मोक्षोपाय · अध्याय 4.37
इत्य् आकर्ण्य तदा तत्र रात्राव् आलपनं तयोः ।
अहं रघुकुलाकाशशशाङ्क रघुनन्दन ॥
पतितः खात् कदम्बाग्रे पत्त्रपुष्पलताकुले ।
तूष्णीं निर्वृष्टिमूकात्मा शृङ्गाग्र इव तोयदः ॥
अपश्यं तत्र दाशूरं शूरं इन्द्रियनिग्रहे ।
परेण तपसा युक्तं तेजसेव हुताशनम् ॥
तेजोभिर् देहनिष्क्रान्तैः काञ्चनीकृतभूरुहैः ।
तापयन्तं प्रदेशं तं भुवनं भास्करं यथा ॥
माम् अथालोक्य सम्प्राप्तं दाशूरो ऽर्घ्यसपर्यया ।
वितीर्णविष्टरं पत्त्रे परया पर्यपूजयत् ॥
ततः कुर्वन् कथास् तेन सह दाशूरभास्वता ।
तास् तत्तनयसम्बद्धास् संसारोत्तारणक्षमाः ॥
दृष्टवांस् तम् अहं वृक्षं कोरकोत्कटकोटरम् ।
स्मितेनेव स्फुटरदं श्वसनस्फुरितच्छदम् ॥
दाशूरस्येच्छया सर्वैर् अपतद्भिर् मृगद्विजैः ।
सेव्यमानं वनम् इव लतामण्डपमण्डितम् ॥
लताकोटितटभ्रान्तैश् चमरैर् इन्दुसुन्दरैः ।
शुभ्राभ्रखण्डनिकरैश् शरन्नभ इवावृतम् ॥
प्रालेयकणपद्धत्या मुक्तावल्याभ्यलङ्कृतम् ।
सर्वावयवम् एवाच्छपुष्पपूरैः प्रपूरितम् ॥
स्वरेणुचन्दनालेपैस् समालब्धम् अखण्डितम् ।
स्वच्छदाभोगविपुलरक्ताम्बरपरिष्कृतम् ॥
विवाहायेव वेषेण पुष्पभारादिहारिणा ।
लताङ्गनानुषक्तेन नागरेण कृतोद्यमम् ॥
सुनिबद्धजटाकारलतामण्डलमण्डितम् ।
मञ्जरीभिः पताकाभिर् युक्तं पुरम् इवोत्सवे ॥
मृगकण्डूयनध्वस्तपुष्पधूलिविधूसरम् ।
प्रोत्सारितोपान्तवनं वृक्षमल्लम् इवोत्थितम् ॥
बर्हिभिः कुसुमोद्वान्तपरागपरिपाटलैः ।
निक्षेपक्षिप्तसन्ध्याभ्रबालसालम् इवाचलैः ॥
प्रवालारुणहस्तेन शीतलच्छायशायिना ।
मधुना घूर्णमानेन प्रालेयोत्पुलकत्विषा ॥
नीरन्ध्रपुष्पपूरेण घूर्णितेन वनानिलैः ।
निद्रालुकुट्मलदृशा स्तबकस्तनधारिणा ॥
पुष्पजालरजःपुञ्जकुङ्कुमारुणवाससा ।
लताविताननिलयवातायननिषङ्गिणा ॥
नवपुष्पलतादोलालीलयालसलासिना ।
आपादमस्तकप्रान्तं ससमस्तलतालयम् ॥
वृन्देन वनदेवीनां कोकिलालापशालिना ।
सन्दिग्धमञ्जरीजालम् अलिनेत्रेण हासिना ॥
अवश्यायोपशमितरतिखेदैर् मदालसैः ।
पुष्पधूलिसमारब्धैर् आलब्धैर् निबिडं मिथः ॥
पुष्पान्तरान्तःपुरगैः किम् अपि प्रणयोचितम् ।
ध्वनद्भिर् अभितस् स्वच्छं मत्तालियुगलैर् वृतम् ॥
काननोपान्तनगरीघुङ्घुमाकर्णनेच्छया ।
क्षणम् उत्कर्णम् आशान्तचारुचर्वणटाङ्कृतैः ॥
क्षणं दलाश्रिविश्रान्तमुग्धमुग्धशिरस्तया ।
पश्यद्भिर् इन्द्वंशुकचज्जलाम् अर्णवमेखलाम् ॥
वनस्थलीनां तनयैर् नयैर् मूर्तिम् इवास्थितैः ।
सुप्तैः पत्त्रपुटेष्व् अन्तर् मृगैश् शारलतान्तरम् ॥
नीडश्वसत्सुविश्वस्तसुप्तसार्भकपक्षिणम् ।
पाकच्युतफलोपान्तवृत्तलम्बिकमण्डलम् ॥
सन्दिग्धमूकभ्रमरं गुच्छेष्व् अब्जाक्षसूत्रकैः ।
श्यामलीकृतपर्यन्तं नीलैः पल्लवमण्डलैः ॥
सुगन्धिताशेषवनं पुष्पमेघीकृताम्बुदम् ।
धूलीकदम्बशबलं फलार्थिवलितं तले ॥
बहुनात्र किम् उक्तेन न किञ्चिद् अपि विद्यते ।
पत्त्रं तत्र तरोर् यत्र नोष्यते वा न भुज्यते ॥
पत्त्रे पत्त्रे मृगास् सुप्ता विश्रान्तास् सुघने घने ।
कच्छे कच्छे खगा लीनास् तस्य भूरुहभूपतेः ॥
एवंगुणविशिष्टं तं ममालोकयतस् तरुम् ।
महोत्सवेन सदृशी सा बभूव तमस्वती ॥
ततः कथाभिर् अन्याभिस् स तस्य तनयो मया ।
विज्ञानालोकरम्याभिर् नीतो बोधं परं पुनः ॥
आवयोस् तत्र चित्राभिः कथाभिर् इतरेतरम् ।
शर्वरी सा व्यतीयाय मुहूर्त इव कान्तयोः ॥
प्रातः प्रतनुतां याते द्युघर्मजलजालके ।
खकाननाङ्कुरोद्गारे तारकानिकरे शनैः ॥
आकदम्बनभोभागम् अनुयातं सुतान्वितम् ।
अहं विसर्ज्य दाशूरं हराचलनदीं गतः ॥
तत्राभिमतम् आसाद्य स्नानम् एत्य नभस्तलम् ।
प्रविश्य खं मुनीनां च मध्यं स्वस्थम् अवस्थितः ॥
दाशूराख्यायिकैषा ते कथिता रघुनन्दन ।
जगतः प्रतिबिम्बाभा सत्याकाराप्य् असन्मयी ॥
दाशूराख्यायिकैवेयम् इत्य् एतत् कथितं मया ।
तुभ्यं राघव घोराघजगद्रूपनिरूपणे ॥
तस्माद् अवास्तवीं त्यक्त्वा वास्तवीम् अपि रञ्जनाम् ।
दाशूरसिद्धान्तधिया सदोदारो भवात्मवान् ॥
अनेन गच्छामरसुन्दरत्वं कदम्बदाशूरकथारथेन ।
आसादयिष्यस्य् अचिरात् पुरं तद् भविष्यसीशो भुवनेषु येन ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0