मोक्षोपाय · अध्याय 4.24
कुपितस्यासतो ऽप्य् अस्य प्रेक्षामात्रविनाशिनः ।
अविद्याविततव्याधेर् औषधं शृणु राघव ॥
यां तां कथयितुं जातिं राम राजससात्त्विकीम् ।
मनोवीर्यविचारार्थं प्रस्तुतो ऽस्मीति तां शृणु ॥
यत् तद् अस्त्य् अमृतं ब्रह्म सर्वव्यापि निरामयम् ।
चिदाभासम् अनन्ताख्यम् अनादि विगतभ्रमम् ॥
चित्स्पन्दवपुषस् तस्य स्पन्दः कस्माच्चिद् एव हि ।
प्रदेशाद् घनताम् एति सोम्याब्धेश् चलनाद् इव ॥
अन्तर् अब्धेर् जलं यद्वत् स्पन्दात् स्तम्भवद् ईहते ।
सर्वशक्ति तथैकत्र गच्छति स्पन्दशक्तिताम् ॥
आत्मन्य् एवात्मना व्योम्नि यथा सरति मारुतः ।
तथेहात्मात्मशक्त्यैव स्वात्मन्य् एवैति लोलताम् ॥
स्वशिखास्पन्दशक्त्यैव दीपस् सोम्यो यथोच्चताम् ।
एति तद्वद् असाव् आत्मा तत् स्वे वपुषि वल्गति ॥
जलान्तरे ऽम्बुधेर् यद्वल् लसद् वारि क्वचिच् चलम् ।
सर्वशक्तिवपुष्य् एव तथा स्पन्दो विलासवान् ॥
यथोल्लसति भाचक्रैर् द्रवत्काञ्चनसागरः ।
तथात्मनि परिस्पन्दैस् स्फुरत्य् अच्छैश् चिदर्णवः ॥
लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि दृशा दृशः ।
तथोदेति लसद्रूपा स्वशक्तिर् ब्रह्मणश् चितः ॥
किञ्चित्क्षुभितरूपा सा चिच्छक्तिश् चिन्महार्णवे ।
तन्मय्य् एव स्फुरत्य् अच्छा तत्रैवोर्मिर् इवार्णवे ॥
आत्मनो ऽव्यतिरिक्तैव व्यतिरिक्तेव तिष्ठति ।
आलोकश्रीर् इवालोककोटरे घनतां गता ॥
क्षणं स्फुरन्ती सा देवी सर्वशक्तितया तया ।
चिनोति स्वां स्वयं शक्तिं कलेन्दोश् शीतताम् इव ॥
उदितैषा प्रकाशाख्या चिच्छक्तिः परमात्मनः ।
देशकालक्रियाशक्तीर् वयस्यास् सम्प्रकर्षति ॥
अविदित्वा स्वभावं स्वं व्याप्यानन्तपदं स्थिता ।
रूपं परिमितेवासौ भावयत्य् अविभाविता ॥
यदैव भावितं रूपं तया परमकान्तया ।
तदैवैनाम् अनुगता नामसङ्ख्यादिका दृशः ॥
चिद् अथैतदवस्थैव व्यतिरिक्ता स्थितात्मनः ।
अनन्ता तद्गतैवाशु लहरीव महार्णवात् ॥
यथा कटककेयूरैर् भेदो हेम्नो विलक्षणः ।
तथात्मनश् चिता रूपं भावयन्त्या स्वम् आंशिकम् ॥
यथा दीपेन दीपानां जातानाम् आत्मना तथा ।
देशकालकलामात्रभेदस् स्वो भावितश् चिता ॥
देशकालपरिस्पन्दशक्तिसन्दीपिताथ चित् ।
सङ्कल्पम् अनुधावन्ती प्रयाति कलनापदम् ॥
विकल्पकल्पिताकारं देशकालक्रियास्पदम् ।
चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते ॥
क्षेत्रं शरीरम् इत्य् आहुस् तद् असौ वेत्त्य् अखण्डितम् ।
सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते ॥
वासनाः कल्पयन् सो ऽपि यात्य् अहङ्कारतां पुनः ।
अहङ्कारो विनिर्णीता कालिकी बुद्धिर् उच्यते ॥
बुद्धिस् सङ्कल्पकलिता प्रयाता मननास्पदम् ।
मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः ॥
पाणिपादमयं देहम् इन्द्रियाणि विदुर् बुधाः ।
देहो ऽसौ जायते लोके म्रियते ऽपि च जीवति ॥
एवं जीवो हि सङ्कल्पो वासनारज्जुवेष्टितः ।
दुःखजालपरीतात्मा क्रमाद् आयाति चित्तताम् ॥
क्रमेण पाकवशतः फलम् एति यथान्यताम् ।
अवस्थयैव नाकृत्या जीवो मलवशात् तथा ॥
जीवो ऽहङ्कारतां प्राप्तस् त्व् अहङ्कारश् च बुद्धिताम् ।
सङ्कल्पजालवलिता मनस्तां बुद्धिर् आगता ॥
मनो हि सङ्कल्पमयं संस्थाग्रहणतत्परम् ।
प्रतियोगिव्यवच्छिन्नं प्राप्तम् अन्यैर् अपीहितैः ॥
इच्छाद्याश् शक्तयो मत्तां गावो वृषम् इवोन्मदम् ।
अनुधावन्ति दोषाय सरितस् सागरं यथा ॥
इतिशक्तिमयं चेतो घनाहङ्कारतां गतम् ।
कोशकारक्रिमिकवद् इच्छया याति बन्धनम् ॥
स्वसङ्कल्पानुसन्धानात् पाशैर् आवलयद् वपुः ।
कष्टम् अस्मि स्वयं बद्धम् इत्य् आर्त्या परितप्यते ॥
बद्धम् अस्मीति कलयद् विद्यातत्त्वं जहच् छनैः ।
अविद्यां जनयत्य् अन्तर् जगज्जङ्गलराक्षसीम् ॥
स्वसङ्कल्पिततन्मात्रजालाभ्यन्तरवर्ति च ।
परां विवशताम् एति शृङ्खलाबद्धसिंहवत् ॥
विचित्रकार्यकर्तृत्वम् आहरद् वासनावशात् ।
स्वेच्छामात्रानुरचिता दशाश् चानुपतन् नवाः ॥
क्वचिन् मनः क्वचिद् बुद्धिः क्वचिज् ज्ञानं क्वचित् क्रिया ।
क्वचिद् एतद् अहङ्कारः क्वचित् पुर्यष्टकं स्मृतम् ॥
क्वचित् प्रकृतिर् इत्य् उक्तं क्वचिन् मायेति कल्पितम् ।
क्वचिन् मन इति प्रोक्तं क्वचित् कर्मेति संस्थितम् ॥
क्वचिद् बन्ध इति ख्यातं क्वचिच् चित्तम् इति स्फुटम् ।
प्रोक्तं क्वचिद् अविद्येति क्वचिद् इच्छेति सङ्गतम् ॥
तद् एतद् आबद्धम् इह चित्तं राघव दुःखितम् ।
तृष्णाशोकसमाविष्टं रोगायतनम् आतुरम् ॥
जरामरणमोहार्तं भवभावनया हतम् ।
ईहितानीहितैर् ग्रस्तम् अविद्यारागरञ्जितम् ॥
इच्छासङ्कुचिताकारं कर्मवृक्षनवाङ्कुरम् ।
सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पनम् ॥
कोशकारवद् आबद्धं कोशकारपदं गतम् ।
तन्मात्रवृन्दावयवम् अनन्तनरकातपम् ॥
अदृश्यम् अपि शैलेन्द्रसमभारभरावहम् ।
जरामरणशाखाढ्यं संसारविषदुर्द्रुमम् ॥
इमं संसारम् अखिलम् आशापाशविधायकम् ।
दधद् अन्तः फलैर् हीनं वटधाना वटं यथा ॥
चिन्तानलशिखादग्धं कोपाजगरचर्वितम् ।
कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम् ॥
मृगं यूथाद् इव भ्रष्टं शोकोपहतचेतनम् ।
पतङ्गकम् इवोज्ज्वाले दग्धं विषयपावके ॥
छिन्नमूलम् इवाम्भोजं परमां म्लानिम् आगतम् ।
छिन्नाशम् आत्मनस् स्थानाद् विदेशासङ्गदुस्स्थितम् ॥
विषयाहिषु मध्यस्थं मित्ररूपेषु शत्रुषु ।
दशाखदास्व् अनन्तासु लुठितं सङ्कटास्व् अति ॥
दुःखे निपतितं घोरे विहगं वागुरे यथा ।
आबद्धास्थं जगज्जाले शून्ये गन्धर्वपत्तने ॥
उह्यमानम् अनर्थाब्धौ मनो विषयविद्रुतम् ।
उद्धरामरसङ्काश मातङ्गम् इव कर्दमात् ॥
बलीवर्दवद् आमग्नं मनो मननपल्वले ।
आलूनशीर्णावयवं बलाद् राम समुद्धर ॥
शुभाशुभप्रसरपराहताकृतौ ज्वलज्जरामरणविषादमूर्छिते ।
दयेह न स्वमनसि यस्य जायते नराकृतिस् स जगति राम राक्षसः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0