भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.22

4.22.1

उत्पत्तिः कथम् एतेषां जीवानां ब्रह्मणः पदात् ।
कियती कीदृशी वेति विस्तरेण वद प्रभो ॥

4.22.2

उत्पद्यन्ते यथा चित्रा ब्रह्मणो भूतजातयः ।
यथा नाशं प्रयान्त्य् एता यथा मुक्ता भवन्ति च ॥

4.22.3

यथा च परिवर्धन्ते तिष्ठन्त्य् अन्तर्हिता यथा ।
तत् क्रमेण महाबाहो शृणु वक्ष्यामि ते ऽनघ ॥

4.22.4

ब्राह्मी चिच्छक्तिर् अमला कलयन्ती यदृच्छया ।
सर्वशक्तिस् स्वयं चेत्यं भवत्य् आकलनात्मकम् ॥

4.22.5

कलना घनताम् एत्य यत् किञ्चिद् अपि सा स्वयम् ।
सङ्कल्पयति पश्चात् तत् तत्ताम् एति मनःपदम् ॥

4.22.6

मनस् सङ्कल्पमात्रेण गन्धर्वपुरवत् क्षणात् ।
तनोतीदम् असद् दृश्यं ब्राह्मीं दृष्टिम् इव त्यजत् ॥

4.22.7

चित्स्वरूपं परिकचच् छून्यम् एवावतिष्ठते ।
यत् तद् दृश्यं स्थितं तस्माद् दृश्यम् आकाशम् एव नः ॥

4.22.8

कृत्वा पद्मजसङ्कल्पं रूपं पश्यति पाद्मजम् ।
ततो जगत् कल्पयति स्वप्रजापतिपूर्वकम् ॥

4.22.9

चतुर्दशविधानन्तभूतजातसघुङ्घुमम् ।
ज्ञप्तिर् एवम् इयं राम चित्तान् निर्मितिम् आगता ॥

4.22.10

चित्तमात्रमयी शून्या व्योममात्रशरीरिका ।
सङ्कल्पमात्रनगरी भ्रान्तिमात्रात्मिकासती ॥

4.22.11

इह काश्चिन् महामोहा भूतानां जातयस् स्थिताः ।
काश्चिद् अभ्युदितज्ञानाः काश्चिन् मध्ये स्खलन्ति हि ॥

4.22.12

भुवि सम्बुध्यमानानां यान्तीनाम् उपदेश्यताम् ।
सर्वासां भूतजातीनां या एता नरजातयः ॥

4.22.13

बह्वाधयो दुःखमय्यस् ता हि द्वेषभयातुराः ।
तासां मध्यात् प्रवक्ष्यामि तावद् राजससात्त्विकीम् ॥

4.22.14

यत् तद् अस्त्य् अमृतं ब्रह्म सर्वव्यापि निरामयम् ।
चिदाभासम् अनन्ताख्यम् अनादि विगतभ्रमम् ॥

4.22.15

निस्स्पन्दवपुषस् तस्य स्पन्दसत्तैकदेशतः ।
घनताम् एति सोम्ये ऽब्धौ चलत्वाच् चक्रताम् इव ॥

4.22.16

अनन्तस्यात्मतत्त्वस्य एकदेशः क उच्यते ।
कथं विकारिता वा स्यात् कथं चावयविक्रमः ॥

4.22.17

तेन जातं ततो जातम् इतीयं रचना गिराम् ।
शास्त्रसंव्यवहारार्थं न राम परमार्थतः ॥

4.22.18

विकारितावयवितादिङ्मत्तादेशितादयः ।
क्रमा न सम्भवन्तीशे दृश्यमानोदया अपि ॥

4.22.19

तं विना कल्पनैवान्या नास्ति नापि भविष्यति ।
कुतस्त्यौ क्रमशब्दार्थाव् उक्तयो व्यवहारजाः ॥

4.22.20

येहा या कल्पना यो ऽर्थो यश् शब्दो यो ऽङ्गिनां गणः ।
तज्जत्वात् तन्मयत्वाच् च तत् तत् तन्मयम् इष्यते ॥

4.22.21

तज्जस् स एव भवति वह्नेर् वह्निर् इवोत्थितः ।
जन्यो ऽयं जनकश् चायम् इत्य् उक्तौ भेदकल्पना ॥

4.22.22

अयम् अस्मात् समुत्पन्न इतीयं या जगत्स्थितिः ।
आधिक्यं तत् क्रियाशक्तौ जन्यं जनकम् एव तत् ॥

4.22.23

इदम् अन्यद् इदं चान्यद् इति शब्दार्थविभ्रमः ।
उक्ताव् एव न देवो ऽस्ति प्रमिते भिन्नता यतः ॥

4.22.24

तज्जयैव मनश्शक्त्या स्वतस् सञ्ज्ञा प्रवर्तते ।
दृढभावनया तस्या इष्टो ऽर्थः प्रतिपद्यते ॥

4.22.25

अग्नेश् शिखाया एकस्या द्वितीया जनिकेति या ।
उक्तिवैचित्र्यम् एवैतन् नोक्त्यर्थे ऽत्रास्ति सत्यता ॥

4.22.26

न जन्यजनकाद्यास् तास् सम्भवन्त्य् उक्तयः परे ।
एकम् एव त्व् अनन्तं यत् किं कथं तज् जनिष्यते ॥

4.22.27

उक्तेर् एष स्वभावो यद् उक्तैवोक्तिर् अनन्तरम् ।
प्रतियोगिव्यवच्छेदसङ्ख्याद्यर्थेन युज्यते ॥

4.22.28

ऊर्मिजालम् इवाम्भोधौ परे यः परिदृश्यते ।
शब्दार्थकलनाकारस् तद् ब्रह्मैव विदुर् बुधाः ॥

4.22.29

ब्रह्म चिद् ब्रह्म च मनो ब्रह्म ज्ञानम् अवस्तु च ।
ब्रह्मार्थो ब्रह्म शब्दश् च ब्रह्म दिग् ब्रह्म धातवः ॥

4.22.30

अयम् अन्यो ऽयम् अन्यो ऽयं भाग इत्य् अन्तर् आत्मनोः ।
मिथ्याज्ञानविकल्पोक्तौ वाचि सत्यार्थतात्र का ॥

4.22.31

वह्नेश् शिखाया जातेयं शिखेति मनसो हि या ।
चापलोत्था विकल्पश्रीर् वस्तुतस् सा न सिध्यति ॥

4.22.32

असत्यैव विकल्पोक्तिस् सत्यभावेन कल्प्यते ।
मोहोपहतदृष्टित्वाद् द्विचन्द्रज्ञानदोषवत् ॥

4.22.33

सर्वस्मात् सर्वगात् तस्माद् अनन्ताद् ब्रह्मणः पदात् ।
नान्यत् किञ्चित् सम्भवति तद् उक्तं यत् तद् एव तत् ॥

4.22.34

ब्रह्मतत्त्वं विना नेह किञ्चिद् एवोपपद्यते ।
सर्वं च खल्व् इदं ब्रह्मेत्य् एषैव परमार्थता ॥

4.22.35

एवम्प्रायश् च हे प्राज्ञ सिद्धान्तस् ते भविष्यति ।
अत्रैवोदाहरिष्यामस् सिद्धान्तार्थोक्तिपञ्जरम् ॥

4.22.36

इहाविद्यादिकाः केचिद् विद्यन्ते नेतरे क्रमाः ।
ज्ञास्यस्य् अलम् अशेषार्थम् एतद् अज्ञानसङ्क्षये ॥

4.22.37

अवस्तुसङ्क्षये वस्तु यथावस्तु प्रसीदति ।
यथावद् दृश्यते दृश्यं जगन् नैशतमःक्षये ॥

4.22.38

यद् इदम् अखिलम् आततं कुदृष्ट्या तद् उपशमे तव राम निर्मलाभे ।
अवितथवरदर्शने भविष्यत्य् अवितथम् एव न संशयो ऽत्र कश्चित् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc