भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.39

4.39.1

सत्यम् एतत् त्वया ब्रह्मन् यद् उक्तं सूक्तिसुन्दरम् ।
अकर्तैव हि कर्तात्मा भोक्ताभोक्तैव भूतभृत् ॥

4.39.2

सर्वेश्वरस् सर्वमयश् चिन्मात्रम् अमलं पदम् ।
स्वानुभूतिवपुर् देवस् सर्वभूतान्तरस्थितः ॥

4.39.3

हृदयङ्गमतां यातम् इदानीं ब्रह्म मे प्रभो ।
त्वदुक्तिभिर् यथा शीतं धाराभिर् भूभृतः पयः ॥

4.39.4

औदासीन्याद् अनिच्छत्वान् न भुङ्क्ते न करोति च ।
समग्रालोककारित्वाद् भुङ्क्ते देवः करोति च ॥

4.39.5

किं त्व् अयं भगवन् स्फारस् संशयो मे हृदि स्थितः ।
छिन्द्धि तं त्वं गिरा ब्रह्मन् दीधित्येन्दुर् यथा तमः ॥

4.39.6

इदं सत् तद् इदं चासद् अयं सो ऽहम् अयं भवान् ।
अयम् एको द्वितीयो ऽयम् इत्यादिकलनामलम् ॥

4.39.7

एकस्मिन् वितते शान्ते नीहार इव भास्करे ।
इदम्प्रथमम् एवाच्छे कथम् आत्मनि संस्थितम् ॥

4.39.8

सिद्धान्तकाल एवास्य सत्प्रश्नस्योत्तरस्थितिम् ।
कथयिष्यामि ते राम ज्ञास्यस्य् एनां तदैव च ॥

4.39.9

मोक्षोपायस्य सिद्धान्तसमयं प्राप्य राघव ।
श्रोतुं प्रश्नोत्तराण्य् एतान्य् अलं योग्यो भविष्यसि ॥

4.39.10

कान्तागेयगिरां राम भाजनं तरुणो यथा ।
प्रश्नानाम् उत्तमोक्तीनां प्राप्तदृग् भाजनं तथा ॥

4.39.11

व्यर्था भवति बालेषु यथा रागमयी कथा ।
निरर्थकाल्पबोधेषु तथोदारोदया कथा ॥

4.39.12

कस्मिंश्चिद् एव समये किञ्चित् पुंसो विराजते ।
फलम् आभाति वृक्षस्य शरद्य् एव न माधवे ॥

4.39.13

उपदेशगिरो वृद्धे रञ्जना निर्मले पटे ।
लगन्त्य् उदारविज्ञानकथाश् चाधिगतात्मनि ॥

4.39.14

प्रश्नस्यास्योत्तरं पूर्वं लेशतः कथितं मया ।
न विस्तरेण तेनैतन् न ज्ञातं भवता स्फुटम् ॥

4.39.15

यदि त्वम् आत्मनात्मानम् अधिगच्छसि तत् स्वयम् ।
एतत् प्रश्नोत्तरं साधो जानास्य् अत्र न संशयः ॥

4.39.16

मया सिद्धान्तकाले तु प्राप्तबोधे त्वयि स्थिते ।
वक्तव्यो विस्तरेणैष साधो प्रश्नोत्तरक्रमः ॥

4.39.17

जानात्य् आत्मानम् आत्मैव कृत आत्मात्मनैव हि ।
आत्मैव सम्प्रसन्नस् सन्न् आत्मानं प्रतिपद्यते ॥

4.39.18

मयैतत् कथितं राम कर्त्रकर्तृविचारणम् ।
वासनामयनाशाय तज्ज्ञो निर्वासनो भवेत् ॥

4.39.19

बन्धो हि वासनाबन्धो मोक्षस् स्याद् वासनाक्षयः ।
वासनास् त्वं परित्यज्य मोक्षार्थित्वम् अपि त्यज ॥

4.39.20

तामसीर् वासनाः पूर्वं त्यक्त्वा विषयवासिताः ।
मैत्र्यादिभावनानाम्नीर् गृहाणामलवासनाः ॥

4.39.21

ता अप्य् अन्तः परित्यज्य ताभिर् व्यवहरन् बहिः ।
अन्तश् शान्तसमस्तेहो भव चिन्मात्रवासनः ॥

4.39.22

ताम् अप्य् अथ परित्यज्य मनोबुद्धिसमन्विताम् ।
शेषे स्थिरसमाधानो येन त्यजसि तं त्यज ॥

4.39.23

चिन्मनःकलनाकालप्रकाशतिमिरादिकम् ।
वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ॥

4.39.24

समूलम् अखिलं त्यक्त्वा व्योमसोम्यः प्रशान्तधीः ।
यस् त्वं भवसि सद्बुद्धे स भवाश्व् अविलम्बितः ॥

4.39.25

हृदयात् सम्परित्यज्य सर्वम् एव महामतिः ।
यस् तिष्ठति गतव्यग्रं स मुक्तः परमेश्वरः ॥

4.39.26

समाधिम् अथ कर्माणि मा करोतु करोतु वा ।
हृदयेनास्तसर्वार्थो मुक्त एवोत्तमाशयः ॥

4.39.27

नैष्कर्म्येण न तस्यार्थो न तस्यार्थो ऽस्ति कर्मभिः ।
न समाधानजप्याभ्यां यस्य निर्वासनं मनः ॥

4.39.28

विचारितम् अलं शास्त्रं चिरम् उद्ग्राहितं मिथः ।
सन्त्यक्तवासनान् मौनाद् ऋते नास्त्य् उत्तमं पदम् ॥

4.39.29

दृष्टं द्रष्टव्यम् अखिलं भ्रान्त्वाभ्रान्ता दिशो दश ।
जनाः कतिपया एव यथावस्त्व् अवलोकिनः ॥

4.39.30

यद् यद् आलोक्यते किञ्चिद् यत्र यत्र च गम्यते ।
ईप्सितानीप्सिताद् अन्यन् न तत्र यतते जनः ॥

4.39.31

ये केचन समारम्भा ये जनस्य क्रियाक्रमाः ।
ते सर्वे देहमात्रार्थम् आत्मार्थं तु न किञ्चन ॥

4.39.32

पाताले ब्रह्मलोके च स्वर्गे ऽथ वसुधातले ।
सन्तः कतिपया एव दृश्यन्ते दृष्टदृष्टयः ॥

4.39.33

इदं हेयम् उपादेयम् इदम् इत्य् असदुत्थितौ ।
निश्चयौ गलितौ यस्य ज्ञस्यासाव् अतिदुर्लभः ॥

4.39.34

करोतु भुवने राज्यं विशत्व् अनलम् अम्बु वा ।
नात्मलाभाद् ऋते जन्तुर् विश्रान्तिम् अधिगच्छति ॥

4.39.35

ये महामतयस् सन्ति शूरास् स्वेन्द्रियशत्रुषु ।
जन्मज्वरविनाशाय त उपास्या महाधियः ॥

4.39.36

सर्वत्र पञ्चभूतानि षष्ठं किञ्चिन् न विद्यते ।
पाताले भूतले व्योम्नि रतिम् एति क्व धीरधीः ॥

4.39.37

युक्त्या सन्तरतो ज्ञस्य संसारो गोष्पदाकृतिः ।
दूरसन्त्यक्तयुक्तेस् तु महामत्तार्णवोपमः ॥

4.39.38

कदम्बगोलकस्वच्छं ब्रह्माण्डं स्फारचेतसः ।
किं प्रयच्छति किं भुङ्क्ते प्राप्ते ऽस्मिन् सकले ऽपि सः ॥

4.39.39

एतदर्थम् अबुद्धीनां यन् महासमरक्रियाः ।
तन् मन्ये राम भिक्षार्थं द्वन्द्वलक्षक्षयावहम् ॥

4.39.40

कल्पमात्रेण कालेन सहसा पेलवोदरे ।
अस्मिन्न् अपि च यो नाशस् स वीरुधि महाशनिः ॥

4.39.41

आत्मनो ऽंशस्य सर्वादेर् यत् तृणाद् अपि नोत्तमम् ।
तस्मिञ् जगत्त्रये प्राप्तं किं तद् आत्मवतो भवेत् ॥

4.39.42

इतश् शैलशतैर् व्याप्तस् तथेतो जलराशिभिः ।
कियान् अस्या भुवो देहो येनोदारं प्रपूरयेत् ॥

4.39.43

न तद् अस्ति जगत्य् अस्मिन् सपातालहरालये ।
यन् नामात्मवतो ज्ञस्य किञ्चित् कार्यकरं भवेत् ॥

4.39.44

एकताम् अनुयातस्य व्योमवद् विततस्य च ।
स्वस्थस्यात्मवतो ज्ञस्य स्थितस्यात्मन्य् अचेतसि ॥

4.39.45

शरीरजालनीहारधूसरा शून्यकोटरा ।
शान्तसञ्चारसुभगा त्रिलोकी विपुलाटवी ॥

4.39.46

स्फारब्रह्मामलाम्भोधिफेनास् सर्वे कुलाचलाः ।
चिदादित्यमहातेजोमृगतृष्णा जगच्छ्रियः ॥

4.39.47

आत्मतत्त्वमहाम्भोधिवीचयस् सर्गराजयः ।
अनुत्तमपदाम्भोदवृष्टयश् शास्त्रदृष्टयः ॥

4.39.48

चन्द्रार्कतपनालोका घटकाष्ठादिसन्निभाः ।
प्रकाशनीयाश् चिद्दीपत्विषो भूतगणास् तथा ॥

4.39.49

चिरम् अन्तर्हितात्मानस् संसारवनचारिणः ।
कामभोगोलपग्रासा मृगा नरसुरासुराः ॥

4.39.50

अस्थिखण्डार्गला मूर्धपिधानास् स्नायुशृङ्खलाः ।
जगद्देहा जगज्जीवरत्नमांससमुद्गकाः ॥

4.39.51

वनबालमृगीमुग्धाः परसञ्चारितास् स्थितौ ।
बालबुद्धिविनोदाय योषितश् चर्मपुत्रिकाः ॥

4.39.52

एवंविधोदारमना मनाग् अपि महामतिः ।
न ज्ञश् चलति भोगौघैर् मुखवातैर् इवाचलः ॥

4.39.53

तस्मिन् किल पदे राम ज्ञस् तिष्ठति महोन्नतौ ।
यस्माच् चन्द्रार्कदेशो ऽपि नः पातालम् इव स्थितः ॥

4.39.54

इमांल् लोकान् अनालोकाञ् जातालोकास् सुवेदिनः ।
सरीसृपान् वयम् इव पश्यन्त्य् ऊढान् भवार्णवे ॥

4.39.55

न केचन जगद्भावास् तत्त्वज्ञं रञ्जयन्त्य् अमी ।
नागरं नागरीकान्तं कुग्रामलटभा इव ॥

4.39.56

न केचन जगद्भावास् तत्त्वज्ञं रञ्जयन्त्य् अमी ।
अप्य् अभ्याशगतास् स्फारहृदयं खम् इवाम्बुदाः ॥

4.39.57

न केचन जगद्भावास् तत्त्वज्ञं रञ्जयन्त्य् अमी ।
मर्कट्य इव नृत्यन्त्यो गौरीलास्यार्थिनं हरम् ॥

4.39.58

न केचन जगद्भावास् तत्त्वज्ञं रञ्जयन्त्य् अमी ।
प्राक्तनप्रतिबिम्बश्री रत्नं कुम्भगतं यथा ॥

4.39.59

चक्रार्पितोपमम् असन्मयम् अम्बुभङ्गत्वङ्गत्तरङ्गकृतबिम्बम् इवावलोक्य ।
लोकं तदीहितसुखेषु रतिं न याति तज्ज्ञः कुशेवललवेष्व् इव राजहंसः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc