भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.27

4.27.1

एवंसम्पन्नम् एवैतन् नकिञ्चिद् अपि संस्थितम् ।
शून्यम् एव नभोमात्रं मनोविलसितं परम् ॥

4.27.2

न देशकालाव् एतेन ब्रह्माण्डेनावृतौ क्वचित् ।
मनाग् अपि महारूपवताप्य् आकाशरूपिणा ॥

4.27.3

एतत् सङ्कल्पमात्रात्म स्वप्नदृष्टपुरोपमम् ।
यत्रैतत् तत्र निश्शून्यं केवलं व्योम संस्थितम् ॥

4.27.4

अभित्तिरागरचनम् अपि दृष्टम् असन्मयम् ।
अकृतं कृतम् एवैतद् व्योम्नि चित्रं विचित्रकम् ॥

4.27.5

मनसा कल्पितं सर्वं देहादिभुवनत्रयम् ।
संसृतौ कारणं चैतच् चक्षुर् आलोकने यथा ॥

4.27.6

आभासमात्रं हि जगद् घटावटपटक्रमैः ।
आवर्तते न सद्रूपाः पृथक् कुड्यादयस् स्थिताः ॥

4.27.7

मनसेदं शरीरं हि निवासार्थं प्रकल्पितम् ।
क्रिमिणा कोशकारेण स्वात्मकोश इव स्वयम् ॥

4.27.8

न तद् अस्ति न यन् नाम चेतस् सङ्कल्पमन्थरम् ।
न करोति न चाप्नोति दुर्गम् अप्य् अतिदुष्करम् ॥

4.27.9

सर्वशक्तौ परे देवे का नाम ननु शक्तयः ।
न सम्भवन्त्य् आव्रियते याभिर् अन्तर् मनोगुहा ॥

4.27.10

सत्तासत्ते पदार्थानां सर्वेषां सर्वदैव हि ।
महाबाहो सम्भवतस् सर्वशक्तौ विभौ सति ॥

4.27.11

पश्य भावनया प्राप्तं मनसा पाद्मजं वपुः ।
तस्मात् तत्कलनं राम सर्वशक्तियुतं विदुः ॥

4.27.12

स्वसङ्कल्पैः कृतास् सर्गे देवासुरनराचराः ।
स्वसङ्कल्पोपशमने शाम्यन्त्य् अस्नेहदीपवत् ॥

4.27.13

आकाशसदृशं सर्वं कल्पनामात्रजृम्भितम् ।
जगत् पश्य महाबुद्धे सुदीर्घं स्वप्नम् उत्थितम् ॥

4.27.14

न जायते न म्रियते इह कश्चित् कदाचन ।
पारमार्थ्येन सुमते मिथ्या सर्वं प्रवर्तते ॥

4.27.15

न वृद्धिम् एति नो नाशं यत्र किञ्चित् कदाचन ।
रेखातरुवने तत्र कस्य नाम च खण्डना ॥

4.27.16

भ्रमभूतं स्वकायं त्वम् अपश्यन् निपुणं दृशा ।
राघवाघहतस्वान्तः किम् अज्ञ इव भाषसे ॥

4.27.17

मृगतृष्णा यथा तापान् मनसो ऽतिशयात् तथा ।
असन्त एव दृश्यन्ते सर्वे ब्रह्मादयो ऽप्य् अमी ॥

4.27.18

द्विचन्द्रविभ्रमप्रख्या मनोरथवद् उत्थिताः ।
मिथ्याज्ञानमयास् सर्वे जगत्य् आकारराशयः ॥

4.27.19

यथा नौयायिनो मिथ्या स्थाणुस्पन्दमतिस् तथा ।
असत्यैवोत्थिता नित्यम् आकाराणां परम्परा ॥

4.27.20

इन्द्रजालम् इदं विद्धि मायारचितपञ्जरम् ।
मनोमनननिर्माणं न सन् नासद् इव स्थितम् ॥

4.27.21

ब्रह्मैवेदं जगत् सर्वम् अन्यतायास् त्व् अतः कुतः ।
प्रसङ्गः कीदृशः को ऽसौ क्व चासौ परितिष्ठति ॥

4.27.22

अयं गिरिर् अयं स्थाणुर् इत्य् आडम्बरविभ्रमः ।
मनसो भावनादार्ढ्याद् असत् सद् इव लक्ष्यते ॥

4.27.23

प्रपञ्चचतुरारम्भम् अन्तस् तुच्छम् इदं जगत् ।
सकामतृष्णामननं त्यक्त्वान्यद् राम भावय ॥

4.27.24

यथा स्वप्ने महारम्भो भ्रान्तिर् एव न वस्तुसत् ।
दीर्घस्वप्नं तथैवेदं विद्धि चित्तोपकल्पितम् ॥

4.27.25

दृश्यमानमहाभोगं गृह्यमाणम् अवस्तुकम् ।
कोशम् आशाभुजङ्गीनां संसाराडम्बरं त्यज ॥

4.27.26

असद् एतद् इति ज्ञात्वा मात्र भावं निवेशय ।
अनुधावति कः प्राज्ञो विज्ञाय मृगतृष्णिकाम् ॥

