भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.2

4.2.1

एतत् ते कथितं सर्वं मनोरूपनिरूपणे ।
मया राघव नान्येन केनचिन् नाम हेतुना ॥

4.2.2

दृढनिश्चयवच् चेतो यद् भावयति भूरिशः ।
तत्तां यात्य् अनलाश्लेषाद् अयःपिण्डो ऽग्निताम् इव ॥

4.2.3

भावाभावग्रहोत्सर्गदृशश् चित्तेन कल्पिताः ।
नासत्या नापि सत्यास् ता मनश्चापलकारणाः ॥

4.2.4

मनो हि हेतुः कर्तृ स्यात् कारणं च जगत्स्थितेः ।
विश्वरूपतयैवेदं तनोति मलिनं मनः ॥

4.2.5

मनो हि पुरुषो राम तन् नियोज्यं शुभे पथि ।
तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः ॥

4.2.6

शरीरं चेच् छरीरं स्यात् कथं शुक्रो महामतिः ।
अगमद् विविधं भेदं बहुदेहसमुद्भवम् ॥

4.2.7

तस्माच् चित्तं हि पुरुषश् शरीरं चित्तम् एव हि ।
यन्मयं च भवत्य् एतत् तद् अवाप्नोत्य् असंशयम् ॥

4.2.8

यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
यत्नात् तदनुसन्धानं कुरु तत्तां च यास्यसि ॥

4.2.9

अभिपतति मनस्स्थितिं शरीरं न तु वपुराचरितं मनः प्रयाति ।
अभिपततु तवात्र तेन सत्यं सुभग मनः प्रजहात्व् असत्यम् अन्यत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc