भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.29

4.29.1

भगवन् सर्वधर्मज्ञ वेदवेदान्तपारग ।
आश्वस्त इव तिष्ठामि शुद्धाभिर् भवदुक्तिभिः ॥

4.29.2

उदाराणि विरक्तानि पेशलान्य् उचितानि च ।
श्रोतुं तृप्तिं न गच्छामि वचांसि वदतस् तव ॥

4.29.3

जात्या राजससात्त्विक्याः कथनावसरान्तरे ।
उत्पत्तिर् भवता प्रोक्ता भगवन् पद्मजन्मनः ॥

4.29.4

अत्रायं मम सन्देहो महात्मन् हृदि वर्तते ।
सर्वसंशयविच्छेदकारिन्न् आशु तद् उच्यताम् ॥

4.29.5

क्वचिद् अब्जात् क्वचिद् व्योम्नः क्वचिद् अण्डात् क्वचिज् जलात् ।
चित्रोत्पत्तिः कथं प्रोक्ता शास्त्रे कमलजन्मनः ॥

4.29.6

बहूनि ब्रह्मलक्ष्याणि शङ्करेन्द्रशतानि च ।
नारायणसहस्राणि समतीतानि राघव ॥

4.29.7

अद्यान्येषु विचित्रेषु ब्रह्माण्डेषु च भूरिषु ।
नानाचारविहाराणि विहरन्ति सहस्रशः ॥

4.29.8

तुल्यकालम् अनन्तेषु कालान्तरभवेषु च ।
जगत्सु प्रोद्भविष्यन्ति बहून्य् अन्यानि भूरिशः ॥

4.29.9

तेषाम् अब्जोद्भवादीनां तेष्व् अण्डेषु दिवौकसाम् ।
उत्पत्तयो महाबाहो विचित्राः कथिता दिवि ॥

4.29.10

कदाचित् सृष्टयश् शार्व्यः कदाचित् पद्मजोद्भवाः ।
कदाचिद् अपि वैष्णव्यः कदाचिन् मुनिनिर्मिताः ॥

4.29.11

कदाचिद् अब्जजो ब्रह्मा कदाचित् सलिलोद्भवः ।
अण्डोद्भवः कदाचिच् च कदाचिज् जायते ऽम्बरात् ॥

4.29.12

कस्मिंश्चिद् अण्डे त्र्यक्षो ऽर्कः कस्मिंश्चिद् अपि वासवः ।
कस्मिंश्चित् पुण्डरीकाक्षः कस्मिंश्चित् त्र्यक्ष एव हि ॥

4.29.13

कस्याञ्चिद् भूर् अभूत् सृष्टौ नीरन्ध्रतरुसङ्कटा ।
कस्याञ्चिन् नरनीरन्ध्रा कस्याञ्चिद् भूधरावृता ॥

4.29.14

भूर् अभून् मृण्मयी काचित् काचिद् आसीद् दृषन्मयी ।
आसीद् धेममयी काचित् काचिन् मांसमयी तथा ॥

4.29.15

इहैव कानिचित् तानि जगन्त्य् अन्यान्य् अथान्यथा ।
अन्योऽन्यैकैकलोकानि निर्वेधांस्य् अपि कानिचित् ॥

4.29.16

अनन्तानि जगन्त्य् अस्मिन् ब्रह्मतत्त्वमहाम्बरे ।
अम्भोधिवीचिव्रजवन् निमज्जन्त्य् उद्भवन्ति च ॥

4.29.17

यथा तरङ्गा जलधौ मृगतृष्णा मरौ यथा ।
कुसुमानि यथा चूते तथा विश्वश्रियः परे ॥

4.29.18

भानोर् गणयितुं शक्या रश्मिषु त्रसरेणवः ।
आलोलवपुषो ब्रह्मतत्त्वे न जगतां गणाः ॥

4.29.19

यथा मषकजालानि वर्षास्व् इक्षुवनालिषु ।
उत्पत्योत्पत्य नश्यन्ति तथेमा लोकसृष्टयः ॥

4.29.20

न च विज्ञायते कस्मात् कालात् प्रभृति चागताः ।
नित्यागमापायपरा एतास् सर्गपरम्पराः ॥

4.29.21

अनादिमत्यो ऽविरतं प्रस्फुरन्ति तरङ्गवत् ।
पूर्वात् पूर्वं किलाभूवंस् ततः पूर्वतरं तथा ॥

4.29.22

भूत्वा भूत्वा प्रलीयन्ते सुरासुरनरादिकाः ।
सरित्तरङ्गभङ्ग्यैतास् समस्ता भूतजातयः ॥

4.29.23

यथेदम् अण्डं वैरिञ्चं तथा ब्रह्माण्डपङ्क्तयः ।
सहस्रशः परिक्षीणा नालिका वत्सरेष्व् इव ॥

4.29.24

अन्यास् सम्प्रति विद्यन्ते वर्तमानशरीरकाः ।
पारे ब्रह्मपुरस्यास्य वितते ब्रह्मणः पदे ॥

4.29.25

ब्रह्मण्य् अन्या भविष्यन्ति बह्व्यो ब्रह्मपुरश्रियः ।
पुरस्ताच् च विनङ्क्ष्यन्ति भूत्वा भूत्वा यथा गिरः ॥

4.29.26

ब्रह्मण्य् अन्या भविष्यन्त्यस् स्थितास् सर्गपरम्पराः ।
घटा इव मृदो राशाव् अङ्कुरे पल्लवा इव ॥

4.29.27

यावत्समुद्रं जलधौ यथा जलरयोर्मयः ।
यावद्ब्रह्म चिदाकाशे तथा त्रिभुवनश्रियः ॥

4.29.28

स्फाराकारविकाराढ्याः प्रेक्ष्यमाणा न किञ्चन ।
उन्मज्जन्त्यो निमज्जन्त्यो न सत्या नाप्य् असच्छ्रियः ॥

4.29.29

जडा रसान्वितास् तन्व्यस् ताश् शेवाललता इव ।
तरङ्गसमधर्मिण्यो दृष्टनष्टशरीरिकाः ॥

4.29.30

सर्वासां सृष्टिकोटीनां चित्राचारविचेष्टिताः ।
चित्राकारविकाराश् च चित्ररूपाश् च सृष्टयः ॥

4.29.31

व्यतिरिक्ता न सर्वेशात् समग्रास् सृष्टिदृष्टयः ।
तत्त्वज्ञविषया राम सलिलाद् इव वृष्टयः ॥

4.29.32

आयान्ति सृष्टयो देवाज् जलदाद् इव वृष्टयः ।
तस्माद् एवाखिला जाता आलोकाद् इव दृष्टयः ॥

4.29.33

व्यतिरिक्ता न सर्वेशात् समस्तास् सृष्टिदृष्टयः ।
व्यतिरिक्ता इवाभान्ति स्वाष्ठीलाश् शल्मलेर् इव ॥

4.29.34

इह सृष्टिषु पुष्टासु निकृष्टासु च राघव ।
परमान् नभसो जाततन्मात्रमलमालितम् ॥

4.29.35

कदाचित् प्रथमं व्योम प्रतिष्ठाम् उपगच्छति ।
ततः प्रजायते ब्रह्मा व्योमजो ऽसौ प्रजापतिः ॥

4.29.36

कदाचित् प्रथमं वायुः प्रतिष्ठाम् उपगच्छति ।
ततः प्रजायते ब्रह्मा वायुजो ऽसौ प्रजापतिः ॥

4.29.37

कदाचित् प्रथमं वारि स्फारताम् अधिगच्छति ।
ततः प्रजायते ब्रह्मा जलजो ऽसौ प्रजापतिः ॥

4.29.38

कदाचित् प्रथमं पृथ्वी स्फारताम् अधिगच्छति ।
ततः प्रजायते ब्रह्मा पार्थिवो ऽसौ प्रजापतिः ॥

4.29.39

इति चत्वारि सम्पीड्य पञ्चमं वर्धते यदा ।
तदा तज्जतयैवेशः कुरुते जागतीं क्रियाम् ॥

4.29.40

कदाचिद् अप्सु वायौ वा सुस्फारे वापि तेजसि ।
स्वयं सम्पद्यते कश्चित् पुमान् प्रकृतिभावतः ॥

4.29.41

तस्याथ पुंसो वदनात् कदाचिज् जायते पदात् ।
कदाचिद् अंसात् पृष्ठाद् वा कदाचिल् लोचनात् करात् ॥

4.29.42

कदाचित् पुरुषस्यास्य नाभेः पद्मः प्रजायते ।
तस्मिन् सञ्चरते ब्रह्मा पद्मजो ऽसौ प्रकीर्तितः ॥

4.29.43

मायेयं स्वप्नवद् भ्रान्तिर् मिथ्यारचितचक्रिका ।
मनोराज्यरुचिर् लोला सलिलावृत्तिसुन्दरी ॥

4.29.44

किम् इवास्यां वद ज्ञप्तौ कथं सम्भवतीह नो ।
न चेद् बालमनोराज्यम् इदं पर्यनुयुज्यते ॥

4.29.45

कदाचिद् अम्बरे शुद्धे मनस्तत्त्वानुरञ्जनात् ।
सौवर्णं ब्रह्मगर्भं च स्वयम् अण्डं प्रवर्तते ॥

4.29.46

कदाचिद् एष पुरुषो वीर्यं सृजति वारिणि ।
तस्मात् प्रजायते पद्मं ब्रह्माण्डम् अथ वा महत् ॥

4.29.47

तस्मात् प्रजायते ब्रह्मा कदाचिद् भास्करो ह्य् असौ ।
कदाचिद् वरुणो ब्रह्मा कदाचिद् वायुर् अब्जजः ॥

4.29.48

एवम् अन्तर्विहीनासु विचित्रास्व् इह सृष्टिषु ।
विचित्रोत्पत्तयो राम ब्रह्मणो विविधा गताः ॥

4.29.49

निदर्शनार्थं सृष्टेस् तु मयैकस्य प्रजापतेः ।
भवते कथितोत्पत्तिर् अस्येवान्यस्य वानघ ॥

4.29.50

मनोविजृम्भणम् अयं संसार इति सन्मते ।
सम्बोधनाय भवतस् सृष्टिक्रम उदाहृतः ॥

4.29.51

तास् सात्त्विकीप्रभृतयो जातयस् त्व् इत्थम् आगताः ।
इति ते कथनायैष सृष्टिक्रम उदाहृतः ॥

4.29.52

पुनस् सृष्टिः पुनर् नाशः पुनर् दुःखं पुनस् सुखम् ।
पुनर् अज्ञाः पुनस् तज्ज्ञा बन्धमोक्षदृशौ पुनः ॥

4.29.53

पुनः पुनस् सृष्टिकराः पीतस्नेहदशाभृतः ।
दीपा इव कृतालोकाः प्रशाम्यन्त्य् उद्भवन्ति च ॥

4.29.54

देहोत्पत्तौ विनाशे च दीपानां ब्रह्मणाम् अपि ।
कालेनाधिकतां त्यक्त्वा नाशे भेदो न कश्चन ॥

4.29.55

पुनः कृतं पुनस् त्रेता पुनश् च द्वापरः कलिः ।
पुनर् आवर्तते सर्वं चक्रावर्तेहया जगत् ॥

4.29.56

पुनर् मन्वन्तरारम्भाः पुनः कल्पपरम्पराः ।
पुनः पुनः कार्यदशाः प्रातः प्रातर् अहर् यथा ॥

4.29.57

लोकालोककलाकालकलनाकलितान्तरम् ।
पुनः पुनर् इदं सर्वं न किञ्चन पुनः पुनः ॥

4.29.58

अनाहते प्रतप्ते ऽयःपिण्डे ऽनलकणा इव ।
इमे भावास् स्थिता नित्यं चिदाकाशे स्वभावतः ॥

4.29.59

कदाचिद् अनभिव्यक्तं कदाचिद् व्यक्तिम् आगतम् ।
इदम् अस्ति परे तत्त्वे सर्वं वृक्ष इवार्तवम् ॥

4.29.60

चित्स्पन्द एव सर्वात्मा सर्वदैवेदृशाकृतिः ।
यद् अस्माज् जायते सर्गो द्वीन्दुत्वम् इव लोचनात् ॥

4.29.61

चितस् सर्वास् समायान्ति सन्ततास् सृष्टिदृष्टयः ।
तत्स्था एवाप्य् अतत्स्थाभाश् चन्द्राद् इव मरीचयः ॥

4.29.62

न कदाचन संसारः किलायं नाम सर्वदा ।
सर्वशक्ताव् असंसारशक्तिता विद्यते यतः ॥

4.29.63

न चैवेदं कदाचित् तु साधो जगद् अनीदृशम् ।
सर्वशक्तौ हि संसारशक्तिता विद्यते यतः ॥

4.29.64

महाकल्पावधिं कालम् असंसारितयेद्धया ।
न भविष्यति संसार इदानीम् इति युज्यते ॥

4.29.65

ज्ञदृष्ट्या सर्वम् एवेदं ब्रह्मैवेति महामते ।
नास्ति संसार इत्य् एतद् उपपद्यत एव नः ॥

4.29.66

अज्ञदृष्ट्या त्व् अविच्छिन्नसंसारित्वाद् अनारतम् ।
नित्या संसारमायेयम् इत्य् अस्यैवोपपद्यते ॥

4.29.67

पुनः पुनश् च भावित्वान् न कदाचिद् अनीदृशम् ।
जगद् इत्य् एतद् अप्य् उक्तं न मृषा रघुनन्दन ॥

4.29.68

अनारतं पतद्भूता दिशो दृष्ट्वा विनश्वरीः ।
विनाशीदं जगत् सर्वम् इति किं नोपपद्यते ॥

4.29.69

सर्वदोदितचन्द्रार्का दिशो दृष्ट्वा स्थिराचलाः ।
अविनाशि जगत् सर्वम् इत्य् अप्य् अवितथोपमम् ॥

4.29.70

न तद् अस्ति न यत् तस्मिन्न् एकस्मिन् विततात्मनि ।
सङ्कल्पकलनाजालम् अनाख्ये नोपपद्यते ॥

4.29.71

पुनः पुनर् इदं सर्वं पुनर् मरणजन्मनी ।
पुनस् सुखं पुनर् दुःखं पुनः करणकर्मणी ॥

4.29.72

पुनर् आशाः पुनर् व्योम पुनस् साम्बुधयो ऽद्रयः ।
अभ्युदेति पुनस् सृष्टिश् शश्वद् अर्कप्रभा यथा ॥

4.29.73

पुनर् दैत्याः पुनर् देवाः पुनर् लोकान्तरक्रमः ।
पुनस् स्वर्गापवर्गेहा पुनर् इन्द्रः पुनश् शशी ॥

4.29.74

पुनर् नारायणो देवः पुनर् मनुसुतादयः ।
पुनर् आशाश् चलच्चारुचन्द्रार्कवरुणानिलाः ॥

4.29.75

सुमेरुकर्णिका कान्तऋक्षकेसरशालिनी ।
फुल्लस्फीतोदरोदेति रोदसीनलिनी पुनः ॥

4.29.76

व्योमकाननम् आक्रम्य वल्गत्य् अंशुनखोत्करैः ।
तमःकरिघटा भेत्तुं पुनर् भास्करकेसरी ॥

4.29.77

पुनर् इन्दुश् चलच्चूतमञ्जरीसुन्दरैः करैः ।
करोत्य् अमृतम् आह्लादं दिग्वधूमुखमण्डनम् ॥

4.29.78

पुनस् स्वर्गतरोः पुण्यक्षयवातसमीरिताः ।
पतन्तीह विनुन्नाङ्गाः पुण्यकृत्फलपालयः ॥

4.29.79

पुनः कार्यक्रियापक्षैस् संसारारम्भनामकम् ।
किञ्चित् पटपटं कृत्वा याति कालकपिञ्जलः ॥

4.29.80

पुनर् इन्द्रालिके याते राज्यम् आस्वाद्य केसरम् ।
आयात्य् अपरदेवेन्द्रषट्पदस् स्वर्गपङ्कजम् ॥

4.29.81

पुनः कालं कृतापूतं कलुषीकुरुते कलिः ।
सचक्रिणम् इवाम्भोधिं प्रवृद्धो ऽवकरानिलः ॥

4.29.82

पुनः कालकुलालेन कृतभूतशरावकम् ।
चक्रम् आवर्तते वेगाद् अजस्रं कालनामकम् ॥

4.29.83

पुनर् नीरसताम् एति जगद् ध्वस्तशुभस्थिति ।
अभ्याशीभूतकल्पान्तं संशुष्कम् इव काननम् ॥

4.29.84

पुनर् अर्कगणांश्वग्निदग्धानन्तकलेवरम् ।
सर्वभूतास्थिसम्पूर्णं जगद् एति श्मशानताम् ॥

4.29.85

पुनः कुलाचलाकारपुष्करावर्तवर्षणैः ।
नृत्यद्भस्मबृहत्फेनां यात्य् एकार्णवतां जगत् ॥

4.29.86

पुनस् संशान्तवाय्वम्बु रिक्तं सकलवस्तुभिः ।
तदपूर्वम् इवाकाशं जगद् आयाति शून्यताम् ॥

4.29.87

पुनः कतिपया भुक्त्वा समास् समरसाशयः ।
जीवितं जीर्णया तन्वा ब्रह्माध्यात्मनि लीयते ॥

4.29.88

पुनर् अन्येन कालेन तथैव जगतां गणम् ।
मनस् तनोति वै शून्ये गन्धर्वो नगरं यथा ॥

4.29.89

पुनस् सर्गसमारम्भः पुनः प्रलयसम्भवः ।
सर्वं पुनर् इदं राम चक्रवत् परिवर्तते ॥

4.29.90

किम् एतस्मिन् महामायाडम्बरे दीर्घशम्बरे ।
राम सत्यम् असत्यं वा निर्णीय यद् इहोच्यते ॥

4.29.91

दाशूराख्यायिकेवेयं राम संसारचक्रिका ।
कल्पनारचिताकारा वस्तुशून्या तु वस्तुतः ॥

4.29.92

अविरलम् इदम् आततं विकल्पैर् असदुदिताकृतिभिर् द्विचन्द्रकल्पैः ।
विरचितम् असता तु यन् न सत् तज् जगद् इह तेन विमूढता किमुत्था ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc