मोक्षोपाय · अध्याय 4.25
एवं जीवाश् चितो भावाद् भवभावनया हताः ।
ब्रह्मणो ऽकलिताकाराल् लक्षशो ऽपि च कोटिशः ॥
सङ्ख्यातीताः पुरा जाता जायन्ते ऽद्यापि चाभितः ।
उत्पतिष्यन्ति चैवान्ये कणौघा इव निर्झरात् ॥
स्ववासनावशावेशाद् आशाविवशतां गताः ।
दशास्व् अतिविचित्रासु स्वयं निगडिताशयाः ॥
अनारतं प्रतिदिशं प्रतिदेशं जले स्थले ।
जायन्ते च म्रियन्ते च बुद्बुदा इव वारिणि ॥
केचित् प्रथमजन्मानः केचिज् जन्मवशातिगाः ।
केचिच् चासङ्ख्यजन्मानः केचिज् जन्मशतान्तराः ॥
भविष्यज्जातयः केचित् केचिद् भूतमहाभवाः ।
वर्तमानभवाः केचित् केचिच् चाभवतां गताः ॥
केचित् कल्पसहस्राणि जायमानाः पुनः पुनः ।
एकाम् एवाश्रिता योनिं केचिद् योन्यन्तरं श्रिताः ॥
केचिन् महादुःखहताः केचिद् अल्पवयस्स्थिताः ।
केचिद् अत्यन्तम् उदिताः केचिद् अर्का इवोदिताः ॥
केचित् किन्नरगन्धर्वविद्याधरमहोरगाः ।
केचिद् अर्केन्द्रवरुणत्र्यक्षाधोऽक्षजपद्मजाः ॥
केचित् कुम्भाण्डवेतालयक्षरक्षःपिशाचकाः ।
केचिद् ब्राह्मणभूपालवैश्यशूद्रगणास् स्मृताः ॥
केचिच् छ्वपचचण्डालकिरातखशपुक्कसाः ।
केचित् तृणौषधीपत्त्रफलमूलपदं गताः ॥
केचिद् वनलतागुल्मतृणोपलदशोषिताः ।
केचित् कदम्बजम्बीरसालतालतमालकाः ॥
केचिद् विभवसम्भारमत्तसामन्तभूमिपाः ।
केचिच् चीराम्बरच्छन्ना मुनिमौनम् उपाश्रिताः ॥
केचिद् भुजगगोनासक्रिमिकीटपिपीलकाः ।
केचिन् मृगेन्द्रमहिषमृगर्क्षचमरैणकाः ॥
केचित् सारसचक्राह्वबलाकाबककोकिलाः ।
केचित् कमलकल्हारकुमुदोत्पलतां गताः ॥
केचित् करभमातङ्गपतङ्गवृषगर्दभाः ।
केचिद् द्विरेफमषकपुत्तिकादंशवंशजाः ॥
केचिद् आपद्बलाक्रान्ताः केचित् सम्पदम् आगताः ।
केचित् स्थितास् स्वर्गपुरे केचिन् नरकम् आस्थिताः ॥
ऋक्षचक्रगताः केचिद् वृक्षरन्ध्रगताः परे ।
वातरूपे स्थिताः केचित् केचिद् व्योमपदे स्थिताः ॥
सूर्यांशुषु स्थिताः केचित् केचिद् इन्द्वंशुषु स्थिताः ।
केचित् तृणलतागुल्मरसस्वादुष्व् अवस्थिताः ॥
जीवन्मुक्ता भ्रमन्तीह केचित् कल्याणभाजनम् ।
चिरमुक्तास् स्थिताः केचिन् नूनं परिणताः परे ॥
केचिच् चिरेण कालेन भविष्यन्मुक्तयश् शठाः ।
केचिद् द्विषन्ति दुर्भावाः केवलीभावम् आत्मनः ॥
केचिज् जाता जगत्य् अस्मिन् केचिद् अन्यत्र संस्थिताः ।
केचिन् नेह न चान्यत्र परे एव पदे स्थिताः ॥
केचिन् महेन्द्रमलयसह्यमन्दरमेरवः ।
केचित् क्षारदधिक्षीरघृतेक्षुजलराशयः ॥
केचिद् विशालाः ककुभः केचिन् नद्यो महारयाः ।
केचित् स्त्रियः कान्तदृशः केचिच् छण्ढनपुंसकाः ॥
केचित् प्रबुद्धमतयः केचिज् जडतराशयाः ।
केचिज् ज्ञानोपदेष्टारः केचिद् आत्तसमाधयः ॥
जीवास् स्ववासनावेशविवशाशयतां गताः ।
एतास्व् एतास्व् अवस्थासु संस्थिता बद्धभावनाः ॥
विहरन्ति जगत्कोशे निपतन्त्य् उत्पतन्ति च ।
कन्दुका इव हस्तेन मृत्युनाविरतं हताः ॥
आशापाशशताबद्धा वासनाभारधारिणः ।
कायात् कायम् उपायान्ति वृक्षाद् वृक्षम् इवाण्डजाः ॥
अनन्तानन्तसङ्कल्पकल्पनोत्पातमायया ।
इन्द्रजालं वितन्वाना जगन्मयम् इदं महत् ॥
तावद् भ्रमन्ति संसारे वारीवावर्तराशयः ।
यावन् मूढा न पश्यन्ति स्वम् आत्मानम् अनिन्दितम् ॥
दृष्ट्वात्मानम् असत् त्यक्त्वा सत्याम् आसाद्य संविदम् ।
कालेन पदम् आगत्य जायन्ते नेह ते पुनः ॥
भुक्त्वा जन्मसहस्राणि ज्ञानेन तपसाथ वा ।
परमेष्ठिपदं प्राप्य केचिद् यान्ति परं पदम् ॥
केचिच् छक्रत्वम् अप्य् उच्चैः प्राप्य तुच्छतया धियः ।
पुनस् तिर्यक्त्वम् आयान्ति तिर्यक्त्वान् नरताम् अपि ॥
केचिन् महाधियस् सन्त उत्पद्य ब्रह्मणः पदात् ।
तदैव जन्मनैकेन तत्रैव प्रविशन्त्य् अलम् ॥
ब्रह्माण्डेष्व् इतरेष्व् अन्ये तेनैते जीवराशयः ।
प्रयान्ति पद्मोद्भवताम् अन्ये च हरताम् अपि ॥
अन्ये प्रयान्ति तिर्यक्त्वम् अन्ये च सुरताम् अपि ।
अन्ये ऽपि नागतां राम यथैवेह तथैव हि ॥
यथेदं हि जगत् स्फारं तथान्यानि जगन्ति हि ।
विद्यन्ते समतीतानि भविष्यन्ति च भूरिशः ॥
अन्येनान्येन चित्रेण क्रमेणान्येन हेतुना ।
विचित्रास् सृष्टयस् तेषाम् आपतन्ति पतन्ति च ॥
काश्चिद् गन्धर्वतां यान्ति काश्चिद् गच्छन्ति यक्षताम् ।
काश्चित् प्रयान्ति सुरतां काश्चिद् आयान्ति दैत्यताम् ॥
येनैव व्यवहारेण ब्रह्माण्डे ऽस्मिञ् जनास् स्थिताः ।
तेनैवान्येषु तिष्ठन्ति सन्निवेशाविलक्षणाः ॥
स्वस्वभाववशावेशाद् अन्योऽन्यपरिघट्टनैः ।
सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः ॥
आविर्भावतिरोभावैर् उन्मज्जननिमज्जनैः ।
सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः ॥
निर्यान्त्य् अविरतं तस्मात् परस्माज् जीवराशयः ।
अनिर्देश्यात् स्वसंवेद्यात् तत्रैवाशु स्फुरन्ति च ॥
दीपाद् इवालोकदृशस् सूर्याद् इव मरीचयः ।
कणास् तप्तायस इव स्फुलिङ्गा इव पावकात् ॥
कालाद् इवर्तवश् चित्रा आमोदाः कुसुमाद् इव ।
शीकरा इव पाताम्बुपूराद् अब्धेर् इवोर्मयः ॥
उत्पत्योत्पत्य कालेन त्यक्त्वा देहपरम्पराः ।
स्वक एव पदे यान्ति विलयं जीवराशयः ॥
अविरलम् इयम् आतता स्थितोच्चैर् भवति विनश्यति वर्धते मुधैव ।
त्रिभुवनरचनाविमोहमाया परमपदे लहरीव वारिराशौ ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0