4.27.27

स्वसङ्कल्पोत्थरूपाढ्यां मनोरथमयीं स्त्रियम् ।
यो ऽनुगच्छति मूढात्मा दुःखस्यैव स भाजनम् ॥

4.27.28

वस्तुन्य् असति लोको ऽयं यातु कामम् अवस्तुनि ।
यस् तु वस्तु परित्यज्य यात्य् अवस्तु स नश्यति ॥

4.27.29

मनोव्यामोह एवेदं रज्ज्वाम् अहिभयं यथा ।
भावनामात्रवैचित्र्याच् चिरम् आवर्तते जगत् ॥

4.27.30

असदभ्युदितैर् भावैर् जलान्तश्चन्द्रचञ्चलैः ।
वञ्च्यते बाल एवेह न तत्त्वज्ञो भवादृशः ॥

4.27.31

य इमं गुणसङ्घातं भावयन् सुखम् ईहते ।
प्रमार्ष्टि स जडो जाड्यं वह्नाव् अप्प्रतिबिम्बिते ॥

4.27.32

असद् एवेदम् आभोगि दृश्यते दृश्यपञ्जरम् ।
मनोमनननिर्माणं हृदये नगरं यथा ॥

4.27.33

इदं चित्तेच्छयोदेति लीयते च तदिच्छया ।
मिथ्यैव दृश्यते स्फारं गन्धर्वनगरं यथा ॥

4.27.34

राम नष्टे जगत्य् अस्मिन् न किञ्चिद् अपि नश्यति ।
युक्ते ऽपि च जगत्य् अस्मिन् न किञ्चिद् अपि युज्यते ॥

4.27.35

मनःप्रकल्पिते भग्ने हृदि विस्तीर्णपत्तने ।
वृद्धिं वोपगते ब्रूहि किं वृद्धं कस्य किं क्षतं ॥

4.27.36

क्रीडार्थेन यथोदेति बालानां हृदि पत्तनम् ।
मनसा तद्वद् एवेदम् उदेत्य् अविरतं जगत् ॥

4.27.37

न किञ्चित् कस्यचिन् नष्टम् इन्द्रजालजले यथा ।
भ्रष्टे नष्टे तथैवास्मिन् संसारे विभवोत्थिते ॥

4.27.38

यद् असत् तद् असत् स्याच् चेत् तत् किं कस्य किल क्षतम् ।
अतो हर्षविषादाभ्यां संसारो नाम नास्पदम् ॥

4.27.39

असद् एव यद् अत्यन्तं तस्मिन् किं नाम नश्यति ।
नाशाभावे हि दुःखस्य कः प्रसङ्गो महामते ॥

4.27.40

सद् एव वा यद् अत्यन्तं तस्य किं नाम नश्यति ।
ब्रह्मैवेदं जगत् सर्वं सुखदुःखे किम् उत्थिते ॥

4.27.41

सर्वत्रासत्यभूते ऽस्मिन् प्रपञ्चैकान्तकारिणि ।
संसारे किम् उपादेयं प्राज्ञो यद् अभिवाञ्छतु ॥

4.27.42

सर्वत्र सत्यभूते ऽस्मिन् ब्रह्मतत्त्वमये ऽपि च ।
किं स्यात् त्रिभुवने हेयं प्राज्ञाः परिहरन्तु यत् ॥

4.27.43

असत् सद् वा जगज् ज्ञस्य तेनासौ सुखदुःखयोः ।
अगम्य एव मूर्खस् तु तृतीयांशेन दुःखितः ॥

4.27.44

आदाव् अन्ते ऽपि यन् नास्ति वर्तमाने ऽपि सन् न तत् ।
यो ऽभिवाञ्छत्य् असद् राम तस्यासत्तैव शिष्यते ॥

4.27.45

आदाव् अन्ते च यत् सत्यं वर्तमाने सद् एव तत् ।
यस्य सर्वं सद् एव स्यात् तस्य सत्तैव शिष्यते ॥

4.27.46

असत्यभूतं तोयान्तश् चन्द्रव्योमलतादिकम् ।
बाला एवाभिवाञ्छन्ति मनोमोहाय नोत्तमाः ॥

4.27.47

बालो हि वितताकारैर् वस्तुरिक्तैः प्रयोजनैः ।
सन्तोषम् एत्य् अनन्ताय दुःखाय न सुखाय तु ॥

4.27.48

तस्मान् मा भव बालस् त्वं राम राजीवलोचन ।
अनित्यताम् इहालोक्य नित्यम् आश्रय सुस्थिरम् ॥

4.27.49

असद् इदम् अखिलं मया समेतं त्व् इति विगणय्य विषादितास्तु मा ते ।
सद् इह हि सकलं मया समेतं त्व् इति च विलोक्य विषादितास्तु मा ते ॥

4.27.50

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc