भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.17

4.17.1

जयन्ति ते सदा शूरास् साधवो यैर् विनिर्जितम् ।
अविद्यामदिरोल्लासि स्वमनो विषयोन्मुखम् ॥

4.17.2

संसारस्यास्य दुःखस्य सर्वोपद्रवदायिनः ।
उपाय एक एवास्ति मनसस् स्वस्य निग्रहः ॥

4.17.3

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
भोगेच्छामात्रको बन्धस् तत्त्यागो मोक्ष उच्यते ॥

4.17.4

किम् अन्यैश् शास्त्रसन्दर्भैः श्रूयताम् इदम् एव तत् ।
यद् यत् स्वाद्व् अङ्ग तत् सर्वं दृश्यतां विषवह्निवत् ॥

4.17.5

विषया विषमाभोगाः प्रविचार्याः पुनः पुनः ।
ते ह्य् अनिष्टाः परित्याज्यास् सेव्यमानास् सुखावहाः ॥

4.17.6

दोषान् प्रसूते सस्फारान् वासनावासिता मतिः ।
कीर्णकण्टकबीजा भूः कण्टकप्रसरं यथा ॥

4.17.7

अलग्नवासनागर्भा मतिः प्रसरवर्जिता ।
अदृष्टरागद्वेषा सा शमम् एति शनैः परम् ॥

4.17.8

शुभवासनागर्भा धीः प्रसूते सुगुणान् सदा ।
फलदान् अङ्कुरान् काले श्रेष्ठबीजवतीव भूः ॥

4.17.9

शुभभावानुसन्धानात् प्रसन्ने मनसि स्थिते ।
शनैश् शनैः प्रशान्ते च मिथ्याज्ञानघनाम्बुदे ॥

4.17.10

वृद्धिं गते च सौजन्ये शुक्लपक्ष इवोडुपे ।
विवेके प्रसृते पुण्ये जगतीवार्कतेजसि ॥

4.17.11

धृताव् अन्तर् विवृद्धायां मुक्तायाम् इव कीचके ।
स्थिताव् अन्तः कृतास्थायां रुचाव् इव निशाकरे ॥

4.17.12

फलिते शीतलच्छाये सत्सङ्गसफलद्रुमे ।
स्रवत्य् आनन्दसुरसं समाधिसरलद्रुमे ॥

4.17.13

मनो भवति निर्द्वन्द्वं निष्कामम् अनुपद्रवम् ।
प्रशान्तचापलानर्थलोभमोहभयामयम् ॥

4.17.14

क्षीणशास्त्रार्थसन्देहं विगताशेषकौतुकम् ।
निरस्तकल्पनाजालं जीवन्मुक्तम् अलेपकम् ॥

4.17.15

निरीहं निरुपाक्रोशं निरपेक्षं निराधि च ।
संशान्तशोकनीहारम् असक्तं ग्रन्थिवर्जितम् ॥

4.17.16

स्वेन्द्रियोग्रसुतं सूतं सतृष्णादारपञ्जरम् ।
नाशयित्वा स्वम् आत्मानं साधयत्य् अर्थम् ऐश्वरम् ॥

4.17.17

आत्मपीवरताहेतून् विकल्पान् स्वयम् उज्झति ।
सद्भृत्यः प्रभुकृत्येषु जहाति तृणवत् तनुम् ॥

4.17.18

मनसो ऽभ्युदयो नाशो मनोनाशो महोदयः ।
ज्ञमनो नाशम् अभ्येति मनो ऽज्ञस्य विवर्धते ॥

4.17.19

मनोमात्रं जगच्चक्रं मनः पर्वतमण्डलम् ।
मनो व्योम मनो देहो मनो मित्रं मनो रिपुः ॥

4.17.20

विकल्पकलुषा या स्याच् चित्तत्त्वस्यात्मविस्मृतिः ।
मन इत्य् उच्यते सेयं वासना भवभागिनी ॥

4.17.21

चेत्यानुपातकलितं चिन्मात्रेतिक्षताभिधम् ।
मनाग् विकल्पकलुषं चित्तत्त्वं जीव उच्यते ॥

4.17.22

चेत्यप्रपतितं रूढसञ्ज्ञम् अज्ञत्वम् आगतं ।
तद् एवाधिकविस्तारं कल्प्यते तन्मनस्तया ॥

4.17.23

नात्मा संसारपुरुषो न शरीरं न शोणितम् ।
जडं सर्वं शरीरादि देही खवद् अलेपकः ॥

4.17.24

शरीरे कणशः कृत्ते नास्त्य् अन्यद् रुधिरादिकात् ।
निर्भिन्ने कदलीस्तम्भे नास्त्य् अन्यत् पल्लवाद् ऋते ॥

4.17.25

मनो जीवं नरं विद्धि तद् एवाकारम् आगतम् ।
आत्मनात्मानम् आदत्ते स्वविकल्पांशकल्पितम् ॥

4.17.26

स्वविकल्पान् नरस् तन्तून् प्रसार्य रचयत्य् अलम् ।
जालम् आत्मनिबन्धाय कोशकारः क्रिमिर् यथा ॥

4.17.27

इमं देहभ्रमं त्यक्त्वा देशकालान्तरे पुनः ।
शरीरम् अन्यद् आदत्ते पल्लवत्वम् इवाङ्कुरः ॥

4.17.28

यादृग्वासनम् एतत् स्यान् मनस् तादृक् प्रजायते ।
जनस् स्वपिति यच्चित्तस् तत् स्वप्ने निशि पश्यति ॥

4.17.29

अम्ब्लम् अम्ब्लरसासिक्तं मधुरं मधुरञ्जितम् ।
बीजं प्रतिविषाकल्कसिक्तं च कटु जायते ॥

4.17.30

शुभवासनया चेतो महत्या जायते महत् ।
भवतीन्द्रमनोराज्याद् इन्द्रतास्वप्नभाङ् नरः ॥

4.17.31

क्षुद्रवासनया चेतः क्षुद्रताम् एति पेलवाम् ।
पिशाचविभ्रमात् स्वस्थः पिशाचान् निशि पश्यति ॥

4.17.32

मनसि स्फारनैर्मल्ये कालुष्यं याति न स्थितिम् ।
तथैव स्फारकालुष्ये प्रसादो याति न स्थितिम् ॥

4.17.33

मनसि स्फारकालुष्ये तद्रूपं जायते फलम् ।
तथैव स्फारनैर्मल्ये तद्रूपं जायते फलम् ॥

4.17.34

त्यजत्य् उदारां न गतिं क्षीणो ऽप्य् अत्यन्तम् उत्तमः ।
उद्योगवान् अविरतं पूरणाशाम् इवोडुपः ॥

4.17.35

नेह बन्धो न मोक्षो ऽस्ति न बध्यो न च बन्धनम् ।
मिथ्योत्थितैव मायेयम् इन्द्रजाललता यथा ॥

4.17.36

गन्धर्वनगराकारो मृगतृष्णाक्रमोत्थितः ।
द्विचन्द्रविभ्रमाभासस् संसारो ऽयम् असन्मयः ॥

4.17.37

नानन्तो ऽहं वराको ऽहम् इति दुर्निश्चयोदितः ।
अनन्तो ऽस्मि परो ऽस्मीति निश्चयेन विलीयते ॥

4.17.38

सर्वगे स्वात्मनि स्वच्छे यैषा प्रमितिभावना ।
एतत् तद् बन्धनं लोके स्वविकल्पोपकल्पितम् ॥

4.17.39

बन्धमोक्षदशाहीना द्वित्वैकत्वविवर्जिता ।
सर्वैव ब्रह्मसत्तेयम् इत्य् एषा परमार्थता ॥

4.17.40

मनो निर्मलतां यातम् असक्तं सर्वदृष्टिषु ।
अमनस्ताम् इवापन्नं ब्रह्म पश्यति नान्यथा ॥

4.17.41

मनो निर्मलतां यातं शुभसन्तानवारिभिः ।
ब्राह्मीं दृष्टिम् उपादत्ते रङ्गं शुक्लः पटो यथा ॥

4.17.42

सर्वम् एव ममात्मेति सत्यभावनयानघ ।
हेयादेयदले क्षीणे बन्धमोक्षौ किम् उच्यताम् ॥

4.17.43

शुद्धस्य मनसः कायश् शास्त्रवैराग्यबुद्धिभिः ।
अभिजातोपलस्येव गलत्य् अभ्येति च द्युतिः ॥

4.17.44

पदार्थेनैकताम् एत्य मनसो यैकतानता ।
असम्यग्ज्ञानदृष्टिं तां विद्धि क्षणविनाशिनीम् ॥

4.17.45

सबाह्याभ्यन्तरं त्यक्त्वा सर्वा दृश्यदृशो यदा ।
मनस् तिष्ठति संलीनं सम्प्राप्तं तत् पदं तदा ॥

4.17.46

दृश्यदृष्टिस् स्फुटा येयं सा ह्य् अवश्यम् असन्मयी ।
तन्मयत्वं च मनसस् स्वरूपं विद्धि नेतरत् ॥

4.17.47

आद्यन्तयोर् विनाशित्वान् मध्ये ऽपि तद् असन्मयम् ।
कुज्ञानमनसस् तेन दुःखिता हस्तसंस्थिता ॥

4.17.48

आत्मैवेदं जगद् इति विना भावेन दुःखदा ।
दृश्यश्रीर् अन्यथा त्व् एषा भोगमोक्षैकदायिनी ॥

4.17.49

जलम् अन्यत् तरङ्गो ऽन्य इति नानातयाज्ञता ।
जलम् एव तरङ्गो ऽयम् इत्य् एकत्वात् किल ज्ञता ॥

4.17.50

अज्ञत्वाद् दुःखम् आयाति हेयोपादेयरूपि यत् ।
तदभावेन तु ज्ञत्वाद् आनन्त्यम् अवशिष्यते ॥

4.17.51

सङ्कल्पकल्पितत्वाच् च मनोरूपम् असन्मयम् ।
असन्मयविनाशे तु कः क्लेशो वद राघव ॥

4.17.52

अवत्सलो यथा बन्धुर् अरागद्वेषया धिया ।
दृश्यते पश्य तद्वत् त्वं दृश्यपञ्जरम् आत्मनः ॥

4.17.53

अवत्सलाद् यथा बन्धोस् सुखदुःखैर् न लिप्यते ।
परत्वसम्परिज्ञातात् तथा तत्त्वचयात्मनः ॥

4.17.54

तद् अनादि शिवं ज्ञानं यन् मध्यं द्रष्टृदृश्ययोः ।
तस्मिन् सत्ये मनश् शान्तं पांसुर् वायुक्षये यथा ॥

4.17.55

उपशान्ते मनोवायौ देहपांसुः प्रशाम्यति ।
पुनस् संसारनगरे न नीहारः प्रवर्तते ॥

4.17.56

वासनाप्रावृषि क्षीणसंस्थितौ शमम् आगते ।
जाड्ये जनितहृत्कम्पे पङ्के शोषम् उपागते ॥

4.17.57

शुष्कतृष्णालतेष्व् अन्तर् महाहृदयकानने ।
अक्षक्षीणकदम्बेषु मिथ्याज्ञानघने क्षते ॥

4.17.58

क्षीयते मोहमिहिका प्रभात इव शर्वरी ।
क्वापि गच्छति तज् जाड्यं विषं मन्त्रहतं यथा ॥

4.17.59

देहाद्रौ न नवच्छिद्रसरितः प्रस्रवन्त्य् अलम् ।
नोल्लसन्ति लसत्पक्षास् सङ्कल्पोग्रकलापिनः ॥

4.17.60

परां निर्मलताम् एति स्वचिदाकाशकोटरम् ।
राजते ऽतितराम् अच्छो जीवादित्यो महोदयः ॥

4.17.61

घनमोहभरोन्मुक्ता विविक्तत्वं परं गताः ।
शमम् एत्यातिशोभन्ते धौता आशामहादिशः ॥

4.17.62

भृशम् आभाति विमला मुदिताकाशमञ्जरी ।
शीतलीकृतदिक्चक्रा शरद्व्योम्नीव चन्द्रिका ॥

4.17.63

सर्वसम्पत्प्रकाशेन परमानन्दशालिनी ।
भृशं सफलताम् एति सुविविक्ता विवेकभूः ॥

4.17.64

सपर्वतवनाभोगं परमालोकसुन्दरम् ।
अच्छाच्छं शीतलच्छायं जायते भुवनान्तरम् ॥

4.17.65

विस्तारितां सुशमतां स्फारितां स्फुटिकाच्छताम् ।
उपैति हृत्सरस् स्वच्छनीरुगम्भोजकोटरम् ॥

4.17.66

हृत्पद्मकोशान् मलिनस् स्वाहङ्कारमधुव्रतः ।
अपुनर्दर्शनायैव चञ्चलः क्वापि गच्छति ॥

4.17.67

भवत्य् अपगतापेक्षस् सर्वगस् सर्वनायकः ।
निर्वासनश् शान्तमनास् स्वदेहनगरेश्वरः ॥

4.17.68

विचारणासमधिगतात्मदीपके मनस्य् अलं व्यपगलिते च धीरधीः ।
विलोकयन् क्षयभयनीरसा गतीर् गतज्वरो विलसति देहपत्तने ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc