मोक्षोपाय · अध्याय 4.31
अथ काननमध्यस्थं चुम्बिताम्बुदमण्डलम् ।
मध्याह्नखिन्नसूर्याश्वसेवितस्कन्धमण्डपम् ॥
मिमानम् इव दिक्कुक्षीर् दीर्घैर् विटपबाहुभिः ।
आलोकयन्तं ककुभो विकासिकुसुमेक्षणैः ॥
वातावलुलितानल्पभ्रमद्भ्रमरकुन्तलम् ।
प्रमार्जयन्तम् आशानां मुखं पल्लवपाणिभिः ॥
कच्छैर् उरुगुलुच्छाच्छमञ्जरीपुञ्जपिञ्जरैः ।
आस्यैर् इव सताम्बूलैर् हसन्तम् अलिमालितैः ॥
लताविलासनोल्लासिपुष्पकेसरधूलिभिः ।
आबद्धमण्डलाभोगं पूर्णेन्दुम् इव दीप्तिभिः ॥
सङ्कटं विटपावल्या कुञ्जकूजच्चकोरया ।
गायत्किन्नरया सिद्धवीथ्येव जगद् उच्चया ॥
लतापीठोपविष्टानाम् अधोलम्बैः कलापिनाम् ।
कलापैश् शोभितं व्योम सेन्द्रचापैर् इवाम्बुदैः ॥
मग्नोन्मग्नैः प्रतिस्कन्धं चामरैर् भासितं सितैः ।
चकोरानुगतैः पूर्णैस् संवत्सरम् इवेन्दुभिः ॥
कपिञ्जलकलालापैः कलकोकिलकूजितैः ।
जीवजीवविरावैश् च प्रगायन्तम् इवोर्जितैः ॥
कादम्बककदम्बैश् च कुलायकृतकेलिभिः ।
स्वर्गकोटरविश्रान्तैस् सिद्धैर् जगद् इवावृतम् ॥
प्रवालारुणहस्ताभिर् अलिनेत्राभिर् आश्रितम् ।
अप्सरोभिर् इव स्वर्गं मञ्जरीभिर् इतस् ततः ॥
सेन्द्रचापं विलोलेन कुसुमोत्कररेणुना ।
मञ्जरीपिञ्जरं श्यामं विद्युत्वन्तम् इवाम्बुदम् ॥
सहस्रभुजशाखाढ्यं पूरिताकाशकोटरम् ।
विश्वरूपम् इवोन्नृत्तं चन्द्रार्ककृतकुण्डलम् ॥
तले निषण्णनागेन्द्रं व्योम्नि तारागणाकुलम् ।
लतापुष्पमयं मध्ये भूमण्डलम् इवापरम् ॥
पितामहम् इवाशेषशैलकाननशाखिनाम् ।
फलपल्लवपुष्पाणां कोशम् एकम् इवावनौ ॥
दधानं कलिकाजालं स्थगितं पुष्पधूलिभिः ।
कच्छेष्व् अर्ककरच्छन्नताराजालम् इवाम्बरम् ॥
विलोलविहगैस् स्कन्धैः कुलायकुलसङ्कुलैः ।
वलितं भूतलं लोललोकैर् जनपदैर् इव ॥
मञ्जरीसुपताकाढ्यं लतामण्डपमण्डितम् ।
पुष्पमक्कोलधवलं पुष्पप्रकरपूरितम् ॥
कूजच्चकोरचमरशुककोकिलशारिकम् ।
घनस्तबकसञ्छन्नकुहराग्रगवाक्षकम् ॥
सञ्चरत्पक्षिजनतं मदमन्थरकोटरम् ।
सर्वासां वनदेवीनाम् अन्तःपुरम् इवोत्तमम् ॥
ब्रुडद्भृङ्गतरङ्गौघैः पुष्पकेसरराशिभिः ।
राजमानं पतन्तीभिस् सरिद्भिर् इव पर्वतम् ॥
भ्रमद्भिः पुष्पपत्त्रौघैर् मन्दवातविलासिभिः ।
वर्धमानैर् वृतस्कन्धं शुभ्राभ्रैर् इव भूधरम् ॥
मातङ्गघटघृष्टेन जानुस्तम्भेन पीठिना ।
आभोगिना बद्धपदं तटेनेव महाचलम् ॥
विचित्रवर्णपक्षाणां स्कन्धकोटरचारिणाम् ।
वृतं खगानां वृन्देन भूतानाम् इव शृङ्गिणम् ॥
स्तबकाङ्गुलिजालेन लोलेनाभिनयक्रियाम् ।
दिशन्तम् इव वल्लीनां प्रनृत्तानां वनानिलैः ॥
कश्चिद् एव निराशो मे नार्थी चापैति तुष्टितः ।
नृत्यन्तम् इव पुष्पाढ्यैर् लतावलयवल्गनैः ॥
लताकान्तैककान्तत्वाच् छृङ्गाररसनिर्भरम् ।
काकल्येव प्रगायन्तं मत्तालिजननिस्स्वनैः ॥
आराद् उन्मुक्तकुसुमं सिद्धानां व्योमचारिणाम् ।
स्वागतानीव कुर्वाणं कोकिलालिकुलारवैः ॥
फलपुष्पलतोल्लासम् औन्नत्यं च महीरुहाम् ।
विहसन्तम् इवाच्छाभिः पुष्पकुट्मलदीप्तिभिः ॥
पारिजातम् इवाजेतुम् ऊर्ध्वगैस् स्कन्धमण्डलैः ।
व्योमान्तर् अभिधावन्तम् अलम् उद्धुरकन्धरम् ॥
मध्यभागस्फुरद्भृङ्गैस् स्तबकैर् घनपक्ष्मभिः ।
सहस्राक्षत्वम् अतुलैर् जेतुम् ऐन्द्रम् इवोद्यतम् ॥
कचत्कुसुमगुच्छाच्छफणामणिगणावृतम् ।
पातालाद् उत्थितं शेषम् इव व्योमदिदृक्षया ॥
रजसोद्धूलिताकारं द्वितीयम् इव शङ्करम् ।
छायया फलशालिन्या समस्तमुनिशङ्करम् ॥
निबिडदलनिबद्धभित्तिभागैः कुसुमलतानवमण्डपैर् उपेतम् ।
पुरम् इव गगने कदम्बवृक्षं खगकुलनागरसङ्कटं ददर्श ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0