भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.35

4.35.1

अथापृच्छत् सुतस् तत्र जम्बुद्वीपे महानिशि ।
कदम्बाग्रावचूलस्थं पितरं पावनाशयः ॥

4.35.2

को ऽसौ स्वोत्थ इति ख्यातो भूपस् तातोत्तमाकृतिः ।
कथितं च किम् एतन् मे त्वयैतद् ब्रूहि तत्त्वतः ॥

4.35.3

क्व भविष्यति निर्माणं वर्तमाने क्व गम्यताम् ।
उभयार्थविरुद्धत्वान् मोहार्थाय वचस् तव ॥

4.35.4

शृणु पुत्र यथाभूतम् एतत् ते कथयाम्य् अहम् ।
येन संसारचक्रस्य तत्त्वम् अस्यावबुध्यसे ॥

4.35.5

असदभ्युत्थितारम्भम् अवस्तुमयम् आततम् ।
संसारसंस्थानम् इदम् एवम् आकथितं मया ॥

4.35.6

परमान् नभसो जातस् सङ्कल्पस् स्वोत्थ उच्यते ।
जायते स्वयम् एवासौ स्वयम् एव विलीयते ॥

4.35.7

तत्स्वरूपम् इदं सर्वं जगद् आभोगि विद्यते ।
जायते तेन जातेन तस्मिन् नष्टे विनश्यति ॥

4.35.8

ब्रह्मविष्ण्विन्द्ररुद्रादींस् तस्यैवावयवान् विदुः ।
विटपान् इव वृक्षस्य शृङ्गाणीव महीभृतः ॥

4.35.9

शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम् ।
प्रतिभासानुसन्धानमात्रेणैत्य विरिञ्चताम् ॥

4.35.10

यत्रेमे विततालोका लोककोशाश् चतुर्दश ।
वनोपवनपाल्यश् च यत्रोद्यानपरम्पराः ॥

4.35.11

क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः ।
शीतोष्णदीप्ती चन्द्रार्कौ दीपौ यत्रानिलाक्षतौ ॥

4.35.12

सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः ।
वहन्त्यस् सरितो यत्र सन्मुक्तावलयश् चलाः ॥

4.35.13

इक्षुक्षीरादिसलिला मणिरत्नबिसाङ्कुराः ।
और्वानलाम्बुजा यत्र वाप्यस् सप्त महार्णवाः ॥

4.35.14

अध उर्व्यां तथोर्ध्वे खे पुण्यापुण्यधनश्रियः ।
नरामरकिराटानां यत्रातिक्रयविक्रयौ ॥

4.35.15

तस्मिन्न् एव जगत्य् अस्मिन् पुरे सङ्कल्पभूभुजा ।
क्रीडार्थम् आत्मनश् चित्रा देहाववरकाः कृताः ॥

4.35.16

केचिद् गीर्वाणनामान ऊर्ध्व एव नियोजिताः ।
नरोरगादयः केचिद् अध एव निवेशिताः ॥

4.35.17

वातयन्त्रप्रवाहेण चलन्तो मांसमृण्मयाः ।
सितास्थिदारवश् चित्रास् त्वग्लेपमसृणामलाः ॥

4.35.18

केचिच् चिरेण नश्यन्ति केचिच् छीघ्रविनाशिनः ।
कचकृष्णोलपोल्लासरचिताच्छादनश्रियः ॥

4.35.19

कर्णाक्षिनासाप्रमुखैर् द्वारैर् नवभिर् अन्विताः ।
अनारतवहत्प्राणपवनेनोष्णशीतलाः ॥

4.35.20

कर्णनासास्यताल्वादिवातायनगणान्विताः ।
भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः ॥

4.35.21

मायया रचितास् तेषु सङ्कल्पेन महामते ।
अहङ्कारमहायक्षाः परमालोकभीरवः ॥

4.35.22

देहाववरकेष्व् अन्तर् महाहङ्कारयक्षकैः ।
स हि सङ्क्रीडते ऽत्यर्थम् असद् एवासदुत्थितैः ॥

4.35.23

यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा ।
मुक्ताफलं यथा वेणाव् अहङ्कारस् तनौ तथा ॥

4.35.24

क्षणम् अभ्युदयं याति क्षणं शाम्यति दीपवत् ।
देहगेहेषु सङ्कल्पस् तरङ्गस् सागरेष्व् इव ॥

4.35.25

भविष्यन्नवनिर्माणम् अप्य् आप्नोति तदा पुरम् ।
यदा सङ्कल्पितं वस्तु पुर एव प्रपश्यति ॥

4.35.26

असङ्कल्पनमात्रेण स्वेनैवाशु विनश्यति ।
श्रेयसे परमायास्य नाशस् स्वो न तु सम्भवः ॥

4.35.27

स्वयं सङ्कल्पनामात्राज् जायते बालयक्षवत् ।
अनन्तायात्मदुःखाय नानन्दाय कदाचन ॥

4.35.28

इदं स्फारं जगद्दुःखं प्रतनोत्य् आत्मसत्तया ।
असत्तया नाशयति क्षणम् आन्ध्यं यथा तमः ॥

4.35.29

स्वयैव दुःखदायिन्या चेष्टया परिरोदिति ।
काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर् यथा ॥

4.35.30

सङ्कल्पितानन्दलवस् तिष्ठत्य् उद्धुरकन्धरम् ।
अकस्मात् खच्युतमधुबिन्दुभुक् करभो यथा ॥

4.35.31

स्वयं विरतिम् आयाति क्षणम् एति रतिं क्षणम् ।
क्षणं विकारम् आयाति सङ्कल्पो ऽभव्यबालवत् ॥

4.35.32

एनं सकलभावेभ्यः कृत्वा निर्मलम् आदरात् ।
मतिमन्तः पदं याता यथा पुत्र तथा कुरु ॥

4.35.33

त्रयस् त्व् अस्या मतेर् देहा उत्तमाधममध्यमाः ।
तमस्सत्त्वरजस्सञ्ज्ञाः कारणं जगतस् स्थितेः ॥

4.35.34

तमोरूपो हि सङ्कल्पो नित्यं प्राकृतचेष्टया ।
परां कृपणताम् एत्य प्रयाति क्रिमिकीटताम् ॥

4.35.35

सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः ।
अदूरकेवलीभावस् साम्राज्यम् अधितिष्ठति ॥

4.35.36

रजोरूपो हि सङ्कल्पो लोकसंव्यवहारवान् ।
परितिष्ठति संसारे पुत्रदारानुरञ्जितः ॥

4.35.37

त्रिविधं तु परित्यज्य रूपम् एतन् महामते ।
सङ्कल्पः परम् आयाति पदम् आत्मपरिक्षये ॥

4.35.38

सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः ।
सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु ॥

4.35.39

यदि वर्षसहस्रान्तं तपश् चरसि दारुणम् ।
यदि वा लीलयात्मानं शिलया चूर्णयस्य् अलम् ॥

4.35.40

यद्य् अम्बुधिं प्रविशसि वडवाग्निम् अथापि वा ।
यदि वा पतसि श्वभ्रे खड्गधाराजले ऽथ वा ॥

4.35.41

हरो यद्य् उपदेष्टा ते हरिः कमलजो ऽपि वा ।
अत्यन्तकरुणाक्रान्तो लोकनाथो ऽथ वाक्पतिः ॥

4.35.42

पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत् तव ।
नान्यः कश्चिद् उपायो ऽस्ति सङ्कल्पोपशमाद् ऋते ॥

4.35.43

अनादाव् अविकारे च सुखे परमपावने ।
सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु ॥

4.35.44

सङ्कल्पतन्ताव् अखिला भावाः प्रोताः किलानघ ।
भिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः ॥

4.35.45

असत् सत् सदसत् सर्वं सङ्कल्पाद् एव नान्यतः ।
सङ्कल्पात् सद् असच् चैवम् इह सत्यं किम् उच्यताम् ॥

4.35.46

सङ्कल्प्यते यथा यद् यत् तत् तथा भवति क्षणात् ।
मा किञ्चिद् अपि तत्त्वज्ञ सङ्कल्पय कदाचन ॥

4.35.47

निस्सङ्कल्पो यथाप्राप्तव्यवहारपरो भव ।
चिद् अचेत्योन्मुखत्वं हि याति सङ्कल्पसङ्क्षये ॥

4.35.48

उत्थायासत्यरूपेण येनासत्यमयात्मकम् ।
ततं जगद्दुःखम् इदं व्यर्थं सदृशम् आत्मनः ॥

4.35.49

तेन दुःखाय महते किं श्रितेन किलानघ ।
यद् अदुःखाय तत् प्राज्ञास् संश्रयन्तीह नेतरत् ॥

4.35.50

अधिगतपरमार्थताम् उपेत्य प्रसभम् अपास्य विकल्पजालम् उच्चैः ।
अधिगमय पदं तद् अद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc