भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.15

4.15.1

सर्वातिशयसाफल्यात् सर्वं सर्वत्र सर्वदा ।
सम्भवत्य् एव तस्मात् स्वं शुभोद्योगं न सन्त्यजेत् ॥

4.15.2

मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना ।
सरसीशानम् आराध्य मृत्युर् अप्य् उपनिर्जितः ॥

4.15.3

सर्वोत्कर्षेण वर्तन्ते देवा अपि विमर्दिताः ।
दानवैर् दानवार्याढ्यैर् गजैः पद्माकरा इव ॥

4.15.4

मरुत्तनृपतेर् यज्ञे संवर्तेन महर्षिणा ।
ब्रह्मणेवापरस् सर्गो रचितस् ससुरासुरः ॥

4.15.5

महातिशययुक्तेन विश्वामित्रेण विप्रता ।
भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥

4.15.6

पिष्टातकाम्बु दुष्प्रापं रसायनम् इवाश्नता ।
दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना ॥

4.15.7

त्रैलोक्यमल्लांस् तृणवन् निघ्नन् विष्ण्वब्जजादिकान् ।
युक्त्यातिशयदार्ढ्येन कालश् श्वेतेन कालितः ॥

4.15.8

प्रणयेन यमं जित्वा कृत्वा वचनसङ्गरम् ।
परलोकाद् उपानीतस् सावित्र्या सत्यवान् पतिः ॥

4.15.9

न सो ऽस्त्य् अतिशयो लोके यस्यास्ति न फलं स्फुटम् ।
भवितव्यं विचार्यातस् सर्वातिशयशालिना ॥

4.15.10

आत्मज्ञानम् अशेषाणां सुखदुःखदशादृशाम् ।
मूलङ्कषकरं तस्माद् भाव्यं तत्रातिशायिना ॥

4.15.11

नानयोपहतार्थिन्या दृश्यदृष्ट्यातिदुष्टया ।
दुःखाद् ऋते निराबाधं सुखं किञ्चिद् अवाप्यते ॥

4.15.12

अशमः परमं ब्रह्म शमश् च परमं पदम् ।
यद्य् अप्य् एवं तथाप्य् एनं प्रशमं विद्धि शङ्करम् ॥

4.15.13

अभिमानं परित्यज्य शमम् आश्रित्य शाश्वतम् ।
विचार्य प्रज्ञयार्यत्वं कुर्यात् सज्जनसेवनम् ॥

4.15.14

न तपांसि न तीर्थानि न शास्त्राणि जयन्ति वः ।
संसारसागरोत्तारे सज्जनासेवनं यथा ॥

4.15.15

लोभमोहरुषां यस्य तनुतानुदिनं भवेत् ।
यथाशास्त्रं विहरतस् स्वकर्मसु स सज्जनः ॥

4.15.16

अध्यात्मविदुषस् सङ्गात् तस्य सा धीः प्रवर्तते ।
अत्यन्ताभाव एवास्य यया दृश्यस्य दृश्यते ॥

4.15.17

दृश्यात्यन्ताभावतस् तु परम् एवावशिष्यते ।
अन्याभाववशाद् आशु जीवस् तत्रैव लीयते ॥

4.15.18

न चोत्पन्नं न चैवासीद् दृश्यं न च भविष्यति ।
वर्तमाने ऽपि नैवास्ति परम् एवास्त्य् अवेदितम् ॥

4.15.19

एतद् युक्तिसहस्रेण दर्शितं दर्श्यते ऽपि च ।
सर्वैर् एवानुभूतं हि दर्शयिष्यामि चाधुना ॥

4.15.20

यथेदम् अखिलं शान्तं त्रिजगत् संविदम्बरम् ।
इदं तत्त्वं त्व् असत्त्वादि कुतो ऽत्र स्यात् कथञ्चन ॥

4.15.21

चिच् चमत्कुरुते चारु चञ्चलाचञ्चलात्मनि ।
यत् तयैव तद् एवेदं जगद् इत्य् अवबुध्यते ॥

4.15.22

त्रैलोक्यरूपो ऽनुभवश् चिदादित्यांशुमण्डलम् ।
क्व वेन्द्वंशुमतोर् भेदो निर्विकत्थन कथ्यताम् ॥

4.15.23

स्वभावतो ऽस्याश् चिद्दृष्टेर् ये उन्मेषनिमेषणे ।
जगद्रूपानुभूतेस् ताव् एताव् अस्तमयोदयौ ॥

4.15.24

अहमर्थो ऽपरिज्ञातः परमार्थाम्बरे मलः ।
परिज्ञातो ऽहमर्थस् तु परमार्थाम्बरं भवेत् ॥

4.15.25

अहम्भावः परिज्ञातो नाहम्भावीभवत्य् अलम् ।
एकताम् अम्बुनेवाम्बु याति चिन्नभसात्मना ॥

4.15.26

अहमादि जगद् दृश्यं किल नास्त्य् एव वस्तुतः ।
अवश्यम् एव तत् कस्माच् छिष्यते ऽहंविचारिणः ॥

4.15.27

बाधते ध्यामलधियाम् अपिशाचे पिशाचधीः ।
शिशूनां नावदातान्तःकरणानां विचारणात् ॥

4.15.28

चिज्ज्योत्स्ना यावद् एवान्तर् अहङ्कारघनावृता ।
विकासम् एति नो तावत् परमार्थकुमुद्वती ॥

4.15.29

प्रमार्जिते ऽहम् इत्य् अस्मिन् पदे सार्थे स्वयं चिता ।
नरकस्वर्गमोक्षादितृष्णायाः कल्पनैव का ॥

4.15.30

हृदि यावद् अहङ्कारवारिदः प्रविजृम्भते ।
तावद् विकासम् आयाति तृष्णाकुटजमञ्जरी ॥

4.15.31

आक्रम्य चेतनादित्यम् अहङ्काराम्बुदे स्थिते ।
जाड्यम् एव स्थितिं याति न प्राकाश्यं कथञ्चन ॥

4.15.32

आसन्नो ऽयम् अहङ्कारस् स्वयं मिथ्या प्रकल्पितः ।
दुःखायैव न हर्षाय बालसम्भ्रमयक्षवत् ॥

4.15.33

मुधैव कल्पितो मोहम् अहम्भावः प्रयच्छति ।
अनन्तसंसारकरं दामादिष्व् इव दुर्मतौ ॥

4.15.34

अयं सो ऽहम् इति स्फारमोहाद् अन्यत् परं तमः ।
अनर्थभूतं संसारे न भूतं न भविष्यति ॥

4.15.35

यत् किञ्चिद् इदम् आयाति सुखदुःखम् अलातवत् ।
तद् अहङ्कारचक्रस्य प्रविकासि विजृम्भितम् ॥

4.15.36

अहङ्काराङ्कुरः कष्टो हृदि येनाधिरोपितः ।
सहस्रशाखं दुश्छेदं तस्य संसृतिकाननम् ॥

4.15.37

अहम्भावो ऽङ्कुरो जन्मवृक्षाणाम् अक्षयात्मनाम् ।
ममेदम् इति विस्तीर्णास् तेषाम् शाखास् सहस्रशः ॥

4.15.38

कचटा वातविस्फोटा भान्त्य् अर्था वासनोदयाः ।
विदार्यदारुरववत् तरङ्गारवपङ्क्तिवत् ॥

4.15.39

अहम्भावमहानाभिं त्वम् अहम्भाववर्जितः ।
संसारचक्रं वहनाद् आत्मनः परिरोधय ॥

4.15.40

अहम्भावतमो यावत् पुमरण्ये विजृम्भते ।
तावद् एता विवल्गन्ति चिन्तामत्तपिशाचिकाः ॥

4.15.41

अहङ्कारपिशाचेन गृहीतो यो नराधमः ।
न तन्त्राणि न मन्त्राश् च तस्यानाथस्य शान्तये ॥

4.15.42

चिन्मात्रे दर्पणाकारे निर्मले स्वात्मनि स्थिते ।
बिम्बत्य् अहङ्कृतिस् तस्मात् पुंसः केवात्र वाच्यता ॥

4.15.43

अहङ्कारचमत्कारो वस्तुधर्मो न राघव ।
वासनाकृत एषो ऽर्थः पुम्प्रयत्नेन शाम्यति ॥

4.15.44

नाहं न च ममार्थश्रीस् सुखदुःखे कुतस् स्थिते ।
इति भावानुसन्धानाद् अहङ्कारो न जायते ॥

4.15.45

मिथ्येयम् इन्द्रजालश्रीः किं मे स्नेहविरागयोः ।
इत्य् अन्तर् अनुसन्धानाद् अहङ्कारो न जायते ॥

4.15.46

नाहम् आत्मनि नाप्य् अस्य दृश्यश्रिय इति स्वयम् ।
शान्तेन व्यवहारेण नाहङ्कारः प्रवर्धते ॥

4.15.47

अहं हि जगद् इत्य् अन्तर् हेयादेयदृशोः क्षये ।
समतायां प्रसन्नायां नाहङ्कारः प्रवर्तते ॥

4.15.48

किमाकृतिर् अहङ्कारः कथं सन्त्यज्यते प्रभो ।
सशरीरो ऽशरीरश् च त्यक्ते तस्मिन् कथं भवेत् ॥

4.15.49

त्रिविधो राघवास्तीह त्व् अहङ्कारो जगत्त्रये ।
द्वौ श्रेष्ठाव् इतरस् त्याज्यश् शृणु त्वं कथयामि ते ॥

4.15.50

अहं सर्वम् इदं विश्वं परमात्माहम् अच्युतः ।
नान्यद् अस्तीति संविद् या परमा सा ह्य् अहङ्कृतिः ॥

4.15.51

मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ।
अहङ्काराभिधा त्व् अस्याः कल्पिता न तु वास्तवी ॥

4.15.52

सर्वस्माद् व्यतिरिक्तो ऽहं वालाग्रशतकल्पितः ।
यदि वा संविद् एषासौ द्वितीयाहङ्कृतिः परा ॥

4.15.53

मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ।
अहङ्काराभिधा त्व् अस्याः कल्पिता न तु वास्तवी ॥

4.15.54

पाणिपादादिमात्रो ऽयम् अहम् इत्य् एव निश्चयः ।
अहङ्कारस् तृतीयो ऽसौ लौकिकस् तुच्छ एव सः ॥

4.15.55

वर्ज्य एष दुरात्मासौ शत्रुर् एष परस् स्मृतः ।
अनेनाभिहतो जन्तुर् न भूयः परिरोहति ॥

4.15.56

रिपुणानेन बलिना विविधाधिप्रदायिना ।
खर्वीकृतमतिर् लोकस् सङ्कटेष्व् एव मज्जति ॥

4.15.57

अनया दुरहङ्कृत्या भावात् सन्त्यक्तया चिरम् ।
शिष्टाहङ्कारवाञ् जन्तुर् भगवान् याति मुक्तताम् ॥

4.15.58

लोकाहङ्कारदोषस्य वपुर् अस्मीति रूपिणः ।
न देहो ऽस्मीति निर्णीयवर्जनं महतां मतम् ॥

4.15.59

प्रथमौ द्वाव् अहङ्काराव् अङ्गीकृत्याप्य् अलौकिकौ ।
तृतीयाहङ्कृतिस् त्याज्या लौकिकी दुःखदायिनी ॥

4.15.60

अनया दुरहङ्कृत्या दामव्यालकटाः किल ।
तां दशां समनुप्राप्ता या कथास्व् अपि दुःखदा ॥

4.15.61

तृतीयां लौकिकीम् एतां त्यक्त्वा चित्ताद् अहङ्कृतिम् ।
किम्भावः पुरुषो ब्रह्मन् प्राप्नुयाद् आत्मने हितम् ॥

4.15.62

एषा तावत् परित्याज्या त्यक्त्वैतां दुःखदायिनीम् ।
यथा यथा पुमांस् तिष्ठेत् परम् एति तथा तथा ॥

4.15.63

एते अहङ्कृतिदशे पूर्वोक्ते भावयन् यदि ।
तिष्ठत्य् अभ्येति परमं तत् पदं पुरुषो ऽनघः ॥

4.15.64

अथ ते एव सन्त्यज्य सर्वाहङ्कृतिविवर्जितः ।
सन्तिष्ठते तथाप्य् उच्चैःपदम् एवाधिरोहति ॥

4.15.65

सर्वदा सर्वयत्नेन लौकिकी दुरहङ्कृतिः ।
परमानन्दबोधाय वर्जनीया महाधिया ॥

4.15.66

शरीरस्थामयापुण्यदुरहङ्कारवर्जनात् ।
अन्यन् न परमं श्रेय एतद् एव परं पदम् ॥

4.15.67

भावाद् अहङ्कृतिं त्यक्त्वा स्थूलाम् एतां हि लौकिकीम् ।
तिष्ठन् व्यवहरन् वापि न नरः प्रपतत्य् अधः ॥

4.15.68

संशान्ताहङ्कृतेर् जन्तोर् भोगरोगा महामतेः ।
न स्वदन्ते सुतृप्तस्य यथा प्रतिविषारसाः ॥

4.15.69

भोगेष्व् अस्वदमानेषु पुंसश् श्रेयः पुरोगतम् ।
क्षीणे ऽन्धकारे किं नाम मनसो ऽन्यत् प्रवर्तते ॥

4.15.70

अहङ्कारानुसन्धानवर्जनाद् एव राघव ।
पौरुषैकप्रयत्नोत्थात् तीर्यते भवसागरः ॥

4.15.71

नाहं न नाम मम किञ्चिद् अपीति मत्वा सर्वं च मे सकलम् अप्य् अहम् एव वेति ।
लब्धास्पदां मनसि संविदम् एवम् ईड्यां नीत्वा स्थितिं परम् उपैति पदं महात्मा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc