मोक्षोपाय · अध्याय 4.33
ततः प्रभृति तत्रासौ प्रसिद्धस् तापसाश्रमे ।
कदम्बदाशूर इति शूरस् तपसि दारुणे ॥
तस्मिंल् लतादले स्थित्वा विलोक्य ककुभः क्षणम् ।
दृढं पद्मासनं बद्ध्वा दिग्भ्यः प्रत्याहृतात्मना ॥
अज्ञातपरमार्थेन क्रियामात्रे च तिष्ठता ।
फलकार्पण्ययुक्तेन मनसा सो ऽकरोन् मखम् ॥
नभोगतलतापत्त्रसंस्थितेन वनान्तरे ।
सर्वास् स्वमनसा तेन कृता यज्ञक्रियाः क्रमात् ॥
तत्रासौ दश वर्षाणि मनसैवायजत् सुरान् ।
गवाश्वनरमेधाद्यैर् यज्ञैर् विपुलदक्षिणैः ॥
कालेनामलतां याते वितते तस्य चेतसि ।
बलाद् अवततारान्तर् ज्ञानम् आत्मप्रसादजम् ॥
ततो विशीर्णावरणो विगलद्वासनामलः ।
अवसत् पल्लवे तस्मिन् मुनिर् विगतकल्मषः ॥
स ददर्शैकदा तस्यां लतायाम् अग्रतस् स्थिताम् ।
वनदेवीं विशालाक्षीम् आलोलकुसुमाम्बराम् ॥
कामिनीकान्तवदनां मदघूर्णितलोचनाम् ।
नीलोत्पलामोदवतीम् अतीव सुमनोहराम् ॥
ताम् उवाचानवद्याङ्गीं स मुनिर् विनताननाम् ।
कोकिलः कुसुमापूरनतां वनलताम् इव ॥
का त्वम् उत्पलपत्त्राक्षि परिविक्षोभितस्मरा ।
वयस्याम् इव पुष्पाढ्यां लतां किम् अधितिष्ठसि ॥
इत्य् उक्ता मृगशावाक्षी गौरी पीनपयोधरा ।
मुनिम् आह मनोहारि मुग्धाक्षरम् इदं वचः ॥
यानि यानि दुरापानि वाञ्छितानि महीतले ।
प्राप्यन्ते तानि तान्य् आशु महताम् एव याच्ञया ॥
अहम् अस्मिंल् लताकीर्णे त्वत्कदम्बाभ्यलङ्कृते ।
लतालीलालया ब्रह्मन् विपिने वनदेवता ॥
ह्यश् चैत्रसितपक्षस्य त्रयोदश्यां स्मरोत्सवे ।
बभूव वनदेवीनां समाजो नन्दने वने ॥
सामोदपुष्पभ्रमरे कोकिलालिपरिच्छदा ।
तत्राहम् अगमं नाथ त्रैलोक्यललनासदः ॥
ततो दृष्टा मया सर्वा वयस्या मदनोत्सवे ।
अपुत्रया पुत्रयुतास् तेनाहं दुःखिता भृशम् ॥
त्वयि सर्वार्थिसार्थस्य बृहत्कल्पतरौ स्थिते ।
अनाथेव कथं नाथ किल शोच्यास्म्य् अपुत्रिका ॥
देहि मे भगवन् पुत्रं नो चेद् देहम् इहाग्नये ।
प्रकरोम्य् आहुतिं पुत्रदुःखदाहोपशान्तये ॥
ताम् इत्य् उक्तवतीं तन्वीं विहस्य मुनिपुङ्गवः ।
प्राह हस्तगतं पुष्पं तस्यै दत्त्वा दयान्वितः ॥
गच्छ तन्वङ्गि मासेन पूजार्हम् अलिलोचनम् ।
प्रसोष्यसे सुतं कान्तं प्रसूनम् इव सल्लता ॥
किं त्व् असौ मरणावेशपापिन्येतस् त्वया यतः ।
याचितः कृच्छ्रसम्प्राप्यज्ञानस् तेन भविष्यति ॥
इत्य् उक्त्वा स मुनिस् तन्वीं प्रसन्नमुखमण्डलाम् ।
परिचर्यां करोमीति प्रार्थनोत्कां व्यसर्जयत् ॥
सा जगामात्मसदनं सो ऽतिष्ठत् स्वात्मना सह ।
अवहत् क्रमशः काल ऋतुसंवत्सराङ्कितः ॥
अथ दीर्घेण कालेन सैवोत्पलविलोचना ।
द्वादशाब्दम् उपादाय सुतं मुनिम् उपाययौ ॥
सम्प्रणम्योपविश्याग्रे मुनिम् इन्दुसमानना ।
उवाच कलया वाचा चूतद्रुमम् इवालिनी ॥
अयं स भगवन् भव्यः कुमारः पुत्र आवयोः ।
कृतो मया समग्राणां कलानां किल कोविदः ॥
प्रभो केवलम् एतेन ज्ञानं नाधिगतं शुभम् ।
येन संसारयन्त्रे ऽस्मिन् न पुनः परिपीड्यते ॥
ज्ञानं त्वम् एवास्य विभो कृपयोपदिशाधुना ।
को हि नाम कुले जातं पुत्रं मौर्ख्ये नियोजयेत् ॥
एवंवदन्तीं स मुनिर् मच्छिष्यम् अबले सुतम् ।
इहैव स्थापयैनं त्वम् इत्य् उक्त्वा तां व्यसर्जयत् ॥
तस्यां गतायां स पितुर् अन्तेवासितया तदा ।
अतिष्ठत् संयतो धीमान् अर्कस्येवारुणः पुरः ॥
कदर्थप्राप्यविज्ञानं ततश् चित्राभिर् उक्तिभिः ।
चिरं कालम् असौ तत्र मुनिः पुत्रं व्यबोधयत् ॥
आख्यायिकाख्यानशतैर् दृष्टान्तैर् दृष्टकल्पितैः ।
तथेतिहासवृत्तान्तैर् वेदवेदान्तनिश्चयैः ॥
अनुद्वेगितया नित्यं विस्तरेण कथाक्रमैः ।
अनुभूतिम् उपारूढै रूढैर् अतिधियां धियि ॥
अनुभववशतो रसातिरिक्तैर् अलम् उचितार्थवचोगणैर् महात्मा ।
जलद इव शिखण्डिनं पुरस्स्थं तनयम् अबोधयद् अम्बरे महर्षिः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0