भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.26

4.26.1

क्रमेणानेन येनाप्ता जीवेन स्थितिर् आत्मनः ।
स कथं भगवन् देहं समादत्ते ऽस्थिपञ्जरम् ॥

4.26.2

पूर्वम् एव मया प्रोक्तं राम किं नावबुध्यसे ।
पूर्वापरविचारार्हा शेमुषी क्व गता तव ॥

4.26.3

यद् इदं हि शरीरादि जगत् स्थावरजङ्गमम् ।
आभासमात्रम् एवैतद् असत् स्वप्न इवोत्थितम् ॥

4.26.4

दीर्घस्वप्नो ह्य् अयं राम मिथ्यैवानघ दृश्यते ।
द्विचन्द्रविभ्रमाकारो भ्रमार्तभ्रान्तशैलवत् ॥

4.26.5

प्रशान्ताज्ञाननिद्रस् सन् नूनं गलितभावनः ।
प्रबुद्धचेतास् संसारस्वप्नं पश्यन् न पश्यति ॥

4.26.6

स्वभावकल्पितो राम जीवानां सर्वदैव हि ।
आमोक्षपदसम्प्राप्ति संसारो ऽस्त्य् आत्मनो ऽन्तरे ॥

4.26.7

स्वभावकल्पितो नित्यं सर्वस्यास्त्य् आत्मनो ऽन्तरे ।
जीवस्य तरलः काय आवर्तः पयसो यथा ॥

4.26.8

बीजे यथाङ्कुरस् स्फारः पल्लवश् चाङ्कुरे यथा ।
पल्लवे च यथा पुष्पं पुष्पकोशे फलं यथा ॥

4.26.9

यतश् च कल्पनारूपो देहो ऽस्ति मनसो ऽन्तरे ।
बहीरूपतया राम ततो ऽस्त्य् एवेह स स्फुटः ॥

4.26.10

य एव प्रतिभासो ऽस्य मनसः किल जायते ।
स एवाशु भवत्य् एतन् मृत्पिण्डो घटको यथा ॥

4.26.11

प्रतिभासत एवेदं मनस्सङ्कल्पमात्रकम् ।
जगद् राघव नो सत्यं मृगतृष्णाजलं यथा ॥

4.26.12

प्रतिभासेन चैतेन देहो ऽयं दृश्यते पुरः ।
भीतिभ्रान्तेन बालेन वेतालो ऽग्रगतो यथा ॥

4.26.13

आदिसर्गे पुरा कायप्रतिभासो ऽस्य चेतसः ।
यस् स एव विभुर् ब्रह्मा पद्मकोशगृहे स्थितः ॥

4.26.14

तत्सङ्कल्पक्रमेणैव ततस् स्थितिम् उपागता ।
इयं सृष्टिर् अपर्यन्ता मायेव घनमायया ॥

4.26.15

जीवो मनःपदं प्राप्य वैरिञ्चपदम् आगतः ।
यथा ब्रह्मंस् तथा सर्वं विस्तरेण वदाशु मे ॥

4.26.16

ब्राह्मं शृणु महाबाहो शरीरग्रहणे क्रमम् ।
निदर्शनेन तेनैव जागतीं ज्ञास्यसि स्थितिम् ॥

4.26.17

दिक्कालाद्यनवच्छिन्नम् आत्मतत्त्वं स्वशक्तितः ।
लीलयैव यद् आदत्ते दिक्कालकलितं वपुः ॥

4.26.18

तद् एतज् जीवपर्यायं वासनावेशतत्परं ।
मनस् सम्पद्यते लोलं कलनाकलनोन्मुखम् ॥

4.26.19

कलयन्ती मनश्शक्तिर् आदौ भावयति क्षणात् ।
आकाशभावनाम् अच्छां शब्दबीजरसोन्मुखीम् ॥

4.26.20

ततस् तद्घनतां यातं घनस्पन्दं क्रमान् मनः ।
भावयत्य् अनिलस्पन्दं स्पर्शबीजरसोन्मुखम् ॥

4.26.21

ताभ्याम् आकाशवाताभ्याम् आमृष्टाभ्यां मनोदृशा ।
शब्दस्पर्शस्वरूपाभ्यां सङ्घर्षाज् जन्यते ऽनलः ॥

4.26.22

मनस् तद्घनतां प्राप्य ततो भावयति क्षणात् ।
प्राकाश्यम् अमलालोकम् आलोकस् तेन वर्धते ॥

4.26.23

मनस् तादृग्गुणगणं रसतन्मात्रवेदनम् ।
क्षणाच् चिनोत्य् अपां शैत्यं जलसंवित् ततो भवेत् ॥

4.26.24

ततस् तादृग्गुणगणं मनो भावयति क्षणात् ।
स्वरूपं गन्धवत् स्थूलं येनोदेष्यति मेदिनी ॥

4.26.25

अथेदं भूततन्मात्रवेष्टितं तनुतां जहत् ।
वपुर् वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ॥

4.26.26

अहङ्कारकलायुक्तं बुद्धिजीवसमन्वितम् ।
तत् पुर्यष्टकम् इत्य् उक्तं भूतहृत्पद्मषट्पदः ॥

4.26.27

तस्मिंस् तत् तीव्रसंवेगाद् भावयद् भासुरं वपुः ।
स्थूलतां एति पाकेन मनो भव्यफलं यथा ॥

4.26.28

मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे ।
सन्निवेशम् अथादत्ते तत् तेजस् स्वं स्वभावतः ॥

4.26.29

तस्मिन् स्वसन्निवेशे ऽथ तेजःपुञ्जमये मनः ।
भजते भावनां स्फारे निश्चिताम् आततां स्वतः ॥

4.26.30

ऊर्ध्वं शिरःपीठमयीम् अधः पादमयीं तथा ।
पार्श्वयोर् हस्तसंस्थानां मध्ये चोदरधर्मिणीं ॥

4.26.31

प्रकटावयवो बालो ज्वालाजालामलाकृतिः ।
मनोरथवशोपात्तवपुस् तिष्ठत्य् असाव् अथ ॥

4.26.32

एवं स्ववासनावेशात् कल्पिताङ्गं मनो मुनेः ।
नयत्य् उपचयं देहं स्वं स्वभावम् ऋतुर् यथा ॥

4.26.33

कालेन स्फुटताम् एत्य भवत्य् अमलविग्रहः ।
बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ॥

4.26.34

स एष भगवान् ब्रह्मा सर्वलोकाधिनायकः ।
द्रवत्कनकसङ्काशः परमाकाशसम्भवः ॥

4.26.35

अथासौ परमाकाशे तिष्ठन् परमरूपवान् ।
कल्पयत्य् आत्मनो गेहम् आत्मस्थश् चित्तलीलया ॥

4.26.36

कदाचित् केवलं व्योम परमं पारवर्जितम् ।
अनादिमध्यपर्यन्तं कदाचिद् अमलं पयः ॥

4.26.37

कदाचित् कल्पकालाग्निज्वालाभासुरमण्डितम् ।
कदाचित् काननं कान्तं नाभीकमलकुट्मलम् ॥

4.26.38

अन्यान्य् अन्यान्य् अनेकानि प्रतिजन्मावधि प्रभुः ।
कल्पयत्य् आसनान्य् एष नानारूपाणि हेलया ॥

4.26.39

तत्रेदम्प्रथमत्वेन यदैष ब्रह्मणः पदात् ।
अवतीर्णस् तदा ज्ञानात् तस्यैव सुसमस् स्मृतः ॥

4.26.40

गर्भनिद्राव्यपगमे वपुः पश्यति भासुरम् ।
प्राणापानप्रवाहाढ्यं द्रव्यैर् एव विनिर्मितम् ॥

4.26.41

रोमकोटिभिर् आकीर्णं द्वात्रिंशद्दशनान्वितम् ।
त्रिस्थूणं पञ्चदैवत्यम् अधश्चरणलाञ्छितम् ॥

4.26.42

पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम् ।
युक्तम् अङ्गुलिविंशत्या नखविंशतिलाञ्छितम् ॥

4.26.43

द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षभुजम् एव वा ।
नीडं चित्तविहङ्गस्य बिलं मन्मथभोगिनः ॥

4.26.44

तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम् ।
अभिमानगजालानम् आननाम्भोजशोभितम् ॥

4.26.45

अवलोक्य वपुर् ब्रह्मा कान्तम् आत्मीयम् उत्तमम् ।
चिन्तयाम् आस भगवांस् त्रिकालामलदर्शनः ॥

4.26.46

अस्मिन्न् आकाशकुहरे तते मदुपलाञ्छिते ।
अदृष्टापारपर्यन्ते प्रथमं किम् अभूद् इति ॥

4.26.47

इति चिन्तितवान् ब्रह्मा सद्योजातो ऽमलात्मदृक् ।
अपश्यत् सर्गवृन्दानि समतीतान्य् अनेकशः ॥

4.26.48

अथ सस्मार सकलान् स सधर्मगुणक्रमान् ।
वसन्तः कुसुमानीव वेदान् वाङ्मयसंयुतान् ॥

4.26.49

लीलया कल्पयाम् आस चित्रास् सङ्कल्पजाः प्रजाः ।
नानाचारसमारम्भा गन्धर्वो नगरं यथा ॥

4.26.50

तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये ।
अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ॥

4.26.51

सृष्टिर् एवम् इयं राम सर्गे ऽस्मिन् स्थितिम् आगता ।
विरिञ्चरूपान् मनसः पुष्पलक्ष्मीर् मधोर् इव ॥

4.26.52

विविधविरचनैः क्रियाविलासैः कमलजरूपधरेण चेतसैव ।
रघुसुत परिकल्पनेन नीता स्थितिम् अतुलां जगतीह सर्गलक्ष्मीः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc