पदार्थेषु सर्वेषु स्थिरतां गते ।
सत्यदृष्टौ प्रसन्नायाम् असत्ये क्षयम् आगते ॥

4.3.43

निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते ।
नासत्ता यस्य नो सत्ता न सुखं नापि दुःखिता ॥

4.3.44

केवलं केवलीभावो यस्यान्तर् उपलभ्यते ।
अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ॥

4.3.45

आत्मनो ऽनन्यभूताभिर् अपि यः परिवर्जितः ।
वासनाभिर् अनन्ताभिर् व्योमेव घनराजिभिः ॥

4.3.46

सन्दिग्धायां यथा रज्ज्वां सर्पत्वं तद्वद् एव हि ।
चिदाकाशात्मना बन्धस् त्व् अबद्धेनैव कल्पितः ॥

4.3.47

कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यया ।
तद् एवान्यत्वम् आदत्ते खम् अहोरात्रयोर् इव ॥

4.3.48

यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
तत्तत्कल्पनया तादृक् तत् सुखायैव कल्पते ॥

4.3.49

शून्य एव कुसूले ऽन्तस् सिंहो ऽस्तीति भयं यथा ।
शून्य एव शरीरे ऽन्तर् बद्धो ऽस्मीति भयं तथा ॥

4.3.50

यथा शून्ये कुसूले ऽन्तः प्रेक्ष्य सिंहो न लभ्यते ।
तथा संसारबन्धार्हः प्रेक्षितस् सन् न लभ्यते ॥

4.3.51

इदं जगद् अयं चाहम् इतीयं भ्रान्तिर् उत्थिता ।
बालानां श्यामले काले छाया वैतालिकी यथा ॥

4.3.52

कल्पनावशतो जन्तोर् भावाभावाश् शुभाशुभाः ।
क्षणाद् असत्ताम् आयान्ति सत्ताम् अपि पुनः पुनः ॥

4.3.53

मातैव गृहिणीभावगृहीता कण्ठलम्बिनी ।
करोति गृहिणीकार्यं सुरतानन्ददायिनी ॥

4.3.54

कान्तैव मातृभावेन गृहीताकण्ठलम्बिनी ।
दूरं विस्मारयत्य् एव मन्मथोन्मादभावनाम् ॥

4.3.55

भावानुसारिफलदं पदार्थौघम् अवेक्ष्य च ।
न ज्ञेनेह पदार्थेषु रूपम् एकम् उदीर्यते ॥

4.3.56

दृढभावनया चेतो यद् यथा भावयत्य् अलम् ।
तत् तत्फलं तदाकारं तावत्कालं प्रपश्यति ॥

4.3.57

न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा ।
यद् यथा येन निर्णीतं तत् तथा तेन लक्ष्यते ॥

4.3.58

भाविताकाशमातङ्गं व्योमहस्तितया मनः ।
व्योमकाननमातङ्गीं व्योमस्थाम् अनुधावति ॥

4.3.59

तस्मात् सङ्कल्पम् एव त्वं सर्वभावमयात्मकम् ।
त्यज राघव सुस्वस्थस् स्वात्मनैव भवात्मनि ॥

4.3.60

मणिर् हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति ।
न शक्तो जडभावेन न तु राम भवादृशः ॥

4.3.61

यद् यन् मनोमणौ राम तवेह प्रतिबिम्बति ।
तद् अवस्त्व् इति निर्णीय मा तेनागच्छ रञ्जनाम् ॥

4.3.62

तद् एव सत्यम् इति वाप्य् अभिन्नं परमात्मनः ।
मन्वानस् त्वम् अनाद्यन्तं भावयात्मानम् आत्मना ॥

4.3.63

चेतसि प्रतिबिम्बन्ति ये भावास् तव राघव ।
रञ्जयन्त्व् अन्यसक्तात्मन् मा ते त्वां स्फटिकं यथा ॥

4.3.64

स्फटिकम् अपमलं यथा विशन्ति प्रकटतया नवरञ्जना विचित्राः ।
इह हि विमननं तथा विशन्तु प्रकटतया भुवनैषणा भवन्तम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc