मोक्षोपाय · अध्याय 4.38
नास्तीदम् इति निर्णीय सर्वतस् त्यज रञ्जनाम् ।
यन् नास्ति तत् प्रति किल कैवास्थेह विचारिणाम् ॥
दृश्यमानम् अथेदं चेद् अस्ति तत् तव किं गतम् ।
तिष्ठत्व् आत्मनि बध्नासि त्वं किलात्र किम् आत्मताम् ॥
अथ चेद् अस्ति नास्तीदम् इति निश्चयवान् असि ।
तथापि भावनासङ्गः कथं युक्तश् चलाचले ॥
नेदम् अस्ति जगद् राम न च नास्ति महामते ।
केवलं स्वोत्थम् एवेत्थमाभानम् इदम् ईदृशम् ॥
नेदं कर्तृकृतं किञ्चिन् न चाकर्तृकृतक्रमम् ।
स्वयम् आभासते चेदं कर्त्रकर्तृपदं गतम् ॥
अकर्तृकं जगज्जालं भवत्व् अथ सकर्तृकम् ।
मा त्वम् एतेन सम्बन्धं भावयानघ चेतसि ॥
सर्वेन्द्रियविहीनात्मा कर्तेह स जडोपमः ।
अकर्त्र् एव तदा मन्ये काकतालीयवज् जगत् ॥
काकतालीययोगेन जातं यत् किञ्चिद् एव यत् ।
तस्मिन् भावानुसन्धानं बालो बध्नाति नेतरः ॥
न कदाचिद् इदं शान्तं जगद् राम न च क्षयि ।
अजस्रं दृश्यमानत्वाद् भावित्वाच् च पुनः पुनः ॥
न कदाचिद् इदं चास्ति जगद् राम न चाक्षयि ।
अजस्रं क्षीयमाणत्वान् नाशित्वाच् चानुमानतः ॥
सर्वेन्द्रियपदातीतो यदा कर्तेह विज्वरः ।
कुर्वाणस् स तदा खेदं न कदाचन गच्छति ॥
तेनेयं नियतिः प्रौढा भावाभावदशामयी ।
ईदृश्य् एव स्थिरा दीर्घा चित्तोत्थापि न नश्यति ॥
अपर्यन्तस्य कालस्य कश्चिद् अंशश् शरच्छतम् ।
तावन्मात्रमहायुर् यः किम् आस्थां सो ऽनुधावति ॥
स्थिराश् चेज् जागता भावास् तत् तदास्था न शोभते ।
कथम् अन्योऽन्यसंश्लेषो जडचेतनयोः किल ॥
अस्थिराश् चेज् जगद्भावास् तद् अप्य् आस्था न शोभते ।
पयःफेनास्थिरास्यान्ते दुःखम् एषा ददाति ते ॥
आस्थाबन्धो महाबाहो जगद्भावत्वदात्मनोः ।
न स्थिरास्थिरयोः फेनशैलयोर् इव राजते ॥
सर्वकर्ताप्य् अकर्तेव करोत्य् आत्मा न किञ्चन ।
तिष्ठत्य् अलम् उदासीन आलोकं प्रति दीपवत् ॥
कुर्वन् न किञ्चित् कुरुते दिनकार्यम् इवांशुमान् ।
गच्छन् न गच्छति स्वस्थस् स्वास्पदस्थो रविर् यथा ॥
यतः कुतश्चिद् एवेदं सम्पन्नम् इव लक्ष्यते ।
अर्जुनानिलवद् वारिपूरावर्तवद् आततम् ॥
इति चेद् भवता राम नैपुण्येनावधारितम् ।
प्रमाणपरिशुद्धेन चेतसा च विचारितम् ॥
तदाति भावना साधो पदार्थं प्रति नार्हति ।
अलातचक्रे स्वप्ने च भ्रमे वा केव भावना ॥
अकस्माद् आगतो जन्तुस् सौहार्दस्य न भाजनम् ।
भ्रमभूतं जगज्जालम् आस्थायाश् च न भाजनम् ॥
उष्णेन्दौ शीतले भानौ मृगतृष्णाजले तथा ।
यथा न भावयस्य् आस्थाम् एवं मा भावय स्थितौ ॥
सङ्कल्पपुरुषं स्वप्नजनं द्वीन्दुत्वविभ्रमम् ।
यथा पश्यसि पश्य त्वं भावजातम् इदं तथा ॥
अन्तर् आस्थां परित्यज्य भावश्रीभावनामयीम् ।
यो ऽसि सो ऽसि जगत्य् अस्मिंल् लीलया विहरानघ ॥
अकर्तृत्वपदस्थस्य कर्तृत्वम् अपि कुर्वतः ।
सर्वभावान्तरस्थस्य सर्वातीतस्य चात्मनः ॥
इयं सन्निधिमात्रेण नियतिः प्रविजृम्भते ।
दीपसन्निधिमात्रेण निरिच्छेव प्रकाशता ॥
अभ्रसन्निधिमात्रेण कुटजानि यथा स्वयम् ।
आत्मसन्निधिमात्रेण त्रिजगन्ति तथा स्वयम् ॥
सर्वेच्छारहिते भानौ यथा व्योमनि तिष्ठति ।
जायते व्यवहारश्रीस् सति देवे तथा क्रिया ॥
निरिच्छे संस्थिते रत्ने यथालोकः प्रवर्तते ।
सत्तामात्रेण देवेन तथैवायं जगद्गणः ॥
अत आत्मनि कर्तृत्वम् अकर्तृत्वं च संस्थितम् ।
निरिच्छत्वाद् अकर्तासौ कर्ता सन्निधिमात्रतः ॥
सर्वेन्द्रियाभ्यतीतत्वात् कर्ता भोक्ता न भूतपः ।
इन्द्रियान्तर्गतत्वात् तु कर्ता भोक्ता स एव हि ॥
द्वे एवात्मनि विद्येते कर्तृताकर्तृते ऽनघ ।
ययैव पश्यसि श्रेयस् ताम् आश्रित्य स्थिरो भव ॥
सर्वत्राहम् अकर्तेति दृढभावनयानया ।
प्रवाहापतितं कार्यं कुर्वन्न् अपि न लिप्यसे ॥
सर्वत्राहम् अकर्तेति संविदा भोगकामना ।
याति नीरसतां जन्तोर् अप्रवृत्तेस् स्वचेतसः ॥
यत्राहं किञ्चिद् एवेह न करोमीति निश्चयः ।
भोगौघकामनां तत्र कः करोतु जहातु वा ॥
तस्मान् नित्यम् अकर्ताहम् इति भावनयेद्धया ।
परमामृतनाम्नी सा समतैवावशिष्यते ॥
अथ सर्वं करोमीति महाकर्तृतयानया ।
यदीच्छसि स्थितिं राम तत् ताम् अप्य् उत्तमां विदुः ॥
अहं यत्र करोमीमं समग्रं जागतं भ्रमम् ।
रागद्वेषक्रमस् तत्र कुतो ऽन्यस्यात्यसम्भवात् ॥
यद् अन्येन शरीरं मे दग्धम् अन्येन लालितम् ।
स मदारम्भ एवातः कः खेदोल्लासयोः क्रमः ॥
मत्सुखासुखविस्तारे जगज्जालक्षयोदये ।
अहं कर्तेति मत्वान्तः कः खेदोल्लासयोः क्रमः ॥
खेदोल्लासविलासे तु स्वात्मकर्तृतयैकया ।
स्वयम् एव लयं याते समतैवावशिष्यते ॥
समता सर्वभावेषु यासौ सत्या परा स्थितिः ।
तस्याम् अवस्थितं चित्तं न भूयो दुःखम् आप्नुयात् ॥
अथ वा सर्वकर्तृत्वम् अकर्तृत्वं च राघव ।
सर्वं त्यक्त्वा मनः पीत्वा यो ऽसि सो ऽसि स्थिरो भव ॥
अयं सो ऽहम् अयं नाहं करोमीदम् इदं न तु ।
इति भावानुसन्धानमयी दृष्टिर् न तुष्टये ॥
सा कालसूत्रपदवी सा महावीचिवागुरा ।
सासिपत्त्रवनश्रेणी या देहो ऽहम् इति स्थितिः ॥
सा त्याज्या सर्वयत्नेन सर्वनाशे ऽप्य् उपस्थिते ।
स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुक्कसी ॥
तया सुदूरोज्झितया दृष्टौ पाटललेखया ।
उदेति परमा दृष्टिर् ज्योत्स्नेव विगताम्बुदा ॥
कर्ता नास्मि न चायम् अस्मि स इति ज्ञात्वैवम् अन्तस् स्फुटं कर्तैवास्मि समग्रम् अस्मि तद् इति ज्ञात्वाथ वा निश्चयम् ।
को ऽप्य् एवास्मि न कश्चिद् एवम् इति वा निर्णीय सर्वोत्तमं तिष्ठ त्वं स्वपदे स्थिताः पदविदो यत्रोत्तमास् साधवः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0