मोक्षोपाय · अध्याय 4.36
कीदृशस् तात सङ्कल्पः कथम् उत्पद्यते प्रभो ।
कथं वा वृद्धिम् आयाति कथं चैव विनश्यति ॥
अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः ।
चितश् चेत्योन्मुखत्वं यत् तत् सङ्कल्पाङ्कुरं विदुः ॥
लेशतः प्राप्तसत्ताकस् स एव घनतां गतः ।
याति चित्तं खम् आपूर्य दृढजाड्याय मेघवत् ॥
भावयन्ती चितिश् चेत्यं व्यतिरिक्तम् इवात्मनः ।
सङ्कल्पताम् इहायाति बीजम् अङ्कुरताम् इव ॥
सङ्कल्पनं हि सङ्कल्पस् स्वयम् एष प्रजायते ।
वर्धते स्वत एवाशु दुःखाय न सुखाय तु ॥
सङ्कल्पमात्रं हि भवाञ् जलमात्रं यथार्णवः ।
ऋते सङ्कल्पतो ऽन्या ते नास्ति संसारिता ऋता ॥
काकतालीययोगेन सञ्जातो ऽसि मुधैव हि ।
मृगतृष्णाद्विचन्द्रत्ववद् असत्यं च वर्धसे ॥
निगीर्णमातुलांशस्य कनकप्रत्ययो यथा ।
स्वयम् अभ्येत्य् असत्यो ऽन्तस् सङ्कल्पस् ते तथा भवेत् ॥
असत्यम् एव जातस् त्वम् असत्यम् अभिवर्धसे ।
अस्मिञ् जाते च विज्ञाने असत्यस् सन् विलीयसे ॥
अयं सो ऽहम् इमे भावास् सुखदुःखमया मम ।
व्यर्थम् एवेति सास्थस् त्वं तेनान्तः परितप्यसे ॥
असन्न् एवास्य् अजातो ऽसि कुतो जन्म किलासतः ।
व्यर्थम् एवावमूढो ऽसि सङ्कल्पवशतस् स्वतः ॥
मा सङ्कल्पय सङ्कल्पं भावं भावय मा स्थितौ ।
एतावतैव भावेन भव्यो भवसि भूतये ॥
सङ्कल्पनाशने यत्नो न भूयांस् तव गच्छति ।
भावनाभावमात्रेण सङ्कल्पः क्षीयते हृदि ॥
सुमनःकुसुमामर्दे किञ्चिद् व्यतिकरो भवेत् ।
सुसाधे ऽभावमात्रेण न तु सङ्कल्पनाशने ॥
पुष्पाक्रान्तौ करस्पन्दयत्नः पुत्रोपयुज्यते ।
तद् अप्य् उपकरोत्य् अस्मिन् न सङ्कल्पपरिक्षये ॥
सङ्कल्पो येन हन्तव्यस् तेन भावविपर्ययात् ।
अप्य् अर्धेन निमेषेण लीलयैव विहन्यते ॥
भावमात्रोपशमने स्वात्मनि स्वस्थम् आस्थिते ।
साध्यते यद् असाध्यं तत् कस्य स्यात् किम् इवामतेः ॥
सङ्कल्पेनैव सङ्कल्पं मनसा स्वमनो मुने ।
भित्त्वा स्वात्मनि तिष्ठ त्वं किम् एतावति दुष्करम् ॥
उपशान्ते हि सङ्कल्पे उपशान्तम् इदं भवेत् ।
संसारदुःखम् अतुलं मूलाद् अपि महामते ॥
सङ्कल्पो हि मनो जीवश् चित्तं धीर् अथ वासना ।
नाम्नैवान्यत्वम् अप्य् एषां नार्थेनार्थविदां वर ॥
सङ्कल्पांशाद् ऋते नेह किञ्चिद् अप्य् अस्ति कुत्रचित् ।
तम् एव हृदयाच् छिन्द्धि किम् अन्यत् परिशोचसि ॥
यथैवेदं नभश् शून्यं जगच् छून्यं तथैव हि ।
असन्मयविकल्पोत्थे उभे एते तते यतः ॥
असिद्धं सर्वम् एवैतद् यद् असिद्धेन साधितम् ।
सङ्कल्पेन जगत् तस्माद् भावना क्वावतिष्ठताम् ॥
सत्यास्थायाम् असत्यां तु किंनिष्ठा वासना भवेत् ।
वासनाक्षयतस् सिद्धिस् ततः प्राप्यं न शिष्यते ॥
तस्माद् असद् इदं सर्वं द्रष्टव्यं हेलयेद्धया ।
न तु भावनया तेन सुखदुःखैर् न लिप्यते ॥
अवस्त्व् इतीदं निर्णीय नेहास्था सम्प्रवर्तते ।
आस्थाक्षये न जायेते हर्षामर्षौ भवाभवौ ॥
मनो मिथ्या करोतीदं सुखदुःखाभ्रविभ्रमम् ।
मनो जीवस् स्फुरत्य् उच्चैर् मानसं नगरं जगत् ॥
भविष्यद् वर्तमानं च भूतं च परिवर्तयत् ।
वासनावशतो लोके स्फुरच्छक्ति मनस् स्थितम् ॥
करोति स्वाशयेनेमां व्यवस्थां मलिनश् चलः ।
आत्मनस् सदृशीं लोलां जीवो हृद्वनमर्कटः ॥
दीर्घम् आकारम् आदाय निमेषाद् यान्ति ह्रस्वताम् ।
ग्रहीतुं च न युज्यन्ते सङ्कल्पा जडवीचयः ॥
मनाग्दृष्टा विवर्धन्ते दहन्ति सपरिच्छदम् ।
तृणमात्रेण दीप्यन्ते सङ्कल्पा वह्निशेषवत् ॥
जगत्प्रकटनाकाराः प्रदीप्ताः क्षणभङ्गुराः ।
भ्रमदा जडसंस्थानास् सङ्कल्पास् तडिदग्नयः ॥
यदैवासन्न् अयं पुत्र तदैवाशु चिकित्सितुम् ।
शक्यते नात्र सन्देहो नासत् सद् भवति क्वचित् ॥
सन् स्थितो यदि सङ्कल्पो दुश्चिकित्सस् ततो भवेत् ।
किं त्व् असद्भूत एवैष सुचिकित्सस् तदा भृशम् ॥
अकृत्रिमं चेत् संसारमलम् अङ्गारकार्ष्ण्यवत् ।
तद् एतत्क्षालने साधो कः प्रवर्तेत दुर्मतिः ॥
किं त्व् एतत् तण्डुले शूकतुषकम्बुकवत् स्थितम् ।
यदा तदा प्रयत्नेन पौरुषेण विनश्यति ॥
अकृत्रिमम् अपि प्राप्तं भृशं कृत्रिमतां सुत ।
सुखोच्छेद्यतया ज्ञस्य संसारमलम् आततम् ॥
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।
नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् ॥
जीवस्य तण्डुलस्येव मलं सहजम् अप्य् अलम् ।
नश्यत्य् एव न सन्देहस् तस्माद् उद्यमवान् भव ॥
असत्कल्पैर् विकल्पैर् यस् संसारो जनितो मुधा ।
स्तोकेनासौ लयं याति क्वासद् वस्तु किल स्थिरम् ॥
असत्ताम् एति संसारस् स्वां व्यवस्थां विचिन्वतः ।
दीपालोकाद् इवान्धत्वं द्वीन्दुत्वं स्वीक्षिताद् इव ॥
नेदं तव न चास्य त्वं भ्रान्तिं पुत्र परित्यज ।
असत्ये सत्यवद् दृष्टे भावनां मा न्यवीविशः ॥
मम गुरुविभवोज्ज्वला विलासा इति तव मास्तु वृथैव विभ्रमो ऽन्तः ।
त्वयि सति वितताश् च ते विलासा विलसति सर्वम् इदं तदात्मतत्त्वम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0