भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.23

4.23.1

क्षीरोदकुक्षितुल्याभिश् शीतलामलदीप्तिभिः ।
तवोक्तिभिर् विचित्राभिर् गम्भीराभिर् इहाभितः ॥

4.23.2

क्षणम् आन्ध्यम् इवाप्नोमि क्षणं यामि प्रकाशताम् ।
शान्तातपबलः प्रावृड्लोलाभ्र इव वासरः ॥

4.23.3

अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः ।
अनस्तमितसारस्य कलना कथम् आगता ॥

4.23.4

यथाभूतार्थवाक्यार्थास् सर्वा एव ममोक्तयः ।
नासमर्थविरूपार्थाः पूर्वापरविरोधदाः ॥

4.23.5

ज्ञानदृष्टौ प्रसन्नायां प्रबोधे प्रततोदये ।
यथावज् ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिम् इमाम् अलम् ॥

4.23.6

उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ।
शब्दार्थवाक्यरचना भ्रमायेयं क्षणं तव ॥

4.23.7

यदाधुना ज्ञास्यसि तत् सत्यम् अत्यन्तनिर्मलम् ।
वाच्यवाचकशब्दार्थभेदं ज्ञास्यसि वै तदा ॥

4.23.8

भेदकृद् वाक्प्रपञ्चो ऽयम् उपदेश्येषु कल्पितः ।
स चाज्ञेष्व् एव न ज्ञेषु विद्यते पारमार्थिकः ॥

4.23.9

कलनामलम् ईहादि किञ्चिन् नात्मनि विद्यते ।
नीरागं ब्रह्म निर्द्वन्द्वं तद् एवेदं जगत् स्थितम् ॥

4.23.10

एतद् विचित्ररूपाभिर् उक्तिभिर् बहुशः पुनः ।
विस्तारेणैव वक्तव्यं सिद्धान्तावसरे ऽनघ ॥

4.23.11

वाक्प्रपञ्चं विना त्व् एतद् अज्ञानम् अतुलं तमः ।
भेत्तुम् अन्योऽन्यम् उदितं यत्नं कर्तुं न शक्यते ॥

4.23.12

अविद्ययैवोत्तमया स्वात्मनाशोद्यमोत्कया ।
विद्या सम्प्राप्यते राम सर्वदोषातिहारिणी ॥

4.23.13

शाम्यति ह्य् अस्त्रम् अस्त्रेण मलेन क्षाल्यते मलम् ।
शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥

4.23.14

ईदृशी भूतमायेयं या स्वनाशेन हर्षदा ।
न लक्ष्यते स्वभावो ऽस्याः प्रेक्ष्यमाणैव नश्यति ॥

4.23.15

विवेकम् आच्छादयति जगन्ति जनयत्य् अलम् ।
न च विज्ञायते कैषा पश्याश्चर्यम् इदं महत् ॥

4.23.16

अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता तु विनश्यति ।
मायेयम् अपरिज्ञायमानरूपैव वल्गति ॥

4.23.17

अहो नु खलु चित्रेयं माया संसारबन्धनी ।
असत्यैवातिसत्येव प्राज्ञान् अपि हिनस्ति या ॥

4.23.18

अत्यभिन्ने पदे तस्मिंस् तन्वाना भेदम् आततम् ।
संसारमाया विज्ञाता येनासौ पुरुषोत्तमः ॥

4.23.19

नास्त्य् एषा परमार्थेनेत्य् एवम्भावनयेद्धया ।
ज्ञो भूत्वा ज्ञेयसम्प्राप्त्या ज्ञास्यस्य् अस्यास् त्वम् आशयम् ॥

4.23.20

यावत् तु न प्रबुद्धस् त्वं तावन् मद्वचसैव ते ।
निश्चयो भवतूद्दामो नास्त्य् अविद्येति निश्चलः ॥

4.23.21

यद् इदं दृश्यतां यातं मानसं मननं महत् ।
असत् तद् इति यस्यान्तर् निश्चयो मोक्षभाग् असौ ॥

4.23.22

यद् इदं दृश्यतां प्राप्तं मनोमात्रविजृम्भितम् ।
सत् तद् ब्रह्मेति यस्यान्तर् निश्चयस् सो ऽपि मोक्षभाक् ॥

4.23.23

चलाचला तृतीया या दृष्टिर् आबद्धभावना ।
सा समग्रजगद्भूतखगबन्धनवागुरा ॥

4.23.24

यस् स्वप्नभ्रमवद् भ्रान्तम् असत् सद् वैकनिश्चयः ।
जगत् पश्यत्य् असक्तात्मा न स दुःखे निमज्जति ॥

4.23.25

यस्येमास् स्वस्वरूपासु भावनास्व् आत्मभावनाः ।
अस्वरूपस्वरूपस्य तस्याविद्यैव विद्यते ॥

4.23.26

विकारितादयो दोषा न केचन महात्मनि ।
परमात्मनि विद्यन्ते पयसीवेह पांसवः ॥

4.23.27

भावना शब्दशब्दार्थरञ्जनेयं जगद्गता ।
व्यवहारार्थम् उत्पन्ना व्यतिरिक्ता न चात्मनः ॥

4.23.28

अनेन व्यवहारेण विनैताश् शास्त्रदृष्टयः ।
संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः ॥

4.23.29

उह्यमानो ह्य् अविद्याध्वन्य् आत्मा नेहोपलभ्यते ।
आत्मज्ञानाद् ऋते तच् च शास्त्रार्थात् समवाप्यते ॥

4.23.30

अविद्यासरितः पारम् आत्मलाभाद् ऋते किल ।
राम नासाद्यते तद् धि पदम् अक्षयम् अच्युतम् ॥

4.23.31

यतः कुतश्चिज् जातेयम् अविद्या भ्रमदायिनी ।
नूनं स्थितिम् उपायाता समाच्छाद्य पदं स्थिता ॥

4.23.32

कुतो जातेयम् इति ते राम मास्तु विचारणा ।
इमां कथम् अहं हन्मीत्य् एषा ते ऽस्तु विचारणा ॥

4.23.33

अस्तङ्गतायां क्षीणायाम् अस्यां ज्ञास्यसि राघव ।
यत एषा यथा चैषा यथा नष्टेत्य् अखण्डितम् ॥

4.23.34

वस्तुतः खलु नास्त्य् एषा विभात्य् एवानवेक्षिता ।
असतो भ्रान्तिभातस्य रूपं जानाति कः कुतः ॥

4.23.35

जातेयं प्रौढिम् आपन्ना दोषायैवातताकृतिः ।
बलात् प्रणाशयित्वैनां परिज्ञास्यसि वै ततः ॥

4.23.36

अपि शूरा अपि प्राज्ञास् ते न सन्ति जगत्त्रये ।
अविद्यया ये पुरुषा न नाम विवशीकृताः ॥

4.23.37

तद् अस्यां रोगशालायां यत्नं कुरु चिकित्सने ।
यथैषा जन्मदुःखेन न भूयस् त्वां नियोक्ष्यति ॥

4.23.38

सर्वापदाम् एकसखीम् अज्ञानतरुमञ्जरीम् ।
अनर्थसार्थजननीम् अविद्याम् अलम् उद्धर ॥

4.23.39

भयविषाददुराधिविपत्प्रदां हृदयमोहमहापटलाकुलाम् ।
भृशम् अपास्य कुदृष्टिम् इमां बलाद् भव भवार्णवपारम् उपागतः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc