मोक्षोपाय · अध्याय 4.21
सर्वेषाम् एव जीवानां सर्वासाम् अभितो दृशाम् ।
समग्राणां पदार्थानाम् उत्पत्तिर् ब्रह्मणो ऽनिशम् ॥
लोकाः पराद् उपायान्ति तस्मिन् स्थित्वा विशन्त्य् अलम् ।
तन्मया एव सततं तरङ्गा इव सागरे ॥
ब्रह्मैवेदं स्थितं नाना मलम् अस्तीह नानघ ।
तरङ्गोर्मिगणैर् अम्भस् सिन्धौ स्फुरति नो रजः ॥
द्वितीया कल्पनैवेह न रघूद्वह विद्यते ।
ब्रह्ममात्राद् ऋते वह्नाव् औष्ण्यमात्राद् ऋते यथा ॥
निर्दुःखं ब्रह्म निर्धर्म तज्जं दुःखम् इदं जगत् ।
अस्पष्टार्थम् इदं ब्रह्मन् न वेद्मि वचनं तव ॥
इत्य् उक्ते तत्र रामेण चिन्तयाम् आस चेतसा ।
वसिष्ठो मुनिशार्दूलो राघवस्योपदेशने ॥
परं विकासम् आयाता नास्य तावद् इयं मतिः ।
किञ्चिन् निर्मलतां प्राप्ता प्रोह्यते वेह वस्तुनि ॥
व्युत्पन्नमनसस् त्व् अस्य ज्ञातज्ञेयस्य धीमतः ।
मोक्षोपायगिरां पारं प्रयातस्य विवेकतः ॥
न कश्चित् कस्यचिद् दोषो नास्त्य् अविद्यात्मनीत्य् अलम् ।
यावन् नोक्तं न विश्रान्तिं तावद् यात्य् एव राघवः ॥
अर्धव्युत्पन्नबुद्धेस् तु नैतत् वक्तुं हि शोभनम् ।
दृष्ट्यानया भोगदशां भावयन्न् एष नश्यति ॥
परां दृष्टिं प्रयातस्य भोगेच्छा नाभिजायते ।
सर्वं ब्रह्मेति सिद्धान्तकाले रामस्य युज्यते ॥
आदौ शमदमप्रायैर् गुणैश् शिष्यं विशोधयेत् ।
पश्चात् सर्वम् इदं ब्रह्म शुद्धस् त्वम् इति बोधयेत् ॥
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।
महानरकजालेषु स तेन विनियोजितः ॥
प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः ।
नास्त्य् अविद्यामलम् इति युक्तं वक्तुं महात्मनः ॥
इति सञ्चिन्त्य भगवान् अज्ञानतिमिरापहः ।
समुवाच मुनिश्रेष्ठो वसिष्ठो भूमिभास्करः ॥
कलङ्ककलना ब्रह्मण्य् अस्ति नास्तीति राघव ।
सिद्धान्तकाले वक्तव्यं स्वयं ज्ञास्यसि वानघ ॥
स्मयविस्मयसम्मोहहर्षामर्षविकारिताम् ।
समताचलितस् तज्ज्ञो न कदाचन गच्छति ॥
सति दीप इवालोकस् सत्य् अर्क इव वासरः ।
सति पुष्प इवामोदस् स्वतस् सम्पद्यते जगत् ॥
आभासमात्रम् एवेदं परिदृश्यत एव वा ।
स्पन्दस् समीरणस्येव न सन् नासद् इव स्थितम् ॥
नश्यतीह हि तद् वस्तु नात्मभूतं यद् आत्मनः ।
कथं नश्यति तद् वस्तु स्वात्मभूतं यद् आत्मनः ॥
आशामञ्जरिताकृतिं विवलितं दुःखाहिभिर् दारुणैर् भोगैः पल्लवितं जराकुसुमितं तृष्णालताभासुरम् ।
संसारं विषवृक्षम् आत्मनिगडं छित्त्वा विवेकासिना मुक्तस् त्वं विहरेह वारणपतिस् स्तम्भाद् इवोन्मोचितः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0