भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.32

4.32.1

तम् अथासौ महाबुद्धिः फलपल्लवशालिनम् ।
आनन्दमन्थरमनाः पुष्परूपाचलोपमम् ॥

4.32.2

कदम्बं रोदसीस्तम्भम् आरुरोह वनस्थितम् ।
एकार्णवगतं शौरिः कल्पवृक्षम् इवोन्नतम् ॥

4.32.3

तत्रासौ व्योमलग्नायाश् शाखायाः प्रान्तपल्लवे ।
विवेशाधिगताकाशम् ऐडूकप्रान्तबुद्धवत् ॥

4.32.4

अथोपविश्य मृदुनि नवपल्लवविष्टरे ।
क्षणम् आलोकितास् तेन दिशः कौतुकमन्थरम् ॥

4.32.5

सरिदेकावलीरम्याश् शैलेन्द्रस्तनकुट्मलाः ।
निर्मलाकाशकवरा लोलनीलाम्बुदालकाः ॥

4.32.6

नीलशाद्वलवसनाः पुष्पगौरवनाङ्गिकाः ।
गृहीतसागरापूर्णकलशाः पुरभूषणाः ॥

4.32.7

धृतप्रफुल्लपद्मिन्यस् सुगन्धिमुखमारुताः ।
ग्रामघुङ्घुमकाकल्यो निर्झरारवनूपुराः ॥

4.32.8

द्युमूर्धानो महीपादा वनालीरोमराजयः ।
जङ्गलोरुनितम्बिन्यश् चन्द्रार्ककृतकुण्डलाः ॥

4.32.9

शालिसञ्चारकेदारचन्दनस्थासकाङ्किताः ।
शिखरोरसिजालग्नहिमशुभ्राम्बुदांशुकाः ॥

4.32.10

महार्णवपयःपूरनवमण्डनदर्पणाः ।
वृक्षौघघर्मपुलका भुवनान्तःपुरान्तराः ॥

4.32.11

आर्तवस्नानधारिण्यो लग्नसूर्यांशुकुङ्कुमाः ।
विचित्रकुसुमोपेताश् चन्द्रांशुसितचन्दनाः ॥

4.32.12

गगनतललतादलोपविष्टः प्रसृतवनावलिवारिवाहवेषाः ।
त्रिभुवनवनिता ददर्श हृष्टः कुसुमनिरन्तरमण्डिता दशाशाः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc