भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.18

4.18.1

यथेदं संस्थितं विश्वं विश्वातीते चिदात्मनि ।
तन् मे कथय हे ब्रह्मन् पुनर् बोधाभिवृद्धये ॥

4.18.2

यथोर्मयो ऽनभिव्यक्ता भाविनः पयसि स्थिताः ।
न स्थिताश् चाप्य् अलक्ष्यत्वाच् चित्तत्त्वे सृष्टयस् तथा ॥

4.18.3

यथा सर्वगतस् सौक्ष्म्याद् आकाशो नोपलभ्यते ।
तथा निरंशश् चिद्भागस् सर्वगो ऽपि न लक्ष्यते ॥

4.18.4

अस्थितैव स्थितैवान्तः प्रतिमास्त्री मणौ यथा ।
न सत्यभूता नासत्या तथेयं सृष्टिर् आत्मनि ॥

4.18.5

खाधारैर् अम्बुदैः खस्थैर् न स्पृष्टं गगनं यथा ।
चित्स्थैस् सर्गैश् चिदाधारैर् न स्पृष्ता चित् परा तथा ॥

4.18.6

जलधिष्व् एव नो मह्यां यथाग्निः प्रतिबिम्बति ।
तथा पुर्यष्टकेष्व् एव चिन् न देहेषु लक्ष्यते ॥

4.18.7

सर्वसङ्कल्परहिता सर्वसञ्ज्ञाविवर्जिता ।
सैषा चिद् अविनाशात्मतत्त्वोक्त्यादिकृताभिधा ॥

4.18.8

आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी ।
सकलामलसंसारस्वरूपैकात्मदर्शिनी ॥

4.18.9

तरङ्गादिमयी स्फारा नानाता सलिलार्णवे ।
चिन्मात्रव्यतिरेकेण तथा नैव प्रकाशते ॥

4.18.10

चिच् चिनोति चितं चेत्यं तेनेदं स्थितम् आत्मनि ।
ज्ञे ऽज्ञे त्व् अन्यत्वम् आयातम् अन्यद् अस्तीति कल्पनात् ॥

4.18.11

अज्ञेष्व् असत्स्वभावोग्रसंसारगणरूपिणी ।
ज्ञेषु प्रकाशरूपैव सकलैकात्मिका सती ॥

4.18.12

अनुभूतिवशान् नित्यम् अर्कादीनां प्रकाशिनी ।
स्वादनी सर्वभावानां भावनी भवभाविनाम् ॥

4.18.13

नास्तम् एति न चोदेति नोत्तिष्ठति न तिष्ठति ।
न च याति न चायाति न चेह न च नेह चित् ॥

4.18.14

सैषा चिद् अमलाकारा स्वयम् आत्मनि संस्थिता ।
राघवेत्थं प्रपञ्चेन जगन्नाम्ना विजृम्भते ॥

4.18.15

तेजःपुञ्जैर् यथा तेजः पयःपूरैर् यथा पयः ।
परिस्फुरति सस्पन्दैस् तथा चित् सर्गसम्भ्रमैः ॥

4.18.16

तत्स्वभावेन चिन्नाम्ना सर्वगेनोदितात्मना ।
प्रकाशेनाप्रकाशेन निरंशेनांशधारिणा ॥

4.18.17

स्वयं स्ववलनायोगाद् अनन्तं पदम् उज्झता ।
अयं सो ऽस्मीति भावेन गच्छताज्ञपदं शनैः ॥

4.18.18

नानातायां प्ररूढायाम् अस्यां संसृतिपूर्वकम् ।
भावाभावग्रहोत्सर्गपदे स्थितिम् उपागते ॥

4.18.19

पुर्यष्टकं स्पन्दशतैः करोति न करोति च ।
उत्सेधम् एति भूकोशकोटरस्थो ऽङ्कुरोत्करः ॥

4.18.20

व्योम सौषिर्यम् आदत्ते सर्वमूर्त्यविरोधि यत् ।
स्पन्दैकधर्मवान् वातो रसरूपि यथा जलम् ॥

4.18.21

दृढोर्वी प्रकटं तेजस् स्थितिमन्ति जगन्ति च ।
प्रतिबन्धाभ्यनुज्ञासु कालः कलनया स्थितः ॥

4.18.22

पुष्पं लतान्तम् आयाति शनैस् सञ्चितकेसरम् ।
मृत्कोटररसोल्लासस् तृणताम् एति भूतले ॥

4.18.23

मूलस्थाः फलम् आयान्ति पेलवा रसलेशकाः ।
सन्निवेशं व्रजन्त्य् एता रेखाः पल्लवपालिषु ॥

4.18.24

रचनाम् अनुगृह्णन्ति शक्रबाणासने ऽणवः ।
योगो भवत्य् अविरतं संस्थानेन नवो नवः ॥

4.18.25

वसन्तम् उपतिष्ठन्ते पुष्पपल्लवराशयः ।
निदाघविधिम् आयान्ति दावदाहविभूतयः ॥

4.18.26

प्रावृट्समयम् ईहन्ते नीला जलदराजयः ।
शरदं चानुधावन्ति समग्राः फलराशयः ॥

4.18.27

हिमन्तौ हिमहासिन्यो भवन्ति ककुभो दश ।
नयन्त्य् उपलताम् अम्बु शिशिरे शीतलानिलाः ॥

4.18.28

न जहाति स्वमर्यादां कालो युगमयीम् इमाम् ।
तरङ्गिणीतरङ्गौघलीलया यान्ति सृष्टयः ॥

4.18.29

नियतिस् स्थितिम् आयाति स्थैर्यचातुर्यकारिणी ।
तिष्ठत्य् आप्रलयं धीरा धरा धरणधर्मिणी ॥

4.18.30

चतुर्दशविधानीह भूतानि भुवनान्तरे ।
नानाचारविहाराणि नानाविरचनानि च ॥

4.18.31

पुनः पुनर् विलीयन्ते जायन्ते च पुनः पुनः ।
धारापरम्परापातवति वारीव बुद्बुदाः ॥

4.18.32

आयाति याति परितिष्ठति रारटीति स्वार्थान् उपार्जयति धावति जन्मराशौ ।
उन्मत्तवद् विहितभावनम् आहितेहा मुग्धा कृतान्तविवशा जनता वराकी ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc