भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.16

4.16.1

अत्र ते शृणु वक्ष्यामि दामादिषु गतेष्व् अथ ।
यद् वृत्तं शम्बरस्यैव नगरे नगसन्निभे ॥

4.16.2

तथा गगनविभ्रष्टे समस्ते ध्वस्तसंस्थितौ ।
विनष्टे शम्बरानीके शरदीवाभ्रमण्डले ॥

4.16.3

देवनिर्जितसैन्यो ऽसौ नीत्वा कतिपयास् समाः ।
पुनर् देववधोद्युक्तश् चिन्तयाम् आस दानवः ॥

4.16.4

दामादयस् ते रचिता ये मया माययासुराः ।
मौर्ख्यात् तैर् भाविता युद्धे मिथ्यैवान्तर् अहङ्कृतिः ॥

4.16.5

इदानीं संसृजाम्य् अन्यान् दानवान् माययोदितान् ।
तान् अथाप्य् आत्मशास्त्रज्ञान् सविवेकान् करोम्य् अहम् ॥

4.16.6

ततस् तत्त्वपरिज्ञानान् मिथ्या भावनयोत्थितम् ।
नाहङ्कारं प्रयास्यन्ति विजेष्यन्ति च तान् सुरान् ॥

4.16.7

इति सञ्चिन्त्य दैत्येन्द्रस् तादृशान् दानवाधिपान् ।
माययोत्पादयाम् आस बुद्बुदान् इव वारिधिः ॥

4.16.8

सर्वज्ञा वेद्यवेत्तारो वीतरागा गतैनसः ।
यथाप्राप्तैककर्तारो भावितात्मान उत्तमाः ॥

4.16.9

भीमो भासो द्रुट इति नामभिः परिलाञ्छिताः ।
जगत् तृणम् इवाशेषं पश्यन्तः पावनाशयाः ॥

4.16.10

ते स्म दैत्या भुवं प्राप्य च्छादयाम् आसुर् अम्बरम् ।
गर्जन्तो हेतितडितः प्रावृषीव पयोधराः ॥

4.16.11

अयुध्यन्त समं देवैर् अपि वर्षगणान् बहून् ।
विवेकवशतो जग्मुर् नाहङ्कारं कदाचन ॥

4.16.12

तेषां यावद् उदेत्य् अन्तर् ममेदम् इति वासना ।
तावत् को ऽयम् अहं चेति विचाराद् यात्य् असत्यताम् ॥

4.16.13

असच् छरीरं चिच् छुद्धा को ऽसाव् अहम् इति स्थितः ।
विचाराद् इत्थम् एतेषां प्रोदगुर् न भयादयः ॥

4.16.14

असच् छरीरं नास्तीदं चिच् छुद्धैवात्मनि स्थिता ।
अहं नाम न चान्यो ऽस्ति निश्चित्येत्य् असुरा बभुः ॥

4.16.15

ततस् तैर् निरहङ्कारैर् जरामरणनिर्भयैः ।
प्राप्तानुकारिभिर् वीरैर् वर्तमानानुवर्तिभिः ॥

4.16.16

असक्तबुद्धिभिर् नित्यं हतान्यैर् अप्य् अहन्तृभिः ।
वासनाजालनिर्मुक्तैः कृतकार्यैर् अकर्तृभिः ॥

4.16.17

प्रभोः कार्यम् इदं कार्यम् इति सङ्गरतत्परैः ।
वीतरागैर् गतद्वेषैस् सततं समदृष्टिभिः ॥

4.16.18

सा दैवी दानवैस् सेना भीमभासद्रुटादिभिः ।
हता भुक्ता क्षता प्लुष्टा स्वान्त्रश्रीर् इव भोक्तृभिः ॥

4.16.19

भीमभासद्रुटक्षुण्णा ततो गीर्वाणवाहिनी ।
परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता ॥

4.16.20

सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम् ।
जगाम शरणं शैलं वातान्तेवाब्दमालिका ॥

4.16.21

विष्णुर् आश्वासयाम् आस तां भीतां देववाहिनीम् ।
भुजगाभिद्रुताम् एकां रमणीम् इव नायकः ॥

4.16.22

अथ क्षीरोदकुहरे तावत् सा सुरवाहिनी ।
उवास यावद् भगवान् अरिनाशार्थम् उद्ययौ ॥

4.16.23

बभूव दारुणं युद्धं शौरिशम्बरयोस् ततः ।
अकाल इव कल्पान्तस् समुड्डीनकुलाचलः ॥

4.16.24

शशाम समरे तस्मिन् दैत्यस् सबलवाहनः ।
नारायणहतो यातश् शम्बरो वैष्णवीं पुरीम् ॥

4.16.25

भीमभासद्रुटास् ते तु तस्मिन् विषमसङ्गरे ।
विष्णुनैव शमं नीताः पवनेनेव दीपकाः ॥

4.16.26

ते हि निर्वासना एव यदा शान्तिम् उपागताः ।
तदैतेषां गतिर् जाता दीपानाम् इव शाम्यताम् ॥

4.16.27

तस्माद् वासनया बद्धं मुक्तं निर्वासनं मनः ।
राम निर्वासनीभावम् आहराशु विवेकतः ॥

4.16.28

सम्यगालोकनात् सत्याद् वासना प्रविलीयते ।
वासनाविलये चेतश् शमम् आयाति दीपवत् ॥

4.16.29

न सत्यं किञ्चिद् एवेह यद्भावो भावयत्य् अलम् ।
नास्त्य् एव भावना तस्माद् इत्य् एतत् सम्यगीक्षणम् ॥

4.16.30

वासनाचित्तनामानौ शब्दाव् अर्थसमन्वितौ ।
सत्यावलोकनाद् यत्र विलीनौ तत् परं पदम् ॥

4.16.31

आत्मैवेदं जगत् सर्वं कः किं भावयतु क्व वा ।
भावना नाम नास्त्य् एव एतत् तत् सम्यगीक्षणम् ॥

4.16.32

वासनावलितं चित्तम् इह स्थितिम् उपागतम् ।
तद् एव तद्विनिर्मुक्तं विमुक्तम् इति कथ्यते ॥

4.16.33

नानाघटपटाकारैश् चेतस् स्थितिम् उपागतम् ।
तद् एवाशु शमं नेयं मिथ्या यक्ष इवोत्थितः ॥

4.16.34

दामव्यालकटाकारैश् चेतः परिणतं यथा ।
भीमभासद्रुटाकारैश् चेतः परिणतं तथा ॥

4.16.35

भीमभासद्रुटन्यायो राघवास्त्व् अचलस् तव ।
दामव्यालकटन्यायो मा ते भवतु राघव ॥

4.16.36

एतद् राम पुरा प्रोक्तं पित्रा कमलजेन मे ।
भवते ऽद्य मया प्रोक्तं शिष्यायात्यन्तधीमते ॥

4.16.37

दामव्यालकटन्यायस् तस्मान् मा ते ऽस्तु राघव ।
भीमभासद्रुटन्यायो नित्यम् अस्तु तवानघ ॥

4.16.38

अविरलसुखदुःखसङ्कटेयं भवपदवी भवभावनोपयाता ।
व्यवहरणवतो ऽपि भूतजातौ सततम् असक्ततया विनश्यतीति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc