भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.28

4.28.1

नष्टे धने ऽथ दारादौ शोकस्यावसरो ऽत्र कः ।
इन्द्रजाले क्षणाद् दृष्टे नष्टे का परिदेवना ॥

4.28.2

गन्धर्वनगरस्यार्धे भूषिते दूषिते ऽथ वा ।
अविद्यांशे सुतादौ वा कः क्रमस् सुखदुःखयोः ॥

4.28.3

प्राप्ते धने ऽथ दारादौ हर्षस्यावसरो हि कः ।
वृद्धायां मृगतृष्णायां किम् आनन्दो जलार्थिनः ॥

4.28.4

धनदारेषु वृद्धेषु दुःखं युक्तं न तुष्टता ।
वृद्धायां मोहमायायां कस् समाश्वासवान् इह ॥

4.28.5

यैर् एव जायते रागो मूर्खस्याधिकतां गतैः ।
तैर् एव भोगैः प्राज्ञस्य विराग उपजायते ॥

4.28.6

अपारदर्शिनो मूढा भोगैर् आयान्ति तुष्टताम् ।
पारावलोकिनस् त्व् एतैर् विरागं यान्ति साधवः ॥

4.28.7

अतो राघव तत्त्वज्ञो व्यवहारेषु संसृतेः ।
नष्टं नष्टम् उपेक्षस्व प्राप्तं प्राप्तम् उपाहर ॥

4.28.8

अनागतानां भोगानाम् अवाञ्छनम् अकृत्रिमम् ।
आगतानां च सम्भोग इति पण्डितलक्षणम् ॥

4.28.9

संसारसम्भ्रमे ह्य् अस्मिंश् छन्नात्मन्य् आततायिनि ।
तथा विहर सम्बुद्धो यथा नायासि मूढताम् ॥

4.28.10

संसाराडम्बरस्यास्य प्रपञ्चरचिते क्रमे ।
सम्यक् समं न पश्यन्ति ये हतास् ते कुबुद्धयः ॥

4.28.11

यया कयाचिद् युक्त्येह यस्य दृश्यगतारतिः ।
परिमज्जति तस्याच्छा न क्वचिन् निर्मला मतिः ॥

4.28.12

यस्यासद् इदम् इत्य् आस्था निवृत्ता सर्ववस्तुषु ।
क्रोडीकरोति सर्वज्ञं नाविद्या तम् अवास्तवी ॥

4.28.13

अहं जगच् चैकम् इदं सर्वम् एवेति यस्य धीः ।
आस्थानास्थे परित्यज्य संस्थिता स न मज्जति ॥

4.28.14

शुद्धं सदसतोर् मध्यं पदं बुद्ध्यावलम्ब्य च ।
सबाह्याभ्यन्तरं विश्वं मा गृहाण विमुञ्च मा ॥

4.28.15

अत्यन्तविततस् स्वच्छस् सर्ववान् सर्ववर्जितः ।
व्योमवत् तिष्ठ नीरागं राम कार्यकरो ऽपि सन् ॥

4.28.16

यस्य नेच्छा न चानिच्छा ज्ञस्य कर्मणि तिष्ठतः ।
न तस्य लिप्यते प्रज्ञा पद्मपत्त्रम् इवाम्बुभिः ॥

4.28.17

दर्शनस्पर्शनादीनि मा करोतु करोतु वा ।
तवेन्द्रियगणो गौणस् त्वम् अनिच्छो भवात्मवान् ॥

4.28.18

ममेदम् इत्य् असद्भूते इन्द्रियार्थे भवन्मनः ।
मा निमज्जत्व् अमग्नं सन् मा करोतु करोतु वा ॥

4.28.19

यदि ते नेन्द्रियार्थश्रीस् स्वदते हृदि राघव ।
तद् असि ज्ञातविज्ञानस् समुत्तीर्णो भवार्णवात् ॥

4.28.20

अस्वादितेन्द्रियार्थस्य सतनोर् अतनोर् अपि ।
अनिच्छतो ऽपि सम्पन्ना मुक्तिर् अर्थवशात् तव ॥

4.28.21

उच्चैःपदाय परया प्रज्ञया वासनागणात् ।
पुष्पाद् गन्धम् इवोदारं चेतो राम पृथक् कुरु ॥

4.28.22

संसाराम्बुनिधाव् अस्मिन् वासनाम्बुपरिप्लुते ।
ये प्रज्ञानावम् आरूढास् ते तीर्णा ब्रुडिताः परे ॥

4.28.23

क्षुरधाराग्रशितया धिया परमधीरया ।
प्रविचार्यात्मनस् तत्त्वं तत् त्वं स्वं पदम् आविश ॥

4.28.24

यथा तत्त्वविदः प्राज्ञा ज्ञानबृंहितचेतसः ।
विहरन्ति तथा राम विहर्तव्यं न मूढवत् ॥

4.28.25

जीवन्मुक्ता महात्मानो नित्यतृप्ता महाशयाः ।
आचारैर् अनुगन्तव्या न भोगकृपणाश् शठाः ॥

4.28.26

न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् ।
सर्वम् एवानुवर्तन्ते परावरविदो जनाः ॥

4.28.27

प्रभावस्याभिमानस्य गुणानां यशसश् श्रियः ।
न क्वचित् कृपणा लोके महान्तस् तत्त्वदर्शिनः ॥

4.28.28

सुशून्ये ऽपि न खिद्यन्ते देवोद्याने नसङ्गिनः ।
नियतिं च न मुञ्चन्ति महान्तो भास्करा इव ॥

4.28.29

विगतेच्छा यथाप्राप्तव्यवहारानुवर्तिनः ।
विचरन्त्य् असमुन्नद्धास् स्वस्था देहरथस्थिताः ॥

4.28.30

त्वम् अपि प्राप्तवान् राम विवेकम् इमम् आगतम् ।
प्रज्ञाबलेन चानेन जाने स्वस्थो ऽसि सुन्दर ॥

4.28.31

स्पष्टां दृष्टिम् अवष्टभ्य निर्मानो गतमत्सरः ।
विहरास्मिन् भुवः पीठे परां सिद्धिम् अवाप्स्यसि ॥

4.28.32

स्वस्थस् सर्वेहितत्यागी दूरालोकितवाञ्छनः ।
परां शीतलताम् अन्तर् आदाय विहरानघ ॥

4.28.33

इत्थं गिरा विमलया विमलाशयस्य रामो मुनेस् स परिमृष्ट इवाबभासे ।
ज्ञानामृतेन मधुरेण विराजतान्तः पूर्णश् शशाङ्क इव शीतलतां जगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc