मोक्षोपाय · अध्याय 4.19
इत्थं स्थिरचलाकारास् संसारावलयो ऽभितः ।
स्वभावाद् ब्रह्मणस् सर्वाः पुनर् आयान्ति यान्ति च ॥
स्वतस् सर्वम् इदं जातम् अन्योऽन्यं हेतुतां गतम् ।
अन्योऽन्यम् अपि नश्यच् च स्वत एव विलीयते ॥
स्वतस् स्तम्भनिभस् स्पन्दो यथागाधजलोदरे ।
तथैवेदम् असत् सच् च चिद् एव परिदृश्यते ॥
व्योमन्य् एव निराभासे निदाघात् सरितो यथा ।
लक्ष्यन्ते तद्वद् एवेमाश् चित्तत्त्वे सृष्टिदृष्टयः ॥
यथा मदवशाद् आत्मा स्वो ऽन्यवत् प्रतिभासते ।
तथैव चित्त्वाच् चिद्धातुस् स एवास इव स्थितः ॥
न चेदं सद् असन् नेदं तत्स्थातत्स्थतया चितिः ।
नातिरिक्तातिरिक्ता च कटकादिषु हेमता ॥
येन शब्दं रसं रूपं गन्धं जानासि राघव ।
सो ऽयम् आत्मा परं ब्रह्म सर्वम् आपूर्य संस्थितः ॥
नानैकताम् अतीतात् तु सर्वगाद् अमलात्मनः ।
द्वितीया कल्पनैवास्ति काचिन् नेतरथा क्वचित् ॥
राशेर् अभावाद् अन्यस्य भावाभावाश् शुभाशुभाः ।
सृष्टयः परिकल्प्यन्ते नात्मनैवाथ वात्मनि ॥
नासि रामो न चारामस् त्वम् इयं ब्रह्मसंस्थितिः ।
सर्वद्वन्द्वविनिर्मुक्तः कर्ता भव गतज्वरः ॥
पुरः कृत्वा कृत्वा बहुविधम् इदं कर्म तरसा त्वया प्राप्यं किं तद् वद यद् उचितं भूतगणकात् ।
अकर्तृत्वे चास्था भवतु तव मावाञ्छनमतेर् भव स्वस्थस्वच्छस् स्थिततरमतिर् धैर्यजलधिः ॥
गत्वा सुदूरम् अपि यत्नवता जनेन नासाद्यते तद् इह येन सुपूर्णतेति ।
मत्वेति सन्त्यज पदार्थगणं धिया त्वं तत्त्वं स्वम् एव परमार्थतया चिदात्मा ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0