भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.30

4.30.1

क्रियाविशेषबहुला भोगैश्वर्यहताशयाः ।
नावेक्षन्ते यदा सत्यं न पश्यन्ति शठास् तदा ॥

4.30.2

ये तु पारं गता बुद्धेर् इन्द्रियैर् न वशीकृताः ।
त एतां जागतीं मायां पश्यन्ति करबिल्ववत् ॥

4.30.3

ननु तां जागतीं मायां जीवो दृष्ट्वा विचारवान् ।
अहङ्कारमयीं आस्थां त्यजत्य् अहिर् इव त्वचम् ॥

4.30.4

असक्ततां ततो ऽभ्येत्य पुनर् नाम न जायते ।
क्षेत्रे ऽपि सुचिरं तिष्ठद् बीजं दग्धम् इवाग्निना ॥

4.30.5

आधिव्याधिपरीताय प्रातर् वाद्य विनाशिने ।
प्रयतन्ते शरीराय हितम् अज्ञास् तु नात्मने ॥

4.30.6

त्वम् अप्य् अज्ञवद् अज्ञस्य शरीरस्य समीहितम् ।
मा सम्पादय दुःखाय भवात्मैकपरायणः ॥

4.30.7

दाशूराख्यायिकेवेयं नाम संसारचक्रिका ।
कल्पनारचिताकारा वस्तुशून्येति किं प्रभो ॥

4.30.8

जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः ।
दाशूराख्यायिकां राम वर्ण्यमानां मया शृणु ॥

4.30.9

अस्त्य् अस्मिन् वसुधापीठे विचित्रकुसुमद्रुमः ।
मगधा नाम विख्यातश् श्रीमाञ् जनपदो महान् ॥

4.30.10

कदम्बवनविस्तारी तालावलितजङ्गलः ।
विचित्रविहगव्यूहस् सर्वाश्चर्यमनोहरः ॥

4.30.11

सस्यसङ्कटसीमान्तः पुरोपवनमण्डितः ।
कमलोत्पलकल्हारपूर्णसर्वसरित्तटः ॥

4.30.12

उद्यानदोलाविलसल्ललनागेयघुङ्घुमी ।
निशोपभुक्तकुसुमनीरन्ध्रविशिखावनिः ॥

4.30.13

तत्रैकस्मिन् गिरितटे कर्णिकारसमाकुले ।
कदलीषण्डनीरन्ध्रे नीपगुल्मविराजिते ॥

4.30.14

कूजच्चकोरचमरे ध्वनन्निर्झरवारिणि ।
फुल्लचूतलताजाले प्रगीतकलकोकिले ॥

4.30.15

पुलिन्दलीलालुलिते तालावृतनभस्तले ।
उत्फुल्लपद्मिनीशारे जीवजीवकजीविते ॥

4.30.16

पुष्पौघस्फूर्जदनिले केसरारुणधूलिनि ।
कारण्डवकृतारावे सरत्सरससारसे ॥

4.30.17

तस्मिन् नगवरे पुण्ये विचित्रविहगद्रुमे ।
कश्चित् परमधर्मात्मा मुनिर् आसीन् महातपाः ॥

4.30.18

दाशूरनामा महता तपोयोगेन संयुतः ।
कदम्बपृष्ठवास्तव्यो वीतरागो महामतिः ॥

4.30.19

ऋषिस् तपस्वी भगवन् विपिने केन हेतुना ।
कथं वाप्य् अवसत् पृष्ठे कदम्बस्य महातरोः ॥

4.30.20

शरलोमेति विख्यातः पिता तस्य बभूव ह ।
नाम्नापर इव ब्रह्मा तस्मिन्न् एवावसद् गिरौ ॥

4.30.21

तस्यासाव् एकपुत्रो ऽभूत् कचो देवगुरोर् इव ।
तेन सार्धं स पुत्रेण नीतवाञ् जीवितं वने ॥

4.30.22

अथासौ शरलोमात्र भुक्त्वा युगगणं ययौ ।
त्यक्तदेहस् सुरागारं त्यक्तनीडः खगो यथा ॥

4.30.23

एक एव वने तस्मिन् दाशूरः प्ररुरोद ह ।
दशापनीतपितृकः करुणं कुररो यथा ॥

4.30.24

मातापितृवियोगेन शोकसन्तापिताशयः ।
म्लानिम् अभ्याययौ नूनं हेमन्त इव पङ्कजम् ॥

4.30.25

बालो ऽसाव् अथ दीनात्मा वनदेवतया वने ।
इत्थम् आश्वासितो राम तदादृश्यशरीरया ॥

4.30.26

ऋषिपुत्र महाप्राज्ञ किम् अज्ञ इव रोदिषि ।
संसारस्य न कस्मात् त्वं स्वरूपं वेत्सि चञ्चलम् ॥

4.30.27

सर्वदैवेदृशी साधो संसारी संसृतिश् चला ।
जायते जीवते पश्चाद् अवश्यं च विनश्यति ॥

4.30.28

यद् यत् किञ्चिद् दृशोर् दृश्यं ब्रह्मादिकम् इदं मुने ।
गन्तव्यस् तेन सर्वेण विनाशो नात्र संशयः ॥

4.30.29

तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः ।
अवश्यभाव्य् अस्तमयो जातस्याहर्पतेर् इव ॥

4.30.30

अशरीराम् इति श्रुत्वा गिरम् आरक्तलोचनः ।
धैर्यम् आसादयाम् आस शिखण्डी स्तनिताद् इव ॥

4.30.31

उत्थायावश्यकं कृत्वा पाश्चात्यं पितुर् आदृतः ।
चकार तपसे बुद्धिं दृढाम् उत्तमसिद्धये ॥

4.30.32

ब्राह्मेण कर्मणा तस्य विपिने चरतस् तपः ।
अनन्तसङ्कल्पमयं श्रोत्रियत्वं बभूव ह ॥

4.30.33

अज्ञातज्ञेयबुद्धेस् तु सुश्रोत्रियतया तया ।
न विशश्राम चेतो ऽस्य पवित्रे ऽपि धरातले ॥

4.30.34

केवलं सर्वम् एवेदम् अपि शुद्धं धरातलम् ।
अशुद्धम् इव पश्यन् स न रेमे क्वचिद् एव हि ॥

4.30.35

अथ सङ्कल्पयाम् आस स्वसङ्कल्पनयैव सः ।
वृक्षाग्रम् एव संशुद्धं स्थितिर् अत्रोचिता मम ॥

4.30.36

तद् इदानीं तपस् तप्स्ये तपसा येन शाखिषु ।
खगवत् स्थितिम् आप्नोमि शाखासु च दलेषु च ॥

4.30.37

इति सञ्चिन्त्य सञ्ज्वाल्य हुताशम् अतिभास्वरम् ।
जुहाव तस्मिन् प्रोत्कृत्य मांसं स्वं स्कन्धभित्तितः ॥

4.30.38

अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः ।
मन्मुखस्थेन मा यान्तु विप्रमांसेन भस्मसात् ॥

4.30.39

इति सञ्चिन्त्य भगवान् सप्तार्चिस् तस्य देहवान् ।
पुरो बभूव दीप्तांशुर् दीप्तांशुर् वाक्पतेर् इव ॥

4.30.40

उवाच वचनं वीरकुमाराभिमतं वरम् ।
गृहाण स्थापितं साधो कोशकोशान् मणिं यथा ॥

4.30.41

इत्य् उक्तवन्तम् अनलम् अर्घपुष्पोपशोभिना ।
सम्पूज्य स्तुतिवादेन प्राह विप्रकुमारकः ॥

4.30.42

भगवन् भूतपूर्णाया भुवः पावनम् अङ्गनम् ।
नाप्नोमि तेन वृक्षाणाम् उपरि स्थितिर् अस्तु मे ॥

4.30.43

इत्य् उक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी ।
एवम् अस्तु तम् इत्य् उक्त्वा जगामान्तर्धिम् ईश्वरः ॥

4.30.44

तस्मिन्न् अन्तर्हिते देवे क्षणात् सान्ध्य इवाम्बुदे ।
पूर्णकामः कुमारो ऽसाव् आपूर्णेन्दुर् इवाबभौ ॥

4.30.45

अधिगताभिमताननमण्डलद्युतिजवेन जहास स तुष्टिमान् ।
शशिनम् आप्तकलाकुलम् अम्बुजं विकसितं च सितं स्मितशोभिना ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc