मोक्षोपाय · अध्याय 4.34
कदाचिद् अथ मार्गेण तेन कैलासवाहिनीम् ।
अहं स्नातुम् अदृश्यात्मा व्योमवीथिगतो ऽगमम् ॥
निर्गत्य नभसस् सप्तमुनिमण्डलकोटरात् ।
रात्रौ प्राप्तो ऽस्मि सुमते दाशूरतरुपृष्ठखम् ॥
यावच् छृणोमि विटपकुहरात् कानने वचः ।
कुट्मलाम्भोजबद्धस्य षट्पदस्येव निस्स्वनम् ॥
शृणु पुत्र महाबुद्धे वस्तुनो ऽस्य समाम् इमाम् ।
वर्णयामि महाश्चर्याम् एकाम् आख्यायिकां तव ॥
अस्ति राजा महावीर्यो विख्यातो भुवनत्रये ।
नाम्ना स्वोत्थ इति श्रीमाञ् जगदाक्रमणे क्षमः ॥
यस्यानुशासनं सर्वे भुवनेष्व् अपि नायकाः ।
शिरोभिर् धारयन्त्य् उच्चैश् चूडामणिम् इवोत्तमम् ॥
यस् साहसैकरसिको नानाश्चर्यविहारवान् ।
केनचित् त्रिषु लोकेषु न महात्मा वशीकृतः ॥
यस्यारम्भसहस्राणि सुखदुःखप्रदान्य् अलम् ।
सङ्ख्यातुं नैव शक्यन्ते कल्लोला जलधेर् इव ॥
यस्य वीर्यं सुवीर्यस्य न शस्त्रास्त्रैर् न पावकैः ।
केनचिद् भुवने क्रान्तम् आकाशम् इव मुष्टिना ॥
यदीयां विततारम्भां लीलां निर्माणभासुराम् ।
न मनाग् अनुकुर्वन्ति शक्रोपेन्द्रहरा अपि ॥
त्रयस् तस्य महाबाहो देहा दिग्भरणक्षमाः ।
जगद् आकृष्य तिष्ठन्ति उत्तमाधममध्यमाः ॥
व्योमन्य् एवातिवितते जातो ऽसौ त्रिशरीरकः ।
तत्रैव च स्थितिं यातश् शब्दवातखपक्षिवत् ॥
तत्रैवापारगगने नगरं तेन निर्मितम् ।
चतुर्दशमहारथ्यं विभागत्रयभूषितम् ॥
वनोपवनमालाढ्यं क्रीडाशिखरिसुन्दरम् ।
मुक्तालताविवलितं वापीसप्तकभूषितम् ॥
शीतलोष्णात्मकाक्षीणदीपद्वयविराजितम् ।
ऊर्ध्वाधोगतिरूपेण वणिङ्मार्गेण सङ्कुलम् ॥
तस्मिन्न् एवातिविपुले पत्तने तेन भूभृता ।
सञ्चारिणो विरचिता मुग्धाववरका गणाः ॥
ऊर्ध्वे केचिद् अधः केचिन् मध्ये केचिन् नियोजिताः ।
केचिच् चिरेण नश्यन्तः केचिच् छीघ्रविनाशिनः ॥
असितच्छादनाच्छन्ना नवद्वारविभूषिताः ।
अनारतवहद्वाता बहुवातायनान्विताः ॥
दीपपञ्चकसालोकास् त्रिस्थूणाश् शुक्लदारवः ।
मसृणालेपमृदवः प्रतोलीकुलसङ्कुलाः ॥
मायया रचितास् तेन राज्ञा तेषु महामते ।
रक्षितारो महायक्षा नित्यम् आलोकभीरवः ॥
अथाववरकौघेषु चलत्सु स महीपतिः ।
करोति विविधाः क्रीडा नीडेष्व् इव विहङ्गमः ॥
त्रिशरीरस् स तेष्व् अन्तस् तैर् यक्षैस् सह पुत्रक ।
लीलालसम् उषित्वाशु पुनर् निष्क्रम्य गच्छति ॥
तस्येच्छा जायते वत्स कदाचिच् चलचेतसः ।
पुरं भविष्यन्निर्माणं किञ्चिद् यामीति निश्चला ॥
भूताविष्ट इवावेगात् तत उत्थाय धावति ।
पुरं तद् अप्य् अवाप्नोति गन्धर्वैर् इव निर्मितम् ॥
तस्येच्छा जायते नाम कदाचिज् जडचेतसः ।
विनाशं सम्प्रयामीति तेनाशु स विनश्यति ॥
पुनर् उत्पद्यते तूर्णं खान् महोर्मिर् इवाम्भसः ।
व्यवहारं तनोत्य् उच्चैः पुनर् आरम्भमन्थरम् ॥
स्वयैव व्यवहृत्याथ कदाचित् परिदूयते ।
किं करोमीदम् अज्ञो ऽस्मि दुःखितो ऽस्मीति शोचति ॥
मुदम् एत्य कदाचिच् च स्वयम् आयाति पीनताम् ।
प्रावृड्वर्षजलोल्लासपूराद् इव नदीरयः ॥
पिबति वल्गति गच्छति जृम्भते स्फुरति भाति न भाति च भासुरः ।
सुत महामहिमा स महीपतिः पतिर् अपाम् इव वातरयाकुलः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